Brihad Jabala Upanishad

Complete Upanishad

Containing 138 sacred Sanskrit shlokas with multi-author commentaries and translations.

Brihad Jabala Upanishad

Complete Upanishad, Verse 1

बृहज्जाबालोपनिषत्

यज्ज्ञानाग्निः स्वातिरिक्तभ्रमं भस्म करोति तत् ।

बृहज्जाबालनिगमशिरोवेद्यमहं महः ॥

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः ।

भद्रं

पश्येमाक्षभिर्यजत्राः ।

स्थिरैरङ्गैस्तुष्टुवाꣳसस्तनूभिः ।

व्यशेम देवहितं

यदायुः ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः ।

स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः ।

स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

ॐ आपो वा इदमसत्सलिलमेव ।

स प्रजापतिरेकः पुष्करपर्णे

समभवत् ।

तस्यान्तर्मनसि कामः समवर्तत इदं सृजेयमिति ।

तस्माद्यत्पुरुषो

मनसाभिगच्छति ।

तद्वाचा वदति ।

तत्कर्मणा करोति ।

तदेषाभ्यनूक्ता ।

कामस्तदग्रे समवर्तताधि ।

मनसो रेतः प्रथमं यदासीत् ।

सतो बन्धुमसति निरविन्दन् ।

हृदि प्रतीष्या कवयो

मनीषेति ।

उपैनं तदुपनमति ।

यत्कामो भवति ।

य एवं वेद ।

स

तपोऽतप्यत ।

स तपस्तप्त्वा ।

स एतं भुसुण्डः कालाग्निरुद्रमगमदागत्य भो

विभूतेर्माहात्म्यं ब्रूहीति तथेति प्रत्यवोचद्भुसुण्डं

वक्ष्यमाणं किमिति

विभूतिरुद्राक्षयोर्माहात्म्यं बभाणेति आदावेव पैप्पलादेन

सहोक्तमिति

तत्फलश्रुतिरिति तस्योर्ध्वं किं वदामेति ।

बृहज्जाबालाभिधां मुक्तिश्रुतिं

ममोपदेशं कुरुष्वेति ।

ॐ तदेति ।

सद्योजातात्पृथिवी ।

तस्याः स्यान्निवृत्तिः ।

तस्याः कपिलवर्णानन्दा ।

तद्गोमयेन विभूतिर्जाता ।

वामदेवादुदकम् ।

तस्मात्प्रतिष्ठा ।

तस्याः कृष्णवर्णाभद्रा ।

तद्गोमयेन

भसितं जातम् ।

अघोराद्वह्निः ।

तस्माद्विद्या ।

तस्या रक्तवर्णा सुरभिः ।

तद्गोमयेन भस्म जातम् ।

तत्पुरुषाद्वायुः ।

तस्माच्छान्तिः ।

तस्याः श्वेतवर्णा

सुशीला ।

तस्या

गोमयेन क्षारं जातम् ।

ईशानादाकाशम् ।

तस्माच्छान्त्यतीता ।

तस्याश्चित्रवर्णा सुमनाः ।

तद्गोमयेन रक्षा जाता ।

विभूतिर्भसितं भस्म

क्षारं रक्षेति भस्मनो भवन्ति पञ्च नामानि ।

पञ्चभिर्नामभिर्भृशमैश्वर्यकारणाद्भूतिः ।

भस्म

सर्वाघभक्षणात् ।

भासनाद्भसितम् ।

क्षारणदापदां क्षारम् ।

भूतप्रेतपिशाचब्रह्मराक्षसापस्मारभवभीतिभ्योऽभिरक्षण

अद्रक्षेति ॥

प्रथमं ब्राह्मणम्

Brihad Jabala Upanishad

Complete Upanishad, Verse 2

अथ भुसुण्डः कालाग्निरुद्रमग्नीषोमात्मकं भस्मस्नानविधिं

पप्रच्छ ।

अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव ।

एकं भस्म सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो

बहिश्च ॥

अग्नीषोमात्मकं विश्वमित्यग्निराचक्षते ।

रौद्री घोरा या तैजसी तनूः ।

सोमः शक्त्यमृतमयः

शक्तिकरी तनूः ।

अमृतं यत्प्रतिष्ठा सा तेजोविद्याकला स्वयम् ।

स्थूलसूक्ष्मेषु भूतेषु स एव रसतेजसी

Brihad Jabala Upanishad

Complete Upanishad, Verse 3

द्विविधा तेजसो वृत्तिः सूर्यात्मा चानलात्मिका ।

तथैव रसशक्तिश्च सोमात्मा चानलात्मिका

Brihad Jabala Upanishad

Complete Upanishad, Verse 4

वैद्युदादिमयं तेजो मधुरादिमयो रसः ।

तेजोरसविभेदैस्तु वृत्तमेतच्चराचरम्

Brihad Jabala Upanishad

Complete Upanishad, Verse 5

अग्नेरमृतनिष्पत्तिरमृतेनाग्निरेधते ।

अत एव हविः क्लृप्तमग्नीषोमात्मकं जगत्

Brihad Jabala Upanishad

Complete Upanishad, Verse 6

ऊर्ध्वशक्तिमयं सोम अधोशक्तिमयोऽनलः ।

ताभ्यां सम्पुटितस्तस्माच्छश्वद्विश्वमिदं जगत्

Brihad Jabala Upanishad

Complete Upanishad, Verse 7

अग्नेरूर्ध्वं भवत्येषा यावत्सौम्यं परामृतम् ।

यावदग्न्यात्मकं सौम्यममृतं विसृत्यधः

Brihad Jabala Upanishad

Complete Upanishad, Verse 8

अत एव हि कालाग्निरधस्ताच्छक्तिरूर्ध्वगा ।

यावदादहनश्चोर्ध्वमधस्तात्पावनं भवेत्

Brihad Jabala Upanishad

Complete Upanishad, Verse 9

आधारशक्त्यावधृतः कालाग्निरयमूर्ध्वगः ।

तथैव निम्नगः सोमः शिवशक्तिपदास्पदः

Brihad Jabala Upanishad

Complete Upanishad, Verse 10

शिवश्चोर्ध्वमयः शक्तिरूर्ध्वशक्तिमयः शिवः ।

तदित्थं शिवशक्तिभ्यां नाव्याप्तमिह किंचन

Brihad Jabala Upanishad

Complete Upanishad, Verse 11

असकृच्चाग्निना दग्धं जगत्तद्भस्मसात्कृतम् ।

अग्नेर्वीर्यमिदं प्राहुस्तद्वीर्यं भस्म यत्ततः

Brihad Jabala Upanishad

Complete Upanishad, Verse 12

यश्चेत्थं भस्मसद्भावं ज्ञात्वाभिस्नाति भस्मना ।

अग्निरित्यादिभिर्मन्त्रैर्दग्धपापः स उच्यते

Brihad Jabala Upanishad

Complete Upanishad, Verse 13

अग्नेर्वीर्यं च तद्भस्म सोमेनाप्लावितं पुनः ।

अयोगयुक्त्या प्रकृतेरधिकाराय कल्पते

Brihad Jabala Upanishad

Complete Upanishad, Verse 14

योगयुक्त्या तु तद्भस्म प्लाव्यमानं समन्ततः ।

शाक्तेनामृतवर्षेण ह्यधिकारान्निवर्तते

Brihad Jabala Upanishad

Complete Upanishad, Verse 15

अतो मृत्युञ्जयायेत्थममृतप्लावनं सताम् ।

शिवशक्त्यमृतस्पर्शे लब्ध एव कुतो मृतिः

Brihad Jabala Upanishad

Complete Upanishad, Verse 16

यो वेद गहनं गुह्यं पावनं च तथोदितम् ।

अग्नीषोमपुटं कृत्वा न स भूयोऽभिजायते

Brihad Jabala Upanishad

Complete Upanishad, Verse 17

शिवाग्निना तनुं दग्ध्वा शक्तिसोमामृतेन यः ।

प्लावयेद्योगमार्गेण सोऽमृतत्वाय कल्पते सोऽमृत्वाय कल्पत

इति

Brihad Jabala Upanishad

Complete Upanishad, Verse 18

द्वितीयं ब्राह्मणम्

Brihad Jabala Upanishad

Complete Upanishad, Verse 19

अथ भुसुण्डः कालाग्निरुद्रं विभूतियोगमनुब्रूहीति होवाच

विकटाङ्गामुन्मत्तां महाखलां मलिनामशिवादिचिह्नान्वितां

पुनर्धेनुं कृशाङ्गां वत्सहीनामशान्तामदुघ्धदोहिनीं

निरिन्द्रियां जग्धतृणां केशचेलास्थिभक्षिणीं सन्धिनीं

नवप्रसूतां रोगार्तां गां विहाय

प्रशस्तगोमयमाहरेद्गोमयं स्वस्थं ग्राह्यं शुभे स्थाने वा

पतितमपरित्यज्यात ऊर्ध्वं मर्दयेद्गव्येन गोमयग्रहणं कपिला

वा धवला वा अलाभे तदन्या गौः स्याद्दोषवर्जिता

कपिलागोर्भस्मोक्तं लब्धं गोभस्म नो चेदन्यगोक्षारं यत्र

क्वापि स्थितं च यत्तन्न हि धार्यं संस्कारसहितं

धार्यम् ।

तत्रैते श्लोका भवन्ति ।

विद्याशक्तिः समस्तानां शक्तिरित्यभिधीयते ।

गुणत्रयाश्रया विद्या सा विद्या च तदाश्रया

Brihad Jabala Upanishad

Complete Upanishad, Verse 20

गुणत्रयमिदं धेनुर्विद्याभूद्गोमयं शुभम् ।

मूत्रं चोपनिषत्प्रोक्तं कुर्याद्भस्म ततः परम् ॥

वत्सस्तु स्मृतयश्चास्य तत्सम्भूतं तु गोमयम् ।

आगाव इति मन्त्रेण धेनुं तत्राभिमन्त्रयेत्

Brihad Jabala Upanishad

Complete Upanishad, Verse 21

गावो भग गावो इति प्राशयेत्तर्पणं जलम् ।

उपोष्य च चतुर्दश्यां शुक्ले कृष्णेऽथवा व्रती

Brihad Jabala Upanishad

Complete Upanishad, Verse 22

परेद्युः प्रातरुत्थाय शुचिर्भूत्वा समाहितः ।

कृतस्नानो धौतवस्त्रः पयोर्धं च सृजेच्च गाम्

Brihad Jabala Upanishad

Complete Upanishad, Verse 23

उत्थाप्य गां प्रयत्नेन गायत्र्या मूत्रमाहरेत् ।

सौवर्णे राजते ताम्रे धारयेन्मृण्मये घटे

Brihad Jabala Upanishad

Complete Upanishad, Verse 24

पौष्करेऽथ पलाशे वा पात्रे गोश‍ृङ्ग एव वा ।

आदधीत हि गोमूत्रं गन्धद्वारेति गोमयम्

Brihad Jabala Upanishad

Complete Upanishad, Verse 25

अभूमिपातं गृह्णीयात्पात्रे पूर्वोदिते गृही ।

गोमयं शोधयेद्विद्वान्श्रीर्मे भजतुमन्त्रतः

Brihad Jabala Upanishad

Complete Upanishad, Verse 26

अलक्ष्मीर्म इति मन्त्रेण गोमयं धान्यवर्जितम् ।

संत्वासिंचामि मन्त्रेण गोमये क्षिपेत्

Brihad Jabala Upanishad

Complete Upanishad, Verse 27

पञ्चानां त्विति मन्त्रेण पिण्डानां च चतुर्दश ।

कुर्यात्संशोध्य किरणैः सौरकैराहरेत्ततः

Brihad Jabala Upanishad

Complete Upanishad, Verse 28

निदध्यादथ पूर्वोक्तपात्रे गोमयपिण्डकान् ।

स्वगृह्योक्तविधानेन प्रतिष्ठाप्याग्निमीजयेत्

Brihad Jabala Upanishad

Complete Upanishad, Verse 29

पिण्डांश्च निक्षिपेत्तत्र आद्यन्तं प्रणवेन तु ।

षडक्षरस्य सूक्तस्य व्याकृतस्य तथाक्षरैः

Brihad Jabala Upanishad

Complete Upanishad, Verse 30

स्वाहान्ते जुहुयात्तत्र वर्णदेवाय पिण्डकान् ।

आघारावाज्यभागौ च प्रक्षिपेद्व्याहृतीः सुधीः