स्कन्ध 1, अध्याय 1: शौनकप्रश्नः, Verse 1
१ श्रीमद्देवीभागवतमहापुराणे प्रथमः स्कन्धः १.१ प्रथमोऽध्यायः ।
शौनकप्रश्नः ।
ॐ सर्वचैतन्यरूपां तां आद्यां विद्यां च धीमहि ।
बुद्धिं या नः प्रचोदयात् ॥ १॥
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
१ श्रीमद्देवीभागवतमहापुराणे प्रथमः स्कन्धः १.१ प्रथमोऽध्यायः ।
शौनकप्रश्नः ।
ॐ सर्वचैतन्यरूपां तां आद्यां विद्यां च धीमहि ।
बुद्धिं या नः प्रचोदयात् ॥ १॥
शौनक उवाच - सूत सूत महाभाग धन्योऽसि पुरुषर्षभ ।
यदधीतास्त्वया सम्यक् पुराणसंहिताः शुभाः ॥ २॥
अष्टादश पुराणानि कृष्णेन मुनिनानघ ।
कथितानि सुदिव्यानि पठितानि त्वयानघ ॥ ३॥
पञ्चलक्षणयुक्तानि सरहस्यानि मानद ।
त्वया ज्ञातानि सर्वाणि व्यासात्सत्यवतीसुतात् ॥ ४॥
अस्माकं पुण्ययोगेन प्राप्तस्त्वं क्षेत्रमुत्तमम् ।
दिव्यं विश्वसनं पुण्यं कलिदोषविवर्जितम् ॥ ५॥
समाजोऽयं मुनीनां हि श्रोतुकामोऽस्ति पुण्यदाम् ।
पुराणसंहितां सूत ब्रूहि त्वं नः समाहितः ॥ ६॥
दीर्घायुर्भव सर्वज्ञ तापत्रयविवर्जितः ।
कथयाद्य महाभाग पुराणं ब्रह्मसम्मितम् ॥ ७॥
श्रोत्रेन्द्रिययुताः सूत नराः स्वादविचक्षणाः ।
न शृण्वन्ति पुराणानि वञ्चिता विधिना हि ते ॥ ८॥
यथा जिह्वेन्द्रियाह्लादः षड्रसैः प्रतिपद्यते ।
तथा श्रोत्रेन्द्रियाह्लादो वचोभिः सुधियां स्मृतः ॥ ९॥
अश्रोत्राः फणिनः कामं मुह्यन्ति हि नभोगुणैः ।
सकर्णा ये न शृण्वन्ति तेऽप्यकर्णाः कथं न च ॥ १०॥
अतः सर्वे द्विजाः सौम्य श्रोतुकामाः समाहिताः ।
वर्तन्ते नैमिषारण्ये क्षेत्रे कलिभयार्दिताः ॥ ११॥
येन केनाप्युपायेन कालातिवाहनं स्मृतम् ।
व्यसनैरिह मूर्खाणां बुधानां शास्त्रचिन्तनैः ॥ १२॥
शास्त्राण्यपि विचित्राणि जल्पवादयुतानि च ।
त्रिविधानि पुराणानि शास्त्राणि विविधानि च ।
विताण्डाच्छलयुक्तानि गर्वामर्षकराणि च ।
नानार्थवादयुक्तानि हेतुमन्ति बृहन्ति च ॥ १३॥
सात्त्विकं तत्र वेदान्तं मीमांसा राजसं मतम् ।
तामसं न्यायशास्त्रं च हेतुवादाभियन्त्रितम् ॥ १४॥
तथैव च पुराणानि त्रिगुणानि कथानकैः ।
कथितानि त्वया सौम्य पञ्चलक्षणवन्ति च ॥ १५॥
तत्र भागवतं पुण्यं पञ्चमं वेदसम्मितम् ।
कथितं यत्त्वया पूर्वं सर्वलक्षणसंयुतम् ॥ १६॥
उद्देशमात्रेण तदा कीर्तितं परमाद्भुतम् ।
मुक्तिप्रदं मुमुक्षूणां कामदं धर्मदं तथा ॥ १७॥
विस्तरेण तदाख्याहि पुराणोत्तममादरात् ।
श्रोतुकामा द्विजाः सर्वे दिव्यं भागवतं शुभम् ॥ १८॥
त्वं तु जानासि धर्मज्ञ पौराणीं संहितां किल ।
कृष्णोक्तां गुरुभक्तत्वात् सम्यक् सत्त्वगुणाश्रयः ॥ १९॥
श्रुतान्यन्यानि सर्वज्ञ त्वन्मुखान्निःसृतानि च ।
नैव तृप्तिं व्रजामोऽद्य सुधापानेऽमरा यथा ॥ २०॥
धिक्सुधां पिबतां सूत मुक्तिर्नैव कदाचन ।
पिबन्भागवतं सद्यो नरो मुच्येत सङ्कटात् ॥ २१॥
सुधापाननिमित्तं यत् कृता यज्ञाः सहस्रशः ।
न शान्तिमधिगच्छामः सूत सर्वात्मना वयम् ॥ २२॥
मखानां हि फलं स्वर्गः स्वर्गात्प्रच्यवनं पुनः ।
एवं संसारचक्रेऽस्म्निन् भ्रमणं च निरन्तरम् ॥ २३॥
विना ज्ञानेन सर्वज्ञ नैव मुक्तिः कदाचन ।
भ्रमतां कालचक्रेऽत्र नराणां त्रिगुणात्मके ॥ २४॥
अतः सर्वरसोपेतं पुण्यं भागवतं वद ।
पावनं मुक्तिदं गुह्यं मुमुक्षूणां सदा प्रियम् ॥ २५॥