Chandogya Upanishad

Chandogya Upanishad

Containing 628 sacred Sanskrit shlokas with multi-author commentaries and translations.

Chandogya Upanishad

Chandogya Upanishad, Verse 1

छान्दोग्योपनिषत्

॥

अथ छान्दोग्योपनिषत् ॥

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः

श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।

सर्वं ब्रह्मौपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म

निराकरोदनिराकरणमस्त्वनिराकरणंं मेऽस्तु ।

तदात्मनि निरते य उपनिषत्सु धर्मास्ते

मयि सन्तु ते मयि सन्तु ॥

॥

ॐ शान्तिः शान्तिः शान्तिः ॥

॥

प्रथमोऽध्यायः ॥

ओमित्येतदक्षरमुद्गीथमुपासीत ।

ओमिति ह्युद्गायति तस्योपव्याख्यानम्

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति प्रथमः खण्डः ॥

देवासुरा ह वै यत्र संयेतिरे उभये प्राजापत्यास्तद्ध

देवा उद्गीथमाजह्रुरनेनैनानभिभविष्याम इति

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति द्वितीयः खण्डः ॥

अथाधिदैवतं य एवासौ तपति

तमुद्गीथमुपासीतोद्यन्वा एष प्रजाभ्य उद्गायति ।

उद्यꣳस्तमो भयमपहन्त्यपहन्ता ह वै भयस्य

तमसो भवति य एवं वेद

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति तृतीयः खण्डः ॥

ओमित्येतदक्षरमुद्गीथमुपासीतोमिति ह्युद्गायति

तस्योपव्याख्यानम्

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति चतुर्थः खण्डः ॥

अथ खलु य उद्गीथः स प्रणवो यः प्रणवः स उद्गीथ

इत्यसौ वा आदित्य उद्गीथ एष प्रणव ओमिति

ह्येष स्वरन्नेति

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति पञ्चमः खण्डः ॥

इयमेवर्गग्निः साम तदेतदेतस्यामृच्यध्यूढ़ꣳ साम

तस्मादृच्यध्यूढꣳसाम गीयत इयमेव

साग्निरमस्तत्साम

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति षष्ठः खण्डः ॥

अथाध्यात्मं वागेवर्क्प्राणः साम तदेतदेतस्यामृच्यध्यूढꣳ

साम तस्मादृच्यध्यूढꣳसाम गीयते ।

वागेव सा प्राणोऽमस्तत्साम

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति सप्तमः खण्डः ॥

त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यश्चैकितायनो

दाल्भ्यः प्रवाहणो जैवलिरिति ते होचुरुद्गीथे

वै कुशलाः स्मो हन्तोद्गीथे कथां वदाम इति

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति अष्टमः खण्डः ॥

अस्य लोकस्य का गतिरित्याकाश इति होवाच

सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्त

आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानकाशः

परायणम्

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति नवमः खण्डः ॥

मटचीहतेषु कुरुष्वाटिक्या सह जाययोषस्तिर्ह

चाक्रायण इभ्यग्रामे प्रद्राणक उवास

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति दशमः खण्डः ॥

अथ हैनं यजमान उवाच भगवन्तं वा अहं

विविदिषाणीत्युषस्तिरस्मि चाक्रायण इति होवाच

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति एकादशः खण्डः ॥

अथातः शौव उद्गीथस्तद्ध बको दाल्भ्यो ग्लावो वा

मैत्रेयः स्वाध्यायमुद्वव्राज

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति द्वादशः खण्डः ॥

अयं वाव लोको हाउकारः वायुर्हाइकारश्चन्द्रमा

अथकारः ।

आत्मेहकारोऽग्निरीकारः

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति त्रयोदशः खण्डः ॥

॥

इति प्रथमोऽध्यायः ॥

॥

द्वितीयोऽध्यायः ॥

समस्तस्य खलु साम्न उपासनꣳ साधु यत्खलु साधु

तत्सामेत्याचक्षते यदसाधु तदसामेति

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति प्रथमः खण्डः ॥

लोकेषु पञ्चविधꣳ सामोपासीत पृथिवी हिंकारः ।

अग्निः प्रस्तावोऽन्तरिक्षमुद्गीथ आदित्यः प्रतिहारो

द्यौर्निधनमित्यूर्ध्वेषु

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति द्वितीयः खण्डः ॥

वृष्टौ पञ्चविधꣳ सामोपासीत पुरोवातो हिंकारो

मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते

स्तनयति स प्रतिहार उद्गृह्णाति तन्निधनम्

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति तृतीयः खण्डः ॥

सर्वास्वप्सु पञ्चविधꣳसामोपासीत मेघो यत्सम्प्लवते

स हिंकारो यद्वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्ते

स उद्गीथो याः प्रतीच्यः स प्रतिहारः

समुद्रो निधनम्

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति चतुर्थः खण्डः ॥

ऋतुषु पञ्चविधꣳ सामोपासीत वसन्तो हिंकारः

ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो

हेमन्तो निधनम्

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति पञ्चमः खण्डः ॥

पशुषु पञ्चविधꣳ सामोपासीताजा हिंकारोऽवयः

प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः

पुरुषो निधनम्

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति षष्ठः खण्डः ॥

प्राणेषु पञ्चविधं परोवरीयः सामोपासीत प्राणो

हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारो

मनो निधनं परोवरीयाꣳसि वा एतानि

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति सप्तमः खण्डः ॥

अथ सप्तविधस्य वाचि सप्तविध्ꣳ सामोपासीत

यत्किंच वाचो हुमिति स हिंकारो यत्प्रेति स प्रस्तावो

यदेति स आदिः

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति अष्टमः खण्डः ॥

अथ खल्वमुमादित्यꣳसप्तविधꣳ सामोपासीत सर्वदा

समस्तेन साम मां प्रति मां प्रतीति सर्वेण

समस्तेन साम

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति नवमः खण्डः ॥

अथ खल्वात्मसंमितमतिमृत्यु सप्तविधꣳ

सामोपासीत हिंकार इति त्र्यक्षरं प्रस्ताव

इति त्र्यक्षरं तत्समम्

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति दशमः खण्डः ॥

मनो हिंकारो वाक्प्रस्तावश्चक्षुरुद्गीथः श्रोत्रं प्रतिहारः

प्राणो निधनमेतद्गायत्रं प्राणेषु प्रोतम्

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति एकदशः खण्डः ॥

अभिमन्थति स हिंकारो धूमो जायते स प्रस्तावो

ज्वलति स उद्गीथोऽङ्गारा भवन्ति स प्रतिहार

उपशाम्यति तन्निधनꣳ सꣳशाम्यति

तन्निधनमेतद्रथंतरमग्नौ प्रोतम्

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति द्वादशः खण्डः ॥

उपमन्त्रयते स हिंकारो ज्ञपयते स प्रस्तावः

स्त्रिया सह शेते स उद्गीथः प्रति स्त्रीं सह शेते

स प्रतिहारः कालं गच्छति तन्निधनं पारं गच्छति

तन्निधनमेतद्वामदेव्यं मिथुने प्रोतम्

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति त्रयोदशः खण्डः ॥

उद्यन्हिंकार उदितः प्रस्तावो मध्यंदिन उद्गीथोऽपराह्णः

प्रतिहारोऽस्तं यन्निधनमेतद्बृहदादित्ये प्रोतम्

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति चतुर्दशः खण्डः ॥

अभ्राणि सम्प्लवन्ते स हिंकारो मेघो जायते

स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति

स प्रतिहार उद्गृह्णाति तन्निधनमेतद्वैरूपं पर्जन्ये प्रोतम्

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति पञ्चदशः खण्डः ॥

वसन्तो हिंकारो ग्रीष्मः प्रस्तावो वर्षा उद्गीथः

शरत्प्रतिहारो हेमन्तो निधनमेतद्वैराजमृतुषु प्रोतम्

Chandogya Upanishad

Chandogya Upanishad, Verse 1

॥

इति षोडशः खण्डः ॥

पृथिवी हिंकारोऽन्तरिक्षं प्रस्तावो द्यौरुद्गीथो

दिशः प्रतिहारः समुद्रो निधनमेताः शक्वर्यो

लोकेषु प्रोताः