अध्याय 95, Verse 1
ब्रह्मोवाच ।
शुक्रतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् ।
सर्वपापप्रशमनं सर्वव्याधिविनाशनम् ॥ ९५.१॥
Containing 32 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
शुक्रतीर्थमिति ख्यातं सर्वसिद्धिकरं नृणाम् ।
सर्वपापप्रशमनं सर्वव्याधिविनाशनम् ॥ ९५.१॥
अङ्गिराश्च भृगुश्चैव ऋषी परमधार्मिकौ ।
तयोः पुत्रौ महाप्राज्ञौ रूपबुद्धिविलासिनौ ॥ ९५.२॥
जीवः कविरिति ख्यातौ मातापित्रोर्वशे रतौ ।
उपनीतौ सुतौ दृष्ट्वा पितरावूचतुर्मिथः ॥ ९५.३॥
ऋषी ऊचतुः ।
आवयोरेक एवास्तु शास्ता नित्यं च पुत्रयोः ।
तस्माद् एकः शासिता स्यात् तिष्ठत्वेको यथासुखम् ॥ ९५.४॥
ब्रह्मोवाच ।
एतच्छ्रुत्वा ततः शीघ्रमङ्गिराः प्राह भार्गवम् ।
अध्यापयिष्ये सदृशं सुखं तिष्ठतु भार्गवः ॥ ९५.५॥
एतच्छ्रुत्वा चाङ्गिरसो वाक्यं भृगुकुलोद्वहः ।
तथेति मत्वाङ्गिरसे शुक्रं तस्मै न्यवेदयत् ॥ ९५.६॥
उभावपि सुतौ नित्यमध्यापयति वै पृथक् ।
वैषम्यबुद्ध्या तौ बालौ चिराच्छुक्रोऽब्रवीद् इदम् ॥ ९५.७॥
शुक्र उवाच ।
वैषम्येण गुरो मां त्वमध्यापयसि नित्यशः ।
गुरूणां नेदमुचितं वैषम्यं पुत्रशिष्ययोः ॥ ९५.८॥
वैषम्येण च वर्तन्ते मूढाः शिष्येषु देशिकाः ।
नैषा विषमबुद्धीनां संख्या पापस्य विद्यते ॥ ९५.९॥
आचार्य सम्यग् ज्ञातोऽसि नमस्येऽहं पुनः पुनः ।
गच्छेयं गुरुमन्यं वै मामनुज्ञातुमर्हसि ॥ ९५.१०॥
गच्छेयं पितरं ब्रह्मन् यद्यसौ विषमो भवेत् ।
ततो वान्यत्र गच्छामि स्वामिन् पृष्टोऽसि गम्यते ॥ ९५.११॥
ब्रह्मोवाच ।
गुरुं बृहस्पतिं दृष्ट्वा अनुज्ञातस्त्वगात् ततः ।
अवाप्तविद्यः पितरं गच्छेयं चेत्यचिन्तयत् ॥ ९५.१२॥
तस्मात् कमनुपृच्छेयमुत्कृष्टः को गुरुर्भवेत् ।
इति स्मरन् महाप्राज्ञमपृच्छद् वृद्धगौतमम् ॥ ९५.१३॥
शुक्र उवाच ।
को गुरुः स्यान् मुनिश्रेष्ठ मम ब्रूहि गुरुर्भवेत् ।
त्रयाणामपि लोकानां यो गुरुस्तं व्रजाम्यहम् ॥ ९५.१४॥
ब्रह्मोवाच ।
स प्राह जगतामीशं शम्भुं देवं जगद्गुरुम् ।
क्वाराधयामि गिरिशमित्युक्तः प्राह गौतमः ॥ ९५.१५॥
गौतम उवाच ।
गौतम्यां तु शुचिर्भूत्वा स्तोत्रैस्तोषय शंकरम् ।
ततस्तुष्टो जगन्नाथः स ते विद्यां प्रदास्यति ॥ ९५.१६॥
ब्रह्मोवाच ।
गौतमस्य तु तद्वाक्यात् प्रागाद् गङ्गां स भार्गवः ।
स्नात्वा भूत्वा शुचिः सम्यक् स्तुतिं चक्रे स बालकः ॥ ९५.१७॥
शुक्र उवाच ।
बालोऽहं बालबुद्धिश्च बालचन्द्रधर प्रभो ।
नाहं जानामि ते किंचित् स्तुतिं कर्तुं नमोऽस्तु ते ॥ ९५.१८॥
परित्यक्तस्य गुरुणा न ममास्ति सुहृत् सखा ।
त्वं प्रभुः सर्वभावेन जगन्नाथ नमोऽस्तु ते ॥ ९५.१९॥
गुरुर्गुरुमतां देव महतां च महान् असि ।
अहमल्पतरो बालो जगन्मय नमोऽस्तु ते ॥ ९५.२०॥
विद्यार्थं हि सुरेशान नाहं वेद्मि भवद्गतिम् ।
मां त्वं च कृपया पश्य लोकसाक्षिन् नमोऽस्तु ते ॥ ९५.२१॥
ब्रह्मोवाच ।
एवं तु स्तुवतस्तस्य प्रसन्नोऽभूत् सुरेश्वरः ॥ ९५.२२॥
शिव उवाच ।
कामं वरय भद्रं ते यच्चापि
ब्रह्मोवाच ।
कविरप्याह देवेशं कृताञ्जलिरुदारधीः ॥ ९५.२४॥
शुक्र उवाच ।
ब्रह्मादिभिश्च ऋषिभिर्या विद्या नैव गोचरा ।
तां विद्यां नाथ याचिष्ये त्वं गुरुर्मम दैवतम् ॥ ९५.२५॥
ब्रह्मोवाच ।
मृतसंजीविनीं विद्यामज्ञातां त्रिदशैरपि ।
तां दत्तवान् सुरश्रेष्ठस्तस्मै शुक्राय याचते ॥ ९५.२६॥
इतरा लौकिकी विद्या वैदिकी चान्यगोचरा ।
किं पुनः शंकरे तुष्टे विचार्यमवशिष्यते ॥ ९५.२७॥
स तु लब्ध्वा महाविद्यां प्रायात् स्वपितरं गुरुम् ।
दैत्यानां च गुरुश्चासीद् विद्यया पूजितः कविः ॥ ९५.२८॥
ततः कदाचित् तां विद्यां कस्मिंश्चित् कारणान्तरे ।
कचो बृहस्पतिसुतो विद्यां प्राप्तः कवेस्तु ताम् ॥ ९५.२९॥
कचाद् बृहस्पतिश्चापि ततो देवाः पृथक् पृथक् ।
अवापुर्महतीं विद्यां यामाहुर्मृतजीविनीम् ॥ ९५.३०॥