अध्याय 96, Verse 1
ब्रह्मोवाच ।
इन्द्रतीर्थमिति ख्यातं ब्रह्महत्याविनाशनम् ।
स्मरणाद् अपि पापौघ+ ।
क्लेशसंघविनाशनम् ॥ ९६.१॥
Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
इन्द्रतीर्थमिति ख्यातं ब्रह्महत्याविनाशनम् ।
स्मरणाद् अपि पापौघ+ ।
क्लेशसंघविनाशनम् ॥ ९६.१॥
पुरा वृत्रवधे वृत्ते ब्रह्महत्या तु नारद ।
शचीपतिं चानुगता तां दृष्ट्वा भीतवद् धरिः ॥ ९६.२॥
इन्द्रस्ततो वृत्रहन्ता इतश्चेतश्च धावति ।
यत्र यत्र त्वसौ याति हत्या सापीन्द्रगामिनी ॥ ९६.३॥
स महत् सर आविश्य पद्मनालमुपागमत् ।
तत्रासौ तन्तुवद् भूत्वा वासं चक्रे शचीपतिः ॥ ९६.४॥
सरस्तीरेऽपि हत्यासीद् दिव्यं वर्षसहस्रकम् ।
एतस्मिन्न् अन्तरे देवा निरिन्द्रा ह्यभवन् मुने ॥ ९६.५॥
मन्त्रयामासुरव्यग्राः कथमिन्द्रो भवेद् इति ।
तत्राहमवदं देवान् हत्यास्थानं प्रकल्प्य च ॥ ९६.६॥
इन्द्रस्य पावनार्थाय गौतम्यामभिषिच्यताम् ।
यत्राभिषिक्तः पूतात्मा पुनरिन्द्रो भविष्यति ॥ ९६.७॥
तथा ते निश्चयं कृत्वा गौतमीं शीघ्रमागमन् ।
तत्र स्नातं सुरपतिं देवाश्च ऋषयस्तथा ॥ ९६.८॥
अभिषेक्तुकामास्ते सर्वे शचीकान्तं च तस्थिरे ।
अभिषिच्यमानमिन्द्रं तं प्रकोपाद् गौतमोऽब्रवीत् ॥ ९६.९॥
गौतम उवाच ।
अभिषेक्ष्यन्ति पापिष्ठं महेन्द्रं गुरुतल्पगम् ।
तान् सर्वान् भस्मसात् कुर्यां शीघ्रं यान्त्वसुरारयः ॥ ९६.१०॥
ब्रह्मोवाच ।
तद् ऋषेर्वचनं श्रुत्वा परिहृत्य च गौतमीम् ।
नर्मदामगमन् सर्व इन्द्रमादाय सत्वराः ॥ ९६.११॥
उत्तरे नर्मदातीरे अभिषेकाय तस्थिरे ।
अभिषेक्ष्यमाणमिन्द्रं तं माण्डव्यो भगवान् ऋषिः ॥ ९६.१२॥
अब्रवीद् भस्मसात् कुर्यां यदि स्याद् अभिषेचनम् ।
पूजयामासुरमरा माण्डव्यं युक्तिभिः स्तवैः ॥ ९६.१३॥
देवा ऊचुः ।
अयमिन्द्रः सहस्राक्षो यस्मिन् देशेऽभिषिच्यते ।
तत्रातिदारुणं विघ्नं मुने समुपजायते ॥ ९६.१४॥
तच्छान्तिं कुरु कल्याण प्रसीद वरदो भव ।
मलनिर्यातनं यस्मिन् कुर्मस्तस्मिन् वरान् बहून् ॥ ९६.१५॥
देशे दास्यामहे सर्वे तद् अनुज्ञातुमर्हसि ।
यस्मिन् देशे सुरेन्द्रस्य अभिषेको भविष्यति ॥ ९६.१६॥
स सर्वकामदः पुंसां धान्यवृक्षफलैर्युतः ।
नानावृष्टिर्न दुर्भिक्षं भवेद् अत्र कदाचन ॥ ९६.१७॥
ब्रह्मोवाच ।
मेने ततो मुनिश्रेष्ठो माण्डव्यो लोकपूजितः ।
अभिषेकः कृतस्तत्र मलनिर्यातनं तथा ॥ ९६.१८॥
देवैस्तदोक्तो मुनिभिः स देशो मालवस्ततः ।
अभिषिक्ते सुरपतौ जाते च विमले तदा ॥ ९६.१९॥
आनीय गौतमीं गङ्गां तं पुण्यायाभिषेचिरे ।
सुराश्च ऋषयश्चैव अहं विष्णुस्तथैव च ॥ ९६.२०॥
वसिष्ठो गौतमश्चापि अगस्त्योऽत्रिश्च कश्यपः ।
एते चान्ये च ऋषयो देवा यक्षाः सपन्नगाः ॥ ९६.२१॥
स्नानं तत्पुण्यतोयेन अकुर्वन्न् अभिषेचनम् ।
मया पुनः शचीभर्ता कमण्डलुभवेन च ॥ ९६.२२॥
वारिणाप्यभिषिक्तश्च तत्र पुण्याभवन् नदी ।
सिक्ता चेति च तत्रासीत् ते गङ्गायां च संगते ॥ ९६.२३॥
संगमौ तत्र विख्यातौ सर्वदा मुनिसेवितौ ।
ततः प्रभृति तत् तीर्थं पुण्यासंगममुच्यते ॥ ९६.२४॥
सिक्तायाः संगमे पुण्यमैन्द्रं तद् अभिधीयते ।
तत्र सप्त सहस्राणि तीर्थान्यासञ् शुभानि च ॥ ९६.२५॥
तेषु स्नानं च दानं च विशेषेण तु संगमे ।
सर्वं तद् अक्षयं विद्यान् नात्र कार्या विचारणा ॥ ९६.२६॥
यद् एतत् पुण्यमाख्यानं यः पठेच्च शृणोति वा ।
सर्वपापैः स मुच्येत मनोवाक्कायकर्मजैः ॥ ९६.२७॥