स्कन्ध 5, अध्याय 15: असिलोमबिडालाख्यवधवर्णनम्, Verse 1
५.१५ पञ्चदशोऽध्यायः ।
असिलोमबिडालाख्यवधवर्णनम् ।
व्यास उवाच ।
तौ तया निहतौ श्रुत्वा महिषो विस्मयान्वितः ।
प्रेषयामास दैतेयांस्तद्वधार्थं महाबलान् ॥ १॥
Containing 60 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.१५ पञ्चदशोऽध्यायः ।
असिलोमबिडालाख्यवधवर्णनम् ।
व्यास उवाच ।
तौ तया निहतौ श्रुत्वा महिषो विस्मयान्वितः ।
प्रेषयामास दैतेयांस्तद्वधार्थं महाबलान् ॥ १॥
असिलोमबिडालाख्यप्रमुखान् युद्धदुर्मदान् ।
सैन्येन महता युक्तान्सायुधान्सपरिच्छदान् ॥ २॥
ते तत्र ददृशुर्देवीं सिंहस्योपरि संस्थिताम् ।
अष्टादशभुजां दिव्यां खड्गखेटकधारिणीम् ॥ ३॥
असिलोमाग्रतो गत्वा तामुवाच हसन्निव ।
विनयावनतः शान्तो देवीं दैत्यवधोद्यताम् ॥ ४॥
असिलोमोवाच ।
देवि ब्रूहि वचः सत्यं किमर्थमिह सुन्दरि ।
आगतासि किमर्थं वा हंसि दैत्यान्निरागसः ॥ ५॥
कारणं कथयाद्य त्वं त्वया सन्धिं करोम्यहम् ।
काञ्चनं मणिरत्नानि भाजनानि वराणि च ॥ ६॥
यानीच्छसि वरारोहे गहीत्वा गच्छ मा चिरम् ।
किमर्थं युद्धकामासि दुःखसन्तापवर्धनम् ॥ ७॥
कथयन्ति महात्मानो युद्धं सर्वसुखापहम् ।
कोमलेऽतीव ते देहे पुष्पघातासहे भृशम् ॥ ८॥
किमर्थं शस्त्रसम्पातान्सहसीति विसिस्मिये ।
चातुर्यस्य फलं शान्तिः सततं सुखसेवनम् ॥ ९॥
तत्किमर्थं दुःखहेतुं सङ्ग्रामं कर्तुमिच्छसि ।
संसारेऽत्र सुखं ग्राह्यं दुःखं हेयमिति स्थितिः ॥ १०॥
तत्सुखं द्विविधं प्रोक्तं नित्यानित्यप्रभेदतः ।
आत्मज्ञानं सुखं नित्यमनित्यं भोगजं स्मृतम् ॥ ११॥
नाशात्मकं तु तत्त्याज्यं वेदशास्त्रार्थचिन्तकैः ।
सौगतानां मतं चेत्त्वं स्वीकरोषि वरानने ॥ १२॥
तथापि यौवनं प्राप्य भुङ्क्ष्व भोगाननुत्तमान् ।
परलोकस्य सन्देहो यदि तेऽस्ति कृशोदरि ॥ १३॥
स्वर्गभोगपरा नित्यं भव भामिनि भूतले ।
अनित्यं यौवनं देहे ज्ञात्वेति सुकृतं चरेत् ॥ १४॥
परोपतापनं कार्यं वर्जनीयं सदा बुधैः ।
अविरोधेन कर्तव्यं धर्मार्थकामसेवनम् ॥ १५॥
तस्मात्त्वमपि कल्याणि मतिं धर्मे सदा कुरु ।
अपराधं विना दैत्यान्कस्मान्मारयसेऽम्बिके ॥ १६॥
दयाधर्मोऽस्य देहोऽस्ति सत्ये प्राणाः प्रकीर्तिताः ।
तस्माद्दया तथा सत्यं रक्षणीयं सदा बुधैः ॥ १७॥
कारणं वद सुश्रोणि दानवानां वधे तव ।
देव्युवाच ।
त्वया पृष्टं महाबाहो किमर्थमिह चागता ॥ १८॥
तदहं सम्प्रवक्ष्यामि हनने च प्रयोजनम् ।
विचरामि सदा दैत्य सर्वलोकेषु सर्वदा ॥ १९॥
न्यायान्यायौ च भूतानां पश्यन्ती साक्षिरूपिणी ।
न मे कदापि भोगेच्छा न लोभो न च वैरिता ॥ २०॥
धर्मार्थं विचराम्यत्र संसारे साधुरक्षणम् ।
व्रतमेतत्तु नियतं पालयामि निजं सदा ॥ २१॥
साधूनां रक्षणं कार्यं हन्तव्या येऽप्यसाधवः ।
वेदसंरक्षणं कार्यमवतारैरनेकशः ॥ २२॥
युगे युगे तानेवाहमवतारान्बिभर्मि च ।
महिषस्तु दुराचारो देवान्वै हन्तुमुद्यतः ॥ २३॥
ज्ञात्वाहं तद्वधार्थं भोः प्राप्तास्मि राक्षसाधुना ।
तं हनिष्ये दुराचारं सुरशत्रुं महाबलम् ॥ २४॥
गच्छ वा तिष्ठ कामं त्वं सत्यमेतदुदाहृतम् ।
ब्रूहि वा तं दुरात्मानं राजानं महिषीसुतम् ॥ २५॥
किमन्यान् प्रेषयस्यत्र स्वयं युद्धं कुरुष्व ह ।
सन्धिञ्चेत्कर्तुमिच्छास्ति राज्ञस्तव मया सह ॥ २६॥
सर्वे गच्छन्तु पातालं वैरं त्यक्त्वा यथासुखम् ।
देवद्रव्यं तु यत्किञ्चिद्धृतं जित्वा रणे सुरान् ।
तद्दत्त्वा यान्तु पातालं प्रह्लादो यत्र तिष्ठति ॥ २७॥
व्यास उवाच ।
तच्छुत्वा वचनं देव्या असिलोमा पुरःस्थितः ।
बिडालाख्यं महावीरं पप्रच्छ प्रीतिपूर्वकम् ॥ २८॥
असिलोमोवाच ।
श्रुतं तेऽद्य बिडालाख्य भवान्या कथितं च यत् ।
एवं गते किं कर्तव्यो विग्रहः सन्धिरेव वा ॥ २९॥
बिडालाख्य उवाच ।
न सन्धिकामोऽस्ति नृपोऽभिमानी युद्धे च मृत्युं नियतं हि जानन् ।
दृष्ट्वा हतान् प्रेरयते तथास्मा- न्दैव हि कोऽतिक्रमितुं समर्थः ॥ ३०॥