स्कन्ध 5, अध्याय 14: ताम्रचिक्षुराख्यवधवर्णनम्, Verse 1
५.१४ चतुर्दशोऽध्यायः ।
ताम्रचिक्षुराख्यवधवर्णनम् ।
व्यास उवाच ।
दुर्मुखं निहतं श्रुत्वा महिषः क्रोधमूर्च्छितः ।
उवाच दानवान्सर्वान्किं जातमिति चासकृत् ॥ १॥
Containing 57 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.१४ चतुर्दशोऽध्यायः ।
ताम्रचिक्षुराख्यवधवर्णनम् ।
व्यास उवाच ।
दुर्मुखं निहतं श्रुत्वा महिषः क्रोधमूर्च्छितः ।
उवाच दानवान्सर्वान्किं जातमिति चासकृत् ॥ १॥
निहतौ दानवौ शूरौ रणे दुर्मुखबाष्कलौ ।
तन्व्या तत्परमाश्चर्यं पश्यन्तु दैवचेष्टितम् ॥ २॥
कालो हि बलवान्कर्ता सततं सुखदुःखयोः ।
नराणां परतन्त्राणां पुण्यपापानुयोगतः ॥ ३॥
निहतौ दानवश्रेष्ठौ किं कर्तव्यमतः परम् ।
ब्रुवन्तु मिलिताः सर्वे यद्युक्तं कार्यसङ्कटे ॥ ४॥
व्यास उवाच ।
एवं ब्रुवति राजेन्द्र महिषेऽतिबलान्विते ।
चिक्षुराख्यस्तु सेनानीस्तमुवाच महारथः ॥ ५॥
राजन्नहं हनिष्यामि का चिन्ता स्त्रीविहिंसने ।
इत्युक्त्वा स्वबलैर्युक्तः प्रययौ रथसंयुतः ॥ ६॥
द्वितीयं पार्ष्णिरक्षं तु कृत्वा ताम्रं महाबलम् ।
महता सैन्यघोषेण पूरयन्गगनं दिशः ॥ ७॥
तमागच्छन्तमालोक्य देवी भगवती शिवा ।
चकार शङ्खज्याघोषं घण्टानादं महाद्भुतम् ॥ ८॥
तत्रसुस्तेन शब्देन ते च सर्वे सुरारयः ।
किमेतदिति भाषन्तो दुद्रुवुर्भयकम्पिताः ॥ ९॥
चिक्षुराख्यस्तु तान्दृष्ट्वा पलायनपरायणान् ।
उवाचातीव सङ्कुद्धः किं भयं वः समागतम् ॥ १०॥
अद्यैवाहं हनिष्यामि बाणैर्बालां मदोन्नताम् ।
तिष्ठन्त्वत्र भयं त्यक्त्वा दैत्याः समरमूर्धनि ॥ ११॥
इत्युक्त्वा दानवश्रेष्ठश्चापपाणिर्बलान्वितः ।
आगत्य सङ्गरे देवीमित्युवाच गतव्यथः ॥ १२॥
किं गर्जसि विशालाक्षि भीषयन्तीतरान्नरान् ।
नाहं बिभेमि तन्वङ्गि श्रुत्वा तेऽद्य विचेष्टितम् ॥ १३॥
स्त्रीवधे दूषणं ज्ञात्वा तथैवाकीर्तिसम्भवम् ।
उपेक्षां कुरुते चित्तं मदीयं वामलोचने ॥ १४॥
स्त्रीणां युद्धं कटाक्षैश्च तथा हावैश्च सुन्दरि ।
न शस्त्रैर्विहितं क्वापि त्वादृशीनां कदाचन ॥ १५॥
पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः ।
भवादृशीनां देहेषु दुनोति मालतीदलम् ॥ १६॥
धिग्जन्म मानुषे लोके क्षात्रधर्मानुजीविनाम् ।
लालितोऽयं प्रियो देहः कृन्तनीयः शितैः शरैः ॥ १७॥
तैलाभ्यङ्गैः पुष्पवातैस्तथा मिष्टान्नभोजनैः ।
पोषितोऽयं प्रियो देहो घातनीयः परेषुभिः ॥ १८॥
देहं छित्त्वासिधाराभिर्धनभृज्जायते नरः ।
धिग्धनं दुःखदं पूर्वं पश्चात्किं सुखदं भवेत् ॥ १९॥
त्वमप्यज्ञैव वामोरु युद्धमाकाङ्क्षसे यतः ।
सुखं सम्भोगजं त्यक्त्वा कं गुणं वेत्सि सङ्गरे ॥ २०॥
खड्गपातं गदाघातं भेदनञ्ज शिलीमुखैः ।
मरणान्ते तु संस्कारो गोमायुमुखकर्षणम् ॥ २१॥
तस्यैव कविभिर्धूर्तैः कृतं चातीव शंसनम् ।
रणे मृतानां स्वःप्राप्तिरर्थवादोऽस्ति केवलः ॥ २२॥
तस्माद् गच्छ वरारोहे यत्र ते रमते मनः ।
भज वा भूपतिं नाथं हयारिं सुरमर्दनम् ॥ २३॥
व्यास उवाच ।
एवं ब्रुवाणं तं दैत्यं प्रोवाच जगदम्बिका ।
किं मृषा भाषसे मूढ बुद्धिमानिव पण्डितः ॥ २४॥
नीतिशास्त्रं न जानासि विद्यां चान्वीक्षिकीं तथा ।
न सेवितास्त्वया वृद्धा न धर्मे मतिरस्ति ते ॥ २५॥
मूर्खसेवापरो यस्मात्तस्मात्त्वं मूर्ख एव हि ।
राजधर्मं न जानासि किं ब्रवीषि ममाग्रतः ॥ २६॥
सङ्ग्रामे महिषं हत्वा कृत्वा रुधिरकर्दमम् ।
यशःस्तम्भं स्थिरं कृत्वा गमिष्यामि यथासुखम् ॥ २७॥
देवानां दुःखदातारं दानवं मदगर्वितम् ।
हनिष्येऽहं दुराचारं युद्धं कुरु स्थिरो भव ॥ २८॥
जीवितेच्छास्ति चेन्मूढ महिषस्य तथा तव ।
तदा गच्छन्तु पातालं दानवाः सर्व एव ते ॥ २९॥
मुमूर्षा यदि वश्चित्ते युद्धं कुर्वन्तु सत्वराः ।
सर्वानेव वधिष्यामि निश्चयोऽयं ममाधुना ॥ ३०॥