स्कन्ध 5, अध्याय 20: महिषवधानन्तरं पृथिवीसुखवर्णनम्, Verse 1
५.२० विंशोऽध्यायः ।
महिषवधानन्तरं पृथिवीसुखवर्णनम् ।
जनमेजय उवाच - अथाद्भुतं वीक्ष्य मुने प्रभावं देव्या जगच्छान्तिकरं परञ्च ।
न तृप्तिरस्ति द्विजवर्य शृण्वतः कथामृतं ते मुखपद्मजातम् ॥ १॥
Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.२० विंशोऽध्यायः ।
महिषवधानन्तरं पृथिवीसुखवर्णनम् ।
जनमेजय उवाच - अथाद्भुतं वीक्ष्य मुने प्रभावं देव्या जगच्छान्तिकरं परञ्च ।
न तृप्तिरस्ति द्विजवर्य शृण्वतः कथामृतं ते मुखपद्मजातम् ॥ १॥
अन्तर्हितायां च तदा भवान्या चक्रुश्च किं देवपुरोगमास्ते ।
देव्याश्चरित्र परमं पवित्रं दुरापमेवाल्पपुण्यैर्नराणाम् ॥ २॥
कस्तृप्तिमाप्नोति कथामृतेन भिन्नोऽल्पभाग्यात्पटुकर्णरन्ध्रः ।
पीतेन येनामरतां प्रयाति धिक्तान्नरान् ये न पिबन्ति सादरम् ॥ ३॥
लीलाचरित्रं जगदम्बिकाया रक्षान्वितं देवमहामुनीनाम् ।
संसारवार्धेस्तरणं नराणां कथं कृतज्ञा हि परित्यजेयुः ॥ ४॥
मुक्ताश्च ये चैव मुमुक्षवश्च संसारिणो रोगयुताश्च केचित् ।
तेषां सदा श्रोत्रपुटैश्च पेयं सर्वार्थदं वेदविदो वदन्ति ॥ ५॥
तथा विशेषेण मुने नृपाणां धर्मार्थकामेषु सदा रतानाम् ।
मुक्ताश्च यस्मात्खलु तत्पिबन्ति कथं न पेयं रहितैश्च तेभ्यः ॥ ६॥
यैः पूजिता पूर्वभवे भवानी सत्कुन्दपुष्पैरथ चम्पकैश्च ।
बैल्वैर्दलैस्ते भुवि भोगयुक्ता नृपा भवन्तीत्यनुमेयमेवम् ॥ ७॥
ये भक्तिहीना समवाप्य देहं तं मानुषं भारतभूमिभागे ।
यैर्नार्चिता ते धनधान्यहीना रोगान्विताः सन्ततिवर्जिताश्च ॥ ८॥
भ्रमन्ति नित्यं किल दासभूता आज्ञाकराः केवलभारवाहाः ।
दिवानिशं स्वार्थपराः कदापि नैवाप्नुवन्त्यौदरपूर्तिमात्रम् ॥ ९॥
अन्धाश्च मूका बधिराश्च खञ्जाः कुष्ठान्विता ये भुवि दुःखभाजः ।
तत्रानुमानं कविभिर्विधेयं नाराधिता तैः सततं भवानी ॥ १०॥
ये राजभोगान्वितऋद्धिपूर्णाः संसेव्यमाना बहुभिर्मनुष्यैः ।
दृश्यन्ति ये वा विभवैः समेता- स्तैः पूजिताम्बेत्यनुमेयमेव ॥ ११॥
तस्मात्सत्यवतीसूनो देव्याश्चरितमुत्तमम् ।
कथयस्व कृपां कृत्वा दयावानसि साम्प्रतम् ॥ १२॥
हत्वा तं महिषं पापं स्तुता सम्पूजिता सुरैः ।
क्व गता सा महालक्ष्मीः सर्वतेजःसमुद्भवा ॥ १३॥
कथितं ते महाभाग गतान्तर्धानमाशु सा ।
स्वर्गे वा मृत्युलोके वा संस्थिता भुवनेश्वरी ॥ १४॥
लयं गता वा तत्रैव वैकुण्ठे वा समाश्रिता ।
अथवा हेमशैले सा तत्त्वतो मे वदाधुना ॥ १५॥
व्यास उवाच ।
पूर्वं मया ते कथितं मणिद्वीपं मनोहरम् ।
क्रीडास्थानं सदा देव्या वल्लभं परमं स्मृतम् ॥ १६॥
यत्र ब्रह्मा हरिः स्थाणुः स्त्रीभावं ते प्रपेदिरे ।
पुरुषत्वं पुनः प्राप्य स्वानि कार्याणि चक्रिरे ॥ १७॥
यः सुधासिन्धुमध्येऽस्ति द्वीपः परमशोभनः ।
नानारूपैः सदा तत्र विहारं कुरुतेऽम्बिका ॥ १८॥
स्तुता सम्पूजिता देवैः सा तत्रैव गता शिवा ।
यत्र सङ्क्रीडते नित्यं मायाशक्तिः सनातनी ॥ १९॥
देवास्तां निर्गतां वीक्ष्य देवीं सर्वेश्वरीं तथा ।
रविवंशोद्भवं चक्रुर्भूमिपालं महाबलम् ॥ २०॥
अयोध्याधिपतिं वीरं शत्रुघ्नं नाम पार्थिवम् ।
सर्वलक्षणसम्पन्नं महिषस्यासने शुभे ॥ २१॥
दत्त्वा राज्यं तदा तस्मै देवा इन्द्रपुरोगमाः ।
स्वकीयैर्वाहनैः सर्वे जग्मुः स्वान्यालयानि ते ॥ २२॥
गतेषु तेषु देवेषु पृथिव्यां पृथिवीपते ।
धर्मराज्यं बभूवाथ प्रजाश्च सुखितास्तथा ॥ २३॥
पर्जन्यः कालवर्षी च धरा धान्यगुणावृता ।
पादपाः फलपुष्पाढ्या बभूवुः सुखदाः सदा ॥ २४॥
गावश्च क्षीरसम्पना घटोध्न्यः कामदा नृणाम् ।
नद्यः सुमार्गगाः स्वच्छाः शीतोदाः खगसंयुताः ॥ २५॥
ब्राह्मणा वेदतत्त्वाश्च यज्ञकर्मरतास्तथा ।
क्षत्रिया धर्मसंयुक्ता दानाध्ययनतत्पराः ॥ २६॥
शस्त्रविद्यारता नित्यं प्रजारक्षणतत्पराः ।
न्यायदण्डधराः सर्वे राजानः शमसंयुताः ॥ २७॥
अविरोधस्तु भूतानां सर्वेषां सम्बभूव ह ।
आकरा धनदा नृणां व्रजा गोयूथसंयुताः ॥ २८॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च नृपसत्तम ।
देवीभक्तिपराः सर्वे सम्बभूवुर्धरातले ॥ २९॥
सर्वत्र यज्ञयूपाश्च मण्डपाश्च मनोहराः ।
मखैः पूर्णा धराश्चासन् ब्राह्मणैः क्षत्रियैः कृतैः ॥ ३०॥