Complete Upanishad, Verse 1
श्रीदत्तात्रेयोपनिषत्
दत्तात्रेयीब्रह्मविद्यासंवेद्यानन्दविग्रहम् ।
त्रिपान्नारायणाकरं दत्तात्रेयमुपास्महे ॥
ॐ भद्रं कर्णेभिः श्रुणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिर्व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
हरिः ॐ ॥
सत्यक्षेत्रे ब्रह्मा नारायणं महासाम्राज्यं किं
तारकं तन्नो ब्रूहि भगवन्नित्युक्तः सत्यानन्द सात्त्विकं मामकं
धामोपास्वेत्याह ।
सदा दत्तोऽहमस्मीति प्रत्येतत्संवदन्ति येन ते
संसारिणो भवन्ति नारायणेनैवं विवक्षितो ब्रह्मा विश्वरूपधरं
विष्णुं नारायणं दत्तात्रेअयं ध्यात्वा सद्वदति ।
दमिति हंसः ।
दामिति दीर्घं तद्बीजं नाम बीजस्थम् ।
दामित्येकाक्षरं भवति ।
तदेतत्तारकं भवति ।
तदेवोपासितव्यं विज्ञेयं गर्भादितारणम् ।
गायत्री छन्दः ।
सदाशिव ऋषिः ।
दत्तात्रेयो देवता ।
वटबीजस्थमिव
दत्तबीजस्थं सर्वं जगत् ।
एतदैवाक्षरं व्याख्यातम् ।
दत्तात्रेयषडक्षरमन्त्रः
व्याख्यास्ये षडक्षरम् ।
ओमिति प्रथमम् ।
श्रीमिति द्वितीयम् ।
ह्रीमिति तृतीयम् ।
क्लीमिति चतुर्थम् ।
ग्लौमिति पञ्चमम् ।
द्रामिति षट्कम् ।
षडक्षरोऽयं भवति ।
सर्वसम्पद्वृद्धिकरी भवति ।
योगानुभवो भवति ।
गायत्री छन्दः ।
सदाशिव ऋषिः ।
दत्तात्रेयो
देवता ।
ॐ श्रीं ह्रीं क्लीं ग्लौं द्रां इति षडक्षरोऽयं भवति ।
द्रमित्युक्त्वा द्रामित्युक्त्वा वा दत्तात्रेयाय नम इत्यष्टाक्षरः ।
दत्तात्रेयायेति सत्यानन्दचिदात्मकम् ।
नम इति पूर्णानन्दकविग्रहम् ।
गायत्री छन्दः ।
सदाशिव ऋषिः ।
दत्तात्रेयो देवता ।
दत्तात्रेयायेति
कीलकम् ।
तदेव बीजम् ।
नमः शक्तिर्भवति ।
ओमिति प्रथमम् ।
आमिति
द्वितीयम् ।
ह्रीमिति तृतीयम् ।
क्रोमिति चतुर्थम् ।
एहीति तदेव वदेत् ।
दत्तात्रेयेति स्वाहेति मन्त्रराजोऽयं द्वादशाक्षरः ।
जगती छन्दः ।
सदाशिव ऋषिः ।
दत्तात्रेयो देवता ।
ओमिति बीजम् ।
स्वाहेति शक्तिः ।
सम्बुद्धिरिति कीलकम् ।
द्रमिति हृदये ।
ह्रीं क्लीमिति शीर्षे ।
एहीति शिखायाम् ।
दत्तेति कवचे ।
आत्रेयेति चक्षुषि ।
स्वाहेत्यस्त्रे ।
तन्मयो भवति ।
य एवं वेद ।
षोडशाक्षरं व्याख्यास्ये ।
प्राणं देयम् ।
मानं देयम् ।
चक्षुर्देयम् ।
श्रोत्रं देयम् ।
षड्दशशिरश्छिनत्ति षोडशाक्षरमन्त्रे न देयो भवति ।
अतिसेवापरभक्तगुणवच्छिष्याय वदेत् ।
ओमिति प्रथमं भवति ।
ऐमिति द्वितीयम् ।
क्रोमिति तृतीयम् ।
क्लीमिति चतुर्थम् ।
क्लूमिति पञ्चमम् ।
ह्रामिति षष्ठम् ।
ह्रीमिति
सप्तमम् ।
ह्रूमित्यष्टमम् ।
सौरिति नवमम् ।
दत्तात्रेयायेति चतुर्दशम् ।
स्वाहेति षोडशम् ।
गायत्री छन्दः ।
सदाशिव ऋषिः ।
दत्तात्रेयो देवता ।
ॐ बीजम् ।
स्वाहा शक्तिः ।
चतुर्थ्यन्तं कीलकम् ।
ओमिति हृदये ।
क्लां क्लीं क्लूमिति शिखायाम् ।
सौरिति
कवचे ।
चतुर्थ्यन्तं चक्षुषि ।
स्वाहेत्यस्त्रे ।
यो
नित्यमधीयानः सच्चिदानन्द सुखी मोक्षी भवति ।
सौरित्यन्ते श्रीवैष्णव इत्युच्यते ।
तज्जापी विष्णुरूपी
भवति ।
अनुष्टुप् छन्दो व्याख्यास्ये ।
सर्वत्र
सम्बुद्धिरिमानीत्युच्यन्ते ।
दत्तात्रेय हरे कृष्ण
उन्मत्तानन्ददायक ।
दिगम्बर मुने बालपिशाच
ज्ञानसागर