अध्याय 99, Verse 1
ब्रह्मोवाच ।
ऋणप्रमोचनं नाम तीर्थं वेदविदो विदुः ।
तस्य स्वरूपं वक्ष्यामि शृणु नारद तन्मनाः ॥ ९९.१॥
Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
ऋणप्रमोचनं नाम तीर्थं वेदविदो विदुः ।
तस्य स्वरूपं वक्ष्यामि शृणु नारद तन्मनाः ॥ ९९.१॥
आसीत् पृथुश्रवा नाम प्रियः कक्षीवतः सुतः ।
न दारसंग्रहं लेभे वैराग्यान् नाग्निपूजनम् ॥ ९९.२॥
कनीयांस्तु समर्थोऽपि परिवित्तिभयान् मुने ।
नाकरोद् दारकर्मादि नैवाग्नीनामुपासनम् ॥ ९९.३॥
ततः प्रोचुः पितृगणाः पुत्रं कक्षीवतः शुभम् ।
ज्येष्ठं चैव कनिष्ठं च पृथक् पृथग् इदं वचः ॥ ९९.४॥
पितर ऊचुः ।
ऋणत्रयापनोदाय क्रियतां दारसंग्रहः ॥ ९९.५॥
ब्रह्मोवाच ।
नेत्युवाच ततो ज्येष्ठः किम् ऋणं केन युज्यते ।
कनीयांस्तु पितृन् प्राह न योग्यो दारसंग्रहः ॥ ९९.६॥
ज्येष्ठे सति महाप्राज्ञः परिवित्तिभयाद् इति ।
तावुभौ पुनरप्येवमूचुस्ते वै पितामहाः ॥ ९९.७॥
पितर ऊचुः ।
यातामुभौ गौतमीं तु पुण्यां कक्षीवतः सुतौ ।
कुरुतां गौतमीस्नानं सर्वाभीष्टप्रदायकम् ॥ ९९.८॥
गच्छतां गौतमीं गङ्गां लोकत्रितयपावनीम् ।
स्नानं च तर्पणं तस्यां कुरुतां श्रद्धयान्वितौ ॥ ९९.९॥
दृष्टावनामिता ध्याता गौतमी सर्वकामदा ।
न देशकालजात्यादि+ ंइयमोऽत्रावगाहने ।
ज्येष्ठोऽनृणस्ततो भूयात् परिवित्तिर्न चेतरः ॥ ९९.१०॥
ब्रह्मोवाच ।
ततः पृथुश्रवा ज्येष्ठः कृत्वा स्नानं सतर्पणम् ।
त्रयाणामपि लोकानां काक्षीवतोऽनृणोऽभवत् ॥ ९९.११॥
ततः प्रभृति तत् तीर्थम् ऋणमोचनमुच्यते ।
श्रौतस्मार्तर्णेभ्यश्च इतरेभ्यश्च नारद ।
तत्र स्नानेन दानेन ऋणी मुक्तः सुखी भवेत् ॥ ९९.१२॥