अध्याय 98, Verse 1
ब्रह्मोवाच ।
अग्नितीर्थमिति ख्यातं सर्वक्रतुफलप्रदम् ।
सर्वविघ्नोपशमनं तत्तीर्थस्य फलं शृणु ॥ ९८.१॥
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
अग्नितीर्थमिति ख्यातं सर्वक्रतुफलप्रदम् ।
सर्वविघ्नोपशमनं तत्तीर्थस्य फलं शृणु ॥ ९८.१॥
जातवेदा इति ख्यातो अग्नेर्भ्राता स हव्यवाट् ।
हव्यं वहन्तं देवानां गौतम्यास्तीर एव तु ॥ ९८.२॥
ऋषीणां सत्त्रसदने अग्नेर्भ्रातरमुत्तमम् ।
भ्रातुः प्रियं तथा दक्षं मधुर्दितिसुतो बली ॥ ९८.३॥
जघान ऋषिमुख्येषु पश्यत्सु च सुरेष्वपि ।
हव्यं देवा नैव चापुर्मृते वै जातवेदसि ॥ ९८.४॥
मृते भ्रातरि स त्वग्निः प्रिये वै जातवेदसि ।
कोपेन महताविष्टो गाङ्गमम्भः समाविशत् ॥ ९८.५॥
गङ्गाम्भसि समाविष्टे ह्यग्नौ देवाश्च मानुषाः ।
जीवमुत्सर्जयामासुरग्निजीवा यतो मताः ॥ ९८.६॥
यत्राग्निर्जलमाविष्टस्तं देशं सर्व एव ते ।
आजग्मुर्विबुधाः सर्व ऋषयः पितरस्तथा ॥ ९८.७॥
विनाग्निना न जीवामः स्तुवन्तोऽग्निं विशेषतः ।
अग्निं जलगतं दृष्ट्वा प्रियं चोचुर्दिवौकसः ॥ ९८.८॥
देवा ऊचुः ।
देवाञ् जीवय हव्येन कव्येन च पितृंस्तथा ।
मानुषान् अन्नपाकेन बीजानां क्लेदनेन च ॥ ९८.९॥
ब्रह्मोवाच ।
अग्निरप्याह तान् देवाञ् शक्तो यो मे गतोऽनुजः ।
क्रियमाणे भवत्कार्ये या गतिर्जातवेदसः ॥ ९८.१०॥
सा वापि स्यान् मम सुरा नोत्सहे कार्यसाधने ।
कार्यं तु सर्वतस्तस्य भवतां जातवेदसः ॥ ९८.११॥
इमां स्थितिमनुप्राप्तो न जाने मे कथं भवेत् ।
इह चामुत्र च व्याप्तौ शक्तिरप्यत्र नो भवेत् ॥ ९८.१२॥
अथापि क्रियमाणे वै कार्ये सैव गतिर्मम ।
देवास्तमूचुर्भावेन सर्वेण ऋषयस्तथा ॥ ९८.१३॥
आयुः कर्मणि च प्रीतिर्व्याप्तौ शक्तिश्च दीयते ।
प्रयाजान् अनुयाजांश्च दास्यामो हव्यवाहन ॥ ९८.१४॥
देवानां त्वं मुखं श्रेष्ठमाहुत्यः प्रथमास्तव ।
त्वया दत्तं तु यद् द्रव्यं भोक्ष्यामः सुरसत्तम ॥ ९८.१५॥
ब्रह्मोवाच ।
ततस्तुष्टोऽभवद् वह्निर्देववाक्याद् यथाक्रमम् ।
इह चामुत्र च व्याप्तौ हव्ये वा लौकिके तथा ॥ ९८.१६॥
सर्वत्र वह्निरभयः समर्थोऽभूत् सुराज्ञया ।
जातवेदा बृहद्भानुः सप्तार्चिर्नीललोहितः ॥ ९८.१७॥
जलगर्भः शमीगर्भो यज्ञगर्भः स उच्यते ।
जलाद् आकृष्य विबुधा अभिषिच्य विभावसुम् ॥ ९८.१८॥
उभयत्र पदे वासः सर्वगोऽग्निस्ततोऽभवत् ।
यथागतं सुरा जग्मुर्वह्नितीर्थं तद् उच्यते ॥ ९८.१९॥
तत्र सप्त शतान्यासंस्तीर्थानि गुणवन्ति च ।
तेषु स्नानं च दानं च यः करोति जितात्मवान् ॥ ९८.२०॥
अश्वमेधफलं साग्रं प्राप्नोत्यविकलं शुभम् ।
देवतीर्थं च तत्रैव आग्नेयं जातवेदसम् ॥ २१.२॥
अग्निप्रतिष्ठितं लिङ्गं तत्रास्तेऽनेकवर्णवत् ।
तद्देवदर्शनाद् एव सर्वक्रतुफलं लभेत् ॥ ९८.२२॥