स्कन्ध 5, अध्याय 16: महिषद्वारा देवीप्रबोधनम्, Verse 1
५.१६ षोडशोऽध्यायः ।
महिषद्वारा देवीप्रबोधनम् ।
व्यास उवाच ।
तेषां तद्वचनं श्रुत्वा क्रोधयुक्तो नराधिपः ।
दारुकं प्राह तरसा रथमानय मेऽद्भुतम् ॥ १॥
Containing 66 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.१६ षोडशोऽध्यायः ।
महिषद्वारा देवीप्रबोधनम् ।
व्यास उवाच ।
तेषां तद्वचनं श्रुत्वा क्रोधयुक्तो नराधिपः ।
दारुकं प्राह तरसा रथमानय मेऽद्भुतम् ॥ १॥
सहस्रखरसंयुक्तं पताकाध्वजभूषितम् ।
आयुधैः संयुतं शुभ्रं सुचक्रं चारुकूबरम् ॥ २॥
सूतोऽपि रथमानीय तमुवाच त्वरान्वितः ।
राजन् रथोऽयमानीतो द्वारि तिष्ठति भूषितः ॥ ३॥
सर्वायुधसमायुक्तो वरास्तरणसंयुतः ।
आनीतं तं रथं ज्ञात्वा दानवेन्द्रो महाबलः ॥ ४॥
मानुषं देहमास्थाय सङ्ग्रामे गन्तुमुद्यतः ।
विचार्य मनसा चेति देवी मां प्रेक्ष्य दुर्मुखम् ॥ ५॥
शृङ्गिणं महिषं नूनं विमना सा भविष्यति ।
नारीणां च प्रियं रूपं तथा चातुर्यमित्यपि ॥ ६॥
तस्माद्रूपं च चातुर्यं कृत्वा यास्यामि तां प्रति ।
यथा मां वीक्ष्य सा बाला प्रेमयुक्ता भविष्यति ॥ ७॥
ममापि च तदैव स्यात्सुखं नान्यस्वरूपतः ।
इति सञ्चिन्त्य मनसा दानवेन्द्रो महाबलः ॥ ८॥
त्यक्त्वा तन्माहिषं रूपं बभूव पुरुषः शुभः ।
सर्वायुधधरः श्रीमांश्चारुभूषणभूषितः ॥ ९॥
दिव्याम्बरधरः कान्तः पुष्पबाण इवापरः ।
रथोपविष्टः केयूरस्रग्वी बाणधनुर्धरः ॥ १०॥
सेनापरिवृतो देवीं जगाम मदगर्वितः ।
मनोज्ञं रूपमास्थाय मानिनीनां मनोहरम् ॥ ११॥
तमागतं समालोक्य दैत्यानामधिपं तदा ।
बहुभिः संवृतं वीरैर्देवी शङ्खमवादयत् ॥ १२॥
स शङ्खनिनदं श्रुत्वा जनविस्मयकारकम् ।
समीपमेत्य देव्यास्तु तामुवाच हसन्निव ॥ १३॥
देवि संसारचक्रेऽस्मिन्वर्तमानो जनः किल ।
नरो वाथ तथा नारी सुखं वाञ्छति सर्वथा ॥ १४॥
सुखं संयोगजं नॄणां नासंयोगे भवेदिह ।
संयोगो बहुधा भिन्नस्तान्ब्रवीमि शृणुष्व ह ॥ १५॥
भेदान्सुप्रीतिहेतूत्थान्स्वभावोत्थाननेकशः ।
तत्र प्रीतिभवानादौ कथयामि यथामति ॥ १६॥
मातापित्रोस्तु पुत्रेण संयोगस्तूत्तमः स्मृतः ।
भ्रातुर्भ्रात्रा तथा योगः कारणान्मध्यमो मतः ॥ १७॥
उत्तमस्य सुखस्यैव दातृत्वादुत्तमः स्मृतः ।
तस्मादल्पसुखस्यैव प्रदातृत्वाच्च मध्यमः ॥ १८॥
नाविकानां तु संयोगः स्मृतः स्वाभाविको बुधैः ।
विविधावृतचित्तानां प्रसङ्गपरिवर्तिनाम् ॥ १९॥
अत्यल्पसुखदातृत्वात्कनिष्ठोऽयं स्मृतो बुधैः ।
अत्युत्तमस्तु संयोगः संसारे सुखदः सदा ॥ २०॥
नारीपुरुषयोः कान्ते समानवयसो सदा ।
संयोगो यः समाख्यातः स एवात्युत्तमः स्मृतः ॥ २१॥
अत्युत्तमसुखस्यैव दातृत्वात्स तथाविधः ।
चातुर्यरूपवेषाद्यैः कुलशीलगुणैस्तथा ॥ २२॥
परस्परसमुत्कर्षः कथ्यते हि परस्परम् ।
तं चेत्करोषि संयोगं वीरेण च मया सह ॥ २३॥
अत्युत्तमसुखस्यैव प्राप्तिः स्यात्ते न संशयः ।
नानाविधानि रूपाणि करोमि स्वेच्छया प्रिये ॥ २४॥
इन्द्रादयः सुराः सर्वे सङ्ग्रामे विजिता मया ।
रत्नानि यानि दिव्यानि भवनेऽस्मिन्ममाधुना ॥ २५॥
भुङ्क्ष्व त्वं तानि सर्वाणि यथेष्टं देहि वा यथा ।
पट्टराज्ञी भवाद्य त्वं दासोऽस्मि तव सुन्दरि ॥ २६॥
वैरं त्यजेऽहं देवैस्तु तव वाक्यान्न संशयः ।
यथा त्वं सुखमाप्नोषि तथाहं करवाणि वै ॥ २७॥
आज्ञापय विशालाक्षि तथाहं प्रकरोम्यथ ।
चित्तं मे तव रूपेण मोहितं चारुभाषिणि ॥ २८॥
आतुरोऽस्मि वरारोहे प्राप्तस्ते शरणं किल ।
प्रपन्नं पाहि रम्भोरु कामबाणैः प्रपीडितम् ॥ २९॥
धर्माणामुत्तमो धर्मः शरणागतरक्षणम् ।
त्वदीयोऽस्म्यसितापाङ्गि सेवकोऽहं कृशोदरि ॥ ३०॥