स्कन्ध 1, अध्याय 10: शिववरदानवर्णनम्, Verse 1
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां १.१० दशमोऽध्यायः ।
शिववरदानवर्णनम् ।
ऋषय ऊचुः ।
सूत पूर्वं त्वया प्रोक्तं व्यासेनामिततेजसा ।
कृत्वा पुराणमखिलं शुकायाध्यापितं शुभम् ॥ १॥
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां १.१० दशमोऽध्यायः ।
शिववरदानवर्णनम् ।
ऋषय ऊचुः ।
सूत पूर्वं त्वया प्रोक्तं व्यासेनामिततेजसा ।
कृत्वा पुराणमखिलं शुकायाध्यापितं शुभम् ॥ १॥
व्यासेन तु तपस्तप्त्वा कथमुत्पादितः शुकः ।
विस्तरं ब्रूहि सकलं यच्छ्रुतं कृष्णतस्त्वया ॥ २॥
सूत उवाच ।
प्रवक्ष्यामि शुकोत्पत्तिं व्यासात्सत्यवतीसुतात् ।
यथोत्पन्नः शुकः साक्षाद्योगिनां प्रवरो मुनिः ॥ ३॥
मेरुशृङ्गे महारम्ये व्यासः सत्यवतीसुतः ।
तपश्चचार सोऽत्युग्रं पुत्रार्थं कृतनिश्चयः ॥ ४॥
जपन्नेकाक्षरं मन्त्रं वाग्बीजं नारदाच्छ्रुतम् ।
ध्यायन्परां महामायां पुत्रकामस्तपोनिधिः ॥ ५॥
अग्नेर्भूमेस्तथा वायोरन्तरिक्षस्य चाप्ययम् ।
वीर्येण सम्मितः पुत्रो मम भूयादिति स्म ह ॥ ६॥
अतिष्ठत्स गताहारः शतसंवत्सरं प्रभुः ।
आराधयन्महादेवं तथैव च सदाशिवाम् ॥ ७॥
शक्तिः सर्वत्र पूज्येति विचार्य च पुनः पुनः ।
अशक्तो निन्द्यते लोके शक्तस्तु परिपूज्यते ॥ ८॥
यत्र पर्वतशृङ्गे वै कर्णिकारवनाद्भुते ।
क्रीडन्ति देवताः सर्वे मुनयश्च तपोऽधिकाः ॥ ९॥
आदित्या वसवो रुद्रा मरुतश्चाश्विनौ तथा ।
वसन्ति मुनयो यत्र ये चान्ये ब्रह्मवित्तमाः ॥ १०॥
तत्र हेमगिरेः शृङ्गे सङ्गीतध्वनिनादिते ।
तपश्चचार धर्मात्मा व्यासः सत्यवतीसुतः ॥ ११॥
ततोऽस्य तेजसा व्याप्तं विश्वं सर्वं चराचरम् ।
अग्निवर्णा जटा जाता पाराशर्यस्य धीमतः ॥ १२॥
ततोऽस्य तेज आलक्ष्य भयमाप शचीपतिः ।
तुरासाहं तदा दृष्ट्वा भयत्रस्तं श्रमातुरम् ॥ १३॥
उवाच भगवान् रुद्रो मघवन्तं तथास्थितम् ।
शङ्कर उवाच ।
कथमिन्द्राद्य भीतोऽसि किं दुःखं ते सुरेश्वर ॥ १४॥
अमर्षो नैव कर्तव्यस्तापसेषु कदाचन ।
तपश्चरन्ति मुनयो ज्ञात्वा मां शक्तिसंयुतम् ॥ १५॥
न त्वेतेऽहितमिच्छन्ति तापसाः सर्वथैव हि ।
इत्युक्तवचनः शक्रस्तमुवाच वृषध्वजम् ॥ १६॥
कस्मात्तपस्यति व्यासः कोऽर्थस्तस्य मनोगतः ।
शिव उवाच ।
पाराशर्यस्तु पुत्रार्थी तपश्चरति दुश्चरम् ॥ १७॥
पूर्णवर्षशतं जातं ददाम्यद्य सुतं शुभम् ।
सूत उवाच ।
इत्युक्त्या वासवं रुद्रो दयया मुदिताननः ॥ १८॥
गत्वा ऋषिसमीपं तु तमुवाच जगद्गुरुः ।
उत्तिष्ठ वासवीपुत्र पुत्रस्ते भविता शुभः ॥ १९॥
सर्वतेजोमयो ज्ञानी कीर्तिकर्ता तवानघ ।
अखिलस्य जनस्यात्र वल्लभस्ते सुतः सदा ॥ २०॥
भविष्यति गुणैः पूर्णः सात्त्विकैः सत्यविक्रमः ।
सूत उवाच ।
तदाकर्ण्य वचः श्लक्ष्णं कृष्णद्वैपायनस्तदा ॥ २१॥
शूलपाणिं नमस्कृत्य जगामाश्रममात्मनः ।
स गत्वाश्रममेवाशु बहुवर्षश्रमातुरः ॥ २२॥
अरणीसहितं गुह्यं ममन्थाग्निं चिकीर्षया ।
मन्थनं कुर्वतस्तस्य चित्ते चिन्ताभरस्तदा ॥ २३॥
प्रादुर्बभूव सहसा सुतोत्पत्तौ महात्मनः ।
मन्थानारणिसंयोगान्मन्थनाच्च समुद्भवः ॥ २४॥
पावकस्य यथा तद्वत्कथं मे स्यात्सुतोद्भवः ।
पुत्रारणिस्तु या ख्याता सा ममाद्य न विद्यते ॥ २५॥
तरुणी रूपसम्पन्ना कुलोत्पन्ता पतिव्रता ।
कथं करोमि कान्तां च पादयोः शृङ्खलासमाम् ॥ २६॥
पुत्रोत्पादनदक्षां च पातिव्रत्ये सदा स्थिताम् ।
पतिव्रतापि दक्षापि रूपवत्यपि कामिनी ॥ २७॥
सदा बन्धनरूपा च स्वेच्छासुखविधायिनी ।
शिवोऽपि वर्तते नित्यं कामिनीपाशसंयुतः ॥ २८॥
कथं करोम्यहं चात्र दुर्घटं च गृहाश्रमम् ।
एवं चिन्तयतस्तस्य घृताची दिव्यरूपिणी ॥ २९॥
प्राप्ता दृष्टिपथं तत्र समीपे गगने स्थिता ।
तां दृष्ट्वा चञ्चलापाङ्गीं समीपस्थां वराप्सराम् ॥ ३०॥