Complete Upanishad, Verse 1
ब्रह्मोपनिषत्
ॐ शौनको ह वै महाशालोऽङ्गिरसं भगवन्तं
पिप्पलादमपृच्छत् ।
दिव्ये ब्रह्मपुरे सम्प्रतिष्टिता
भवन्ति कथं सृजन्ति कस्यैष महिमा बभूव यो
ह्मषे महिमा बभूव क एषः ।
तस्मै स होवाच ब्रह्मविद्यं वरिष्ठाम् ।
प्राणो ह्येष
आत्मा ।
आत्मनो महिमा बभुव देवानामायुः स देवानां
निधनमनिधनं दिव्ये ब्रह्मपुरे विरजं निष्कलं
शुभ्रमक्षरं यद्ब्रह्म विभाति स नियच्छति
मघुकरराजानं माक्षिकवदिति ।
यथा माक्षीकैकेन
तन्तुना जालं वक्षिपति तेनापकर्षति तथैवैष प्राणो
यदा याति संसृष्टमाकृष्य ।
प्राणदेवतास्ताः सर्वा
नाड्यः ।
सुष्वपे श्येनाकाशवद्यथा खं श्येनमाश्रित्य
याति स्वमालयमेवं सुषुप्तो ब्रूते यथैवैष देवदत्तो
यष्ट्याऽपि ताड्यमानो न यत्येवमिष्टापूर्तैः
शुभाशुभैर्न लिप्यते ।
यथा कुमारो निष्काम
आनन्दमुपयाति तथैवैष देवदत्तः स्वप्न आनन्दमभियाति ।
वेद एव परं ज्योतिः ज्योतिष्कामो ज्योतिरानन्दयते ।
भूयस्तेनैव स्वप्नाय गच्छति जलौकावत् ।
यथा
जलौकाऽग्रमग्रं नयत्यात्मानं नयति परं संधय ।
यत्परं नापरं त्यजति स जाग्रदभिधियते ।
यथैवैष
कपालाष्टकं संनयति ।
तमेव स्तन इव लम्बते
वेददेवयोनः ।
यत्र जाग्रति शुभाशुभं निरुक्तमस्य
देवस्य स सम्प्रसारोऽन्थर्यामी खगः कर्कटकः पुष्करः
पुरुषः ग्राणो हिंसा परापरं ब्रह्म आत्मा देवता वेदयति ।
य एवं वेद स परं ब्रह्म धं क्षेत्रज्ञमुपैति