स्कन्ध 5, अध्याय 18: महिषासुरवधः, Verse 1
५.१८ अष्टादशोऽध्यायः ।
महिषासुरवधः ।
महिष उवाच ।
तस्यास्तु भगिनी कन्या नाम्ना चेन्दुमती शुभा ।
विवाहयोग्या सञ्जाता सुरूपावरजा यदा ॥ १॥
Containing 71 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.१८ अष्टादशोऽध्यायः ।
महिषासुरवधः ।
महिष उवाच ।
तस्यास्तु भगिनी कन्या नाम्ना चेन्दुमती शुभा ।
विवाहयोग्या सञ्जाता सुरूपावरजा यदा ॥ १॥
तस्या विवाहः संवृत्तः सञ्जातश्च स्वयंवरः ।
राजानो बहुदेशीयाः सङ्गतास्तत्र मण्डपे ॥ २॥
तया वृतो नृपः कश्चिद्बलवान् रूपसंयुतः ।
कुलशीलसमायुक्तः सर्वलक्षणसंयुतः ॥ ३॥
तदा कामातुरा जाता विटं वीक्ष्य नृपं तु सा ।
चकमे दैवयोगात्तु शठं चातुर्यभूषितम् ॥ ४॥
पितरं प्राह तन्वङ्गी विवाहं कुरु मे पितः ।
इच्छा मेऽद्य समुद्भूता दृष्ट्वा मद्राधिपं त्विह ॥ ५॥
चन्द्रसेनोऽपि तच्छ्रुत्वा पुत्र्या यद्भाषितं रहः ।
प्रसन्नेन च मनसा तत्कार्ये तत्परोऽभवत् ॥ ६॥
तमाहूय नृपं गेहे विवाहविधिना ददौ ।
कन्यां मन्दोदरीं तस्मै पारिबर्हं तथा बहु ॥ ७॥
चारुदेष्णोऽपि तां प्राप्य सुन्दरीं मुदितोऽभवत् ।
जगाम स्वगृहं तुष्टो राजापि सहितः स्त्रिया ॥ ८॥
रेमे नृपतिशार्दूलः कामिन्या बहुवासरान् ।
कदाचिद्दासपत्न्या स रममाणो रहः किल ॥ ९॥
सैरन्ध्र्या कथितं तस्यै तया दृष्टः पतिस्तथा ।
उपालम्भं ददौ तस्मै स्मितपूर्वं रुषान्विता ॥ १०॥
कदाचिदपि सामान्यां रहो रूपवतीं नृपः ।
क्रीडयँल्लालयन्दृष्टः खेदं प्राप तदैव सा ॥ ११॥
न ज्ञातोऽयं शठः पूर्वं यदा दृष्टः स्वयंवरे ।
किं कृतं तु मया मोहाद्वञ्चिताहं नृपेण ह ॥ १२॥
किं करोम्यद्य सन्तापं निर्लज्जे निर्घृणे शठे ।
का प्रीतिरीदृशे पत्यौ धिगद्य मम जीवितम् ॥ १३॥
अद्यप्रभृति संसारे सुखं त्यक्तं मया खलु ।
पतिसम्भोगजं सर्वं सन्तोषोऽद्य मया कृतः ॥ १४॥
अकर्तव्यं कृतं कार्यं तज्जातं दुःखदं मम ।
देहत्यागः क्रियते चेद्धत्यातीव दुरत्यया ॥ १५॥
पितृगेहं व्रजाम्याशु तत्रापि न सुखं भवेत् ।
हास्ययोग्या सखीनां तु भवेयं नात्र संशयः ॥ १६॥
तस्मादत्रैव संवासो वैराग्ययुतया मया ।
कर्तव्यः कालयोगेन त्यक्त्वा कामसुखं पुनः ॥ १७॥
महिष उवाच ।
इति सञ्चिन्त्य सा नारी दुःखशोकपरायणा ।
स्थिता पतिगृहं त्यक्त्वा सुखं संसारजं ततः ॥ १८॥
तस्मात्त्वमपि कल्याणि मामनादृत्य भूपतिम् ।
अन्यं कापुरुषं मन्दं कामार्ता संश्रयिष्यसि ॥ १९॥
वचनं कुरु मे तथ्यं नारीणां परमं हितम् ।
अकृत्वा परमं शोकं लप्स्यसे नात्र संशयः ॥ २०॥
देव्युवाच ।
मन्दात्मन् गच्छ पातालं युद्धं वा कुरु साम्प्रतम् ।
हत्वा त्वामसुरान्सर्वान्गमिष्यामि यथासुखम् ॥ २१॥
यदा यदा हि साधूनां दुःखं भवति दानव ।
तदा तेषां च रक्षार्थं देहं सन्धारयाम्यहम् ॥ २२॥
अरूपायाश्च मे रूपमजन्मायाश्च जन्म च ।
सुराणां रक्षणार्थाय विद्धि दैत्य विनिश्चितम् ॥ २३॥
सत्यं ब्रवीमि जानीहि प्रार्थिताहं सुरैः किल ।
त्वद्वधार्थं हयारे त्वां हत्वा स्थास्यामि निश्चला ॥ २४॥
तस्माद्युध्यस्व वा गच्छ पातालमसुरालयम् ।
सर्वथा त्वां हनिष्यामि सत्यमेतद् ब्रवीम्यहम् ॥ २५॥
व्यास उवाच ।
इत्युक्तः स तया देव्या धनुरादाय दानवः ।
युद्धकामः स्थितस्तत्र सङ्ग्रामाङ्गणभूमिषु ॥ २६॥
मुमोच तरसा बाणान्कर्णाकृष्टाञ्छिलाशितान् ।
देवी चिच्छेद तान्बाणैः क्रोधान्मुक्तैरयोमुखैः ॥ २७॥
तयोः परस्परं युद्धं सम्बभूव भयप्रदम् ।
देवानां दानवानाञ्च परस्परजयैषिणाम् ॥ २८॥
मध्ये दुर्धर आगत्य मुमोच च शिलीमुखान् ।
देवीं प्रति विषासक्तान्कोपयन्नतिदारुणान् ॥ २९॥
ततो भगवती क्रुद्धा तं जघान शितैः शरैः ।
दुर्धरस्तु पपातोर्व्यां गतासुर्गिरिशृङ्गवत् ॥ ३०॥