Complete Upanishad, Verse 1
दक्षिणामूर्त्युपनिषत्
यन्मौनव्याख्यया मौनिपटलं क्षणमात्रतः ।
महामौनपदं याति स हि मे परमा गतिः ॥
ॐ सह नाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥
ॐ ब्रह्मावर्ते महाभाण्डीरवटमूले महासत्राय समेता
महर्षयः शौनकादयस्ते ह समित्पाणयस्तत्त्वजिज्ञासवो
मार्कण्डेयं चिरऽजीविनमुपसमेत्य पप्रच्छुः केन त्वं
चिरं जीवसि केन वानन्दमनुभवसीति ।
परमरहस्यशिव-
तत्त्वज्ञानेनेति स होवाच ।
किं तत्परमरहस्यशिवतत्त्वज्ञानम् ।
तत्र को देवः ।
के मन्त्राः ।
को जपः ।
का मुद्रा ।
का निष्ठा ।
किं तज्ज्ञानसाधनम् ।
कः परिकरः ।
को बलिः ।
कः कालः ।
किं तत्स्थानमिति ।
स होवाच ।
येन दक्षिणामुखः शिवोऽपरोक्षीकृतो
भवति तत्परमरहस्यशिवतत्त्वज्ञानम् ।
यः सर्वोपरमे काले
सर्वानात्मन्युपसंहृत्य स्वात्मानन्दसुखे मोदते प्रकाशते
वा स देवः ।
अत्रैते मन्त्ररहस्यश्लोका भवन्ति ।
मेधा
दक्षिणामूर्तिमन्त्रस्य ब्रह्मा ऋषिः ।
गायत्री छन्दः ।
देवता दक्षिणास्यः ।
मन्त्रेणाङ्गन्यासः ।
ॐ आदौ नम उच्चार्य
ततो भगवते पदम् ।
दक्षिणेति पदं पश्चान्मूर्तये पदमुद्धरेत्