स्कन्ध 5, अध्याय 13: महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम्, Verse 1
५.१३ त्रयोदशोऽध्यायः ।
महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।
व्यास उवाच ।
इत्युक्त्वा तौ महाबाहू दैत्यौ बाष्कलदुर्मुखौ ।
जग्मतुर्मददिग्धाङ्गौ सर्वशस्त्रास्त्रकोविदौ ॥ १॥
Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.
५.१३ त्रयोदशोऽध्यायः ।
महिषसेनाधिपबाष्कलदुर्मुखनिपातनवर्णनम् ।
व्यास उवाच ।
इत्युक्त्वा तौ महाबाहू दैत्यौ बाष्कलदुर्मुखौ ।
जग्मतुर्मददिग्धाङ्गौ सर्वशस्त्रास्त्रकोविदौ ॥ १॥
तौ गत्वा समरे देवीमूचतुर्वचनं तदा ।
दानवौ च मदोन्मत्तौ मेघगम्भीरया गिरा ॥ २॥
देवि देवा जिता येन महिषेण महात्मना ।
वरय त्वं वरारोहे सर्वदैत्याधिपं नृपम् ॥ ३॥
स कृत्वा मानुषं रूपं सर्वलक्षणसंयुतम् ।
भूषितं भूषणैर्दिव्यैस्त्वामेष्यति रहः किल ॥ ४॥
त्रैलोक्यविभवं कामं त्वमेष्यसि शुचिस्मिते ।
महिषे परमं भावं कुरु कान्ते मनोगतम् ॥ ५॥
कृत्वा पतिं महावीरं संसारसुखमद्भुतम् ।
त्वं प्राप्स्यसि पिकालापे योषितां खलु वाञ्छितम् ॥ ६॥
देव्युवाच ।
जाल्म त्वं किं विजानासि नारीयं काममोहिता ।
मन्दबुद्धिबलात्यर्थं भजेयं महिषं शठम् ॥ ७॥
कुलशीलगुणैस्तुल्यं तं भजन्ति कुलस्त्रियः ।
अधिकं रूपचातुर्यबुद्धिशीलक्षमादिभिः ॥ ८॥
का नु कामातुरा नारी भजेच्च पशुरूपिणम् ।
पशूनामधमं नूनं महिषं देवरूपिणी ॥ ९॥
गच्छतं महिषं तूर्णं भूपं बाष्कलदुर्मुखौ ।
वदतं मद्वचो दैत्यं गजतुल्यं विषाणिनम् ॥ १०॥
पातालं गच्छ वाभ्येत्य सङ्ग्रामं कुरु वा मया ।
रणे जाते सहस्राक्षो निर्भयः स्यादिति धुवम् ॥ ११॥
हत्वाहं त्वां गमिष्यामि नान्यथा गमनं मम ।
इत्थं ज्ञात्वा सुदुर्बुद्धे यथेच्छसि तथा कुरु ॥ १२॥
मामनिर्जित्य भूभागे न स्थानं ते कदाचन ।
भविष्यति चतुष्पाद दिवि वा गिरिकन्दरे ॥ १३॥
व्यास उवाच ।
इत्युक्तौ तौ तया दैत्यौ कोपाकुलितलोचनौ ।
धनुर्बाणधरौ वीरौ युद्धकामौ बभूवतुः ॥ १४॥
कृत्वा सुविपुलं नादं देवी सा निर्भया स्थिता ।
उभौ च चक्रतुस्तीव्रा बाणवृष्टिं कुरूद्वह ॥ १५॥
भगवत्यपि बाणौघान्मुमोच दानवौ प्रति ।
कृत्वातिमधुरं नादं देवकार्यार्थसिद्धये ॥ १६॥
तयोस्तु बाष्कलस्तूर्णं सम्मुखोऽभूद् रणाङ्गणे ।
दुर्मुखः प्रेक्षकस्तत्र देवीमभिमुखः स्थितः ॥ १७॥
तयोर्युद्धमभूद् घोरं देवीबाष्कलयोस्तदा ।
बाणासिपरिघाघातैर्भयदं मन्दचेतसाम् ॥ १८॥
ततः क्रुद्धा जगन्माता दृष्ट्वा तं युद्धदुर्मदम् ।
जघान पञ्चभिर्बाणैः कर्णाकृष्टैः शिलाशितैः ॥ १९॥
दानवोऽपि शरान्देव्याश्चिच्छेद निशितैः शरैः ।
सप्तभिस्ताडयामास देवीं सिंहोपरिस्थिताम् ॥ २०॥
सापि तं दशभिस्तीक्ष्णैः सुपीतैः सायकैः खलम् ।
जघान तच्छरांश्छित्त्वा जहास च मुहुर्मुहुः ॥ २१॥
अर्धचन्द्रेण बाणेन चिच्छेद च शरासनम् ।
बाष्कलोऽपि गदां गृह्य देवीं हन्तुमुपाययौ ॥ २२॥
आगच्छन्तं गदापाणिं दानवं मदगर्वितम् ।
चण्डिका स्वगदापातैः पातयामास भूतले ॥ २३॥
बाष्कलः पतितो भूमौ मुहूर्तादुत्थितः पुनः ।
चिक्षेप च गदां सोऽपि चण्डिकां चण्डविक्रमः ॥ २४॥
तमागच्छन्तमालोक्य देवी शूलेन वक्षसि ।
जघान बाष्कलं क्रुद्धा पपात च ममार सः ॥ २५॥
पतिते बाष्कले सैन्यं भग्नं तस्य दुरात्मनः ।
जयेति च मुदा देवाश्चुक्रुशुर्गगने स्थिताः ॥ २६॥
तस्मिंश्च निहते दैत्ये दुर्मुखोऽतिबलान्वितः ।
आजगाम रणे देवीं क्रोधसंरक्तलोचनः ॥ २७॥
तिष्ठ तिष्ठाबले सोऽपि भाषमाणः पुनः पुनः ।
धनुर्बाणधरः श्रीमान्रथस्थः कवचावृतः ॥ २८॥
तमागच्छन्तमालोक्य देवी शङ्खमवादयत् ।
कोपयन्ती दानवं तं ज्याघोषञ्च चकार ह ॥ २९॥
सोऽपि बाणान्मुमोचाशु तीक्ष्णानाशीविषोपमान् ।
स्वबाणैस्तान्महामाया चिच्छेद च ननाद च ॥ ३०॥