स्कन्ध 5, अध्याय 17: राजपुत्रीमन्दोदरीवृत्तवर्णनम्, Verse 1
५.१७ सप्तदशोऽध्यायः ।
राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।
व्यास उवाच ।
इति श्रुत्वा वचस्तस्य देवी पप्रच्छ दानवम् ।
का सा मन्दोदरी नारी कोऽसौ त्यक्तो नृपस्तया ॥ १॥
Containing 62 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.१७ सप्तदशोऽध्यायः ।
राजपुत्रीमन्दोदरीवृत्तवर्णनम् ।
व्यास उवाच ।
इति श्रुत्वा वचस्तस्य देवी पप्रच्छ दानवम् ।
का सा मन्दोदरी नारी कोऽसौ त्यक्तो नृपस्तया ॥ १॥
शठः को वा नृपः पश्चात्तन्मे ब्रूहि कथानकम् ।
विस्तरेण यथा प्राप्तं दुःखं वनितया पुनः ॥ २॥
महिष उवाच ।
सिंहलो नाम देशोऽस्ति विख्यातः पृथिवीतले ।
घनपादपसंयुक्तो धनधान्यसमृद्धिमान् ॥ ३॥
चन्द्रसेनाभिधस्तत्र राजा धर्मपरायणः ।
न्यायदण्डधरः शान्तः प्रजापालनतत्परः ॥ ४॥
सत्यवादी मृदुः शूरस्तितिक्षुर्नीतिसागरः ।
शास्त्रवित्सर्वधर्मज्ञो धनुर्वेदेऽतिनिष्ठितः ॥ ५॥
तस्य भार्या वरारोहा सुन्दरी सुभगा शुभा ।
सदाचारातिसुमुखी पतिभक्तिपरायणा ॥ ६॥
नाम्ना गुणवती कान्ता सर्वलक्षणसंयुता ।
सुषुवे प्रथमे गर्भे पुत्रीं सा चातिसुन्दरीम् ॥ ७॥
पिता चातीव सन्तुष्टः पुत्रीं प्राप्य मनोरमाम् ।
मन्दोदरीति नामास्याः पिता चक्रे मुदान्वितः ॥ ८॥
इन्दोः कलेव चात्यर्थं ववृधे सा दिने दिने ।
दशवर्षा यदा जाता कन्या चातिमनोहरा ॥ ९॥
वरार्थं नृपतिश्चिन्तामवाप च दिने दिने ।
मद्रदेशाधिपः शूरः सुधन्वा नाम पार्थिवः ॥ १०॥
तस्य पुत्रोऽतिमेधावी कम्बुग्रीवोऽतिविश्रुतः ।
ब्राह्मणैः कथितो राज्ञे स युक्तोऽस्या वरः शुभः ॥ ११॥
सर्वलक्षणसम्पन्नः सर्वविद्यार्थपारगः ।
राज्ञा पृष्टा तदा राज्ञी नाम्ना गुणवती प्रिया ॥ १२॥
कम्बुग्रीवाय कन्यां स्वां दास्यामि वरवर्णिनीम् ।
सा तु पत्युर्वचः श्रुत्वा पुत्रीं पप्रच्छ सादरम् ॥ १३॥
विवाहं ते पिता कर्तुं कम्बुग्रीवेण वाञ्छति ।
तच्छ्रुत्वा मातरं प्राह वाक्यं मन्दोदरी तदा ॥ १४॥
नाहं पतिं करिष्यामि नेच्छा मेऽस्ति परिग्रहे ।
कौमारं व्रतमास्थाय कालं नेष्यामि सर्वथा ॥ १५॥
स्वातन्त्र्येण चरिष्यामि तपस्तीव्रं सदैव हि ।
पारतन्त्र्यं परं दुःखं मातः संसारसागरे ॥ १६॥
स्वातन्त्र्यान्मोक्षमित्याहुः पण्डिताः शास्त्रकोविदाः ।
तस्मान्मुक्ता भविष्यामि पत्या मे न प्रयोजनम् ॥ १७॥
विवाहे वर्तमाने तु पावकस्य च सन्निधौ ।
वक्तव्यं वचनं सम्यक्त्वदधीनास्मि सर्वदा ॥ १८॥
श्वश्रूदेवरवर्गाणां दासीत्वं श्वशुरालये ।
पतिचित्तानुवर्तित्वं दुःखाद्दुःखतरं स्मृतम् ॥ १९॥
कदाचित्पतिरन्यां वा कामिनीं च भजेद्यदि ।
तदा महत्तरं दुःखं सपत्नीसम्भवं भवेत् ॥ २०॥
तदेर्ष्या जायते पत्यौ क्लेशश्चापि भवेदथ ।
संसारे क्व सुखं मातर्नारीणां च विशेषतः ॥ २१॥
स्वभावात्परतन्त्राणां संसारे स्वप्नधर्मिणि ।
श्रुतं मया पुरा मातरुत्तानचरणात्मजः ॥ २२॥
उत्तमः सर्वधर्मज्ञो ध्रुवादवरजो नृपः ।
पत्नीं धर्मपरां साध्वीं पतिभक्तिपरायणाम् ॥ २३॥
अपराधं विना कान्तां त्यक्तवान्विपिने प्रियाम् ।
एवंविधानि दुःखानि विद्यमाने तु भर्तरि ॥ २४॥
कालयोगान्मृते तस्मिन्नारी स्याद्दुःखभाजनम् ।
वैधव्यं परमं दुःखं शोकसन्तापकारकम् ॥ २५॥
परोषितपतित्वेऽपि दुःखं स्यादधिकं गृहे ।
मदनाग्निविदग्धायाः किं सुखं पतिसङ्गजम् ॥ २६॥
तस्मात्पतिर्न कर्तव्यः सर्वथेति मतिर्मम ।
एवं प्रोक्ता तदा माता पतिं प्राह नृपात्मजा ॥ २७॥
न च वाञ्छति भर्तारं कौमारव्रतधारिणी ।
व्रतजाप्यपरा नित्यं संसाराद्विमुखी सदा ॥ २८॥
न काङ्क्षति पतिं कर्तुं बहुदोषविचक्षणा ।
भार्याया भाषितं श्रुत्वा तथैव संस्थितो नृपः ॥ २९॥
विवाहो न कृतः पुत्र्या ज्ञात्वा भावविवर्जिताम् ।
वर्तमाना गृहेष्वेव पित्रा मात्रा च रक्षिता ॥ ३०॥