अध्याय 97, Verse 1
ब्रह्मोवाच ।
पौलस्त्यं तीर्थमाख्यातं सर्वसिद्धिप्रदं नृणाम् ।
प्रभावं तस्य वक्ष्यामि भ्रष्टराज्यप्रदायकम् ॥ ९७.१॥
Containing 33 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
पौलस्त्यं तीर्थमाख्यातं सर्वसिद्धिप्रदं नृणाम् ।
प्रभावं तस्य वक्ष्यामि भ्रष्टराज्यप्रदायकम् ॥ ९७.१॥
उत्तराशापतिः पूर्वम् ऋद्धिसिद्धिसमन्वितः ।
पुरा लङ्कापतिश्चासीज्ज्येष्ठो विश्रवसः सुतः ॥ ९७.२॥
तस्यैते भ्रातरश्चासन् बलवन्तोऽमितप्रभाः ।
सापत्ना रावणश्चैव कुम्भकर्णो विभीषणः ॥ ९७.३॥
तेऽपि विश्रवसः पुत्रा राक्षस्यां राक्षसास्तु ते ।
मद्दत्तेन विमानेन धनदो भ्रातृभिः सह ॥ ९७.४॥
ममान्तिकं भक्तियुक्तो नित्यमेति तु याति च ।
रावणस्य तु या माता कुपिता साब्रवीत् सुतान् ॥ ९७.५॥
रावणमातोवाच ।
मरिष्ये न च जीविष्ये पुत्रा वैरूप्यकारणात् ।
देवाश्च दानवाश्चासन् सापत्ना भ्रातरो मिथः ॥ ९७.६॥
अन्योन्यवधमीप्सन्ते जयैश्वर्यवशानुगाः ।
तद्भवन्तो न पुरुषा न शक्ता न जयैषिणः ।
सापत्न्यं योऽनुमन्यते तस्य जीवो निरर्थकः ॥ ९७.७॥
ब्रह्मोवाच ।
तन् मातृवचनं श्रुत्वा भ्रातरस्ते त्रयो मुने ।
जग्मुस्ते तपसेऽरण्यं कृतवन्तस्तपो महत् ॥ ९७.८॥
मत्तो वरान् अवापुश्च त्रय एते च राक्षसाः ।
मातुलेन मरीचेन तथा मातामहेन तु ॥ ९७.९॥
तन्मातृवचनाच्चापि ततो लङ्कामयाचत ।
रक्षोभावान् मातृदोषाद् भ्रात्रोर्वैरमभून् महत् ॥ ९७.१०॥
ततस्तद् अभवद् युद्धं देवदानवयोरिव ।
युद्धे जित्वाग्रजं शान्तं धनदं भ्रातरं तथा ॥ ९७.११॥
पुष्पकं च पुरीं लङ्कां सर्वं चैव व्यपाहरत् ।
रावणो घोषयामास त्रैलोक्ये सचराचरे ॥ ९७.१२॥
यो दद्याद् आश्रयं भ्रातुः स च वध्यो भवेन् मम ।
भ्रात्रा निरस्तो वैश्रवणो नैव प्रापाश्रयं क्वचित् ।
पितामहं पुलस्त्यं तं गत्वा नत्वाब्रवीद् वचः ॥ ९७.१३॥
धनद उवाच ।
भ्रात्रा निरस्तो दुष्टेन किं करोमि वदस्व मे ।
आश्रयः शरणं यत् स्याद् दैवं वा तीर्थमेव च ॥ ९७.१४॥
ब्रह्मोवाच ।
तत् पौत्रवचनं श्रुत्वा पुलस्त्यो
पुलस्त्य उवाच ।
गौतमीं गच्छ पुत्र त्वं स्तुहि देवं महेश्वरम् ।
तत्र नास्य प्रवेशः स्याद् गङ्गाया जलमध्यतः ॥ ९७.१६॥
सिद्धिं प्राप्स्यसि कल्याणीं तथा कुरु मया सह ॥ ९७.१७॥
ब्रह्मोवाच ।
तथेत्युक्त्वा जगामासौ सभार्यो धनदस्तथा ।
पित्रा मात्रा च वृद्धेन पुलस्त्येन धनेश्वरः ॥ ९७.१८॥
गत्वा तु गौतमीं गङ्गां शुचिः स्नात्वा यतव्रतः ।
तुष्टाव देवदेवेशं भुक्तिमुक्तिप्रदं शिवम् ॥ ९७.१९॥
धनद उवाच ।
स्वामी त्वमेवास्य चराचरस्य ।
विश्वस्य शम्भो न परोऽस्ति कश्चित् ।
त्वामप्यवज्ञाय यदीह मोहात् ।
प्रगल्भते कोऽपि स शोच्य एव ॥ ९७.२०॥
त्वमष्टमूर्त्या सकलं बिभर्षि ।
त्वदाज्ञया वर्तत एव सर्वम् ।
तथापि वेदेति बुधो भवन्तम् ।
न जात्वविद्वान् महिमा पुरातनम् ॥ ९७.२१॥
मलप्रसूतं यद् अवोचद् अम्बा ।
हास्यात् सुतोऽयं तव देव शूरः ।
त्वत्प्रेक्षिताद् यः स च विघ्नराजो ।
जज्ञे त्वहो चेष्टितमीशदृष्टेः ॥ ९७.२२॥
अश्रुप्लुताङ्गी गिरिजा समीक्ष्य ।
वियुक्तदाम्पत्यमितीशमूचे ।
मनोभवोऽभून् मदनो रतिश्च ।
सौभाग्यपूर्वत्वमवाप सोमात् ॥ ९७.२३॥
ब्रह्मोवाच ।
इत्यादि स्तुवतस्तस्य पुरतोऽभूत् त्रिलोचनः ।
वरेण च्छन्दयामास हर्षान् नोवाच किंचन ॥ ९७.२४॥
तूष्णीम्भूते तु धनदे पुलस्त्ये च महेश्वरे ।
पुनः पुनर्वरस्वेति शिवे वादिनि हर्षिते ॥ ९७.२५॥
एतस्मिन्न् अन्तरे तत्र वाग् उवाचाशरीरिणी ।
प्राप्तव्यं धनपालत्वं वदन्तीदं महेश्वरम् ॥ ९७.२६॥
पुलस्त्यस्य तु यच्चित्तं पितुर्वैश्रवणस्य तु ।
विदित्वेव तदा वाणी शुभमर्थमुदीरयत् ॥ ९७.२७॥
भूतवद् भवितव्यं स्याद् दास्यमानं तु दत्तवत् ।
प्राप्तव्यं प्राप्तवत् तत्र दैवी वाग् अभवच्छुभा ॥ ९७.२८॥
प्रभूतशत्रुः परिभूतदुःखः ।
सम्पूज्य सोमेश्वरमाप लिङ्गम् ।
दिगीश्वरत्वं द्रविणप्रभुत्वम् ।
अपारदातृत्वकलत्रपुत्रान् ॥ ९७.२९॥
तां वाचं धनदः श्रुत्वा देवदेवं त्रिशूलिनम् ।
एवं भवतु नामेति धनदो वाक्यमब्रवीत् ॥ ९७.३०॥