अध्याय 94, Verse 1
ब्रह्मोवाच ।
श्वेततीर्थमिति ख्यातं त्रैलोक्ये विश्रुतं शुभम् ।
तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ ९४.१॥
Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
श्वेततीर्थमिति ख्यातं त्रैलोक्ये विश्रुतं शुभम् ।
तस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥ ९४.१॥
श्वेतो नाम पुरा विप्रो गौतमस्य प्रियः सखा ।
आतिथ्यपूजानिरतो गौतमीतीरमाश्रितः ॥ ९४.२॥
मनसा कर्मणा वाचा शिवभक्तिपरायणः ।
ध्यायन्तं तं द्विजश्रेष्ठं पूजयन्तं सदा शिवम् ॥ ९४.३॥
पूर्णायुषं द्विजवरं शिवभक्तिपरायणम् ।
नेतुं दूताः समाजग्मुर्दक्षिणाशापतेस्तदा ॥ ९४.४॥
नाशक्नुवन् गृहं तस्य प्रवेष्टुमपि नारद ।
तदा काले व्यतिक्रान्ते चित्रको मृत्युमब्रवीत् ॥ ९४.५॥
चित्रक उवाच ।
किं नायाति क्षीणजीवो मृत्यो श्वेतः कथं त्विति ।
नाद्याप्यायान्ति दूतास्ते मृत्योर्नैवोचितं तु ते ॥ ९४.६॥
ब्रह्मोवाच ।
ततश्च कुपितो मृत्युः प्रायाच्छ्वेतगृहं स्वयम् ।
बहिःस्थितांस्तदा पश्यन् मृत्युर्दूतान् भयार्दितान् ।
प्रोवाच किमिदं दूता मृत्युमूचुश्च दूतकाः ॥ ९४.७॥
दूता ऊचुः ।
शिवेन रक्षितं श्वेतं वयं नो वीक्षितुं क्षमाः ।
येषां प्रसन्नो गिरिशस्तेषां का नाम भीतयः ॥ ९४.८॥
ब्रह्मोवाच ।
पाशपाणिस्तदा मृत्युः प्राविशद् यत्र स द्विजः ।
नासौ विप्रो विजानाति मृत्युं वा यमकिंकरान् ॥ ९४.९॥
शिवं पूजयते भक्त्या श्वेतस्य तु समीपतः ।
मृत्युं पाशधरं दृष्ट्वा दण्डी प्रोवाच विस्मितः ॥ ९४.१०॥
दण्ड्युवाच ।
किमत्र वीक्षसे मृत्यो दण्डिनं मृत्युरब्रवीत् ॥ ९४.११॥
मृत्युरुवाच ।
श्वेतं नेतुमिहायातस्तस्माद् वीक्षे
ब्रह्मोवाच ।
त्वं गच्छेत्यब्रवीद् दण्डी मृत्युः पाशान् अथाक्षिपत् ।
श्वेताय मुनिशार्दूल ततो दण्डी चुकोप ह ॥ ९४.१३॥
शिवदत्तेन दण्डेन दण्डी मृत्युमताडयत् ।
ततः पाशधरो मृत्युः पपात धरणीतले ॥ ९४.१४॥
ततस्ते सत्वरं दूता हतं मृत्युमवेक्ष्य च ।
यमाय सर्वमवदन् वधं मृत्योस्तु दण्डिना ॥ ९४.१५॥
ततश्च कुपितो धर्मो यमो महिषवाहनः ।
चित्रगुप्तं बहुबलं यमदण्डं च रक्षकम् ॥ ९४.१६॥
महिषं भूतवेतालान् आधिव्याधींस्तथैव च ।
अक्षिरोगान् कुक्षिरोगान् कर्णशूलं तथैव च ॥ ९४.१७॥
ज्वरं च त्रिविधं पापं नरकाणि पृथक् पृथक् ।
त्वरन्तामिति तान् उक्त्वा जगाम त्वरितो यमः ॥ ९४.१८॥
एतैरन्यैः परिवृतो यत्र श्वेतो द्विजोत्तमः ।
तमायान्तं यमं दृष्ट्वा नन्दी प्रोवाच सायुधः ॥ ९४.१९॥
विनायकं तथा स्कन्दं भूतनाथं तु दण्डिनम् ।
तत्र तद् युद्धमभवत् सर्वलोकभयावहम् ॥ ९४.२०॥
कार्त्तिकेयः स्वयं शक्त्या बिभेद यमकिंकरान् ।
दक्षिणाशापतिं चापि निजघान बलान्वितम् ॥ ९४.२१॥
हतावशिष्टा याम्यास्ते आदित्याय न्यवेदयन् ।
आदित्योऽपि सुरैः सार्धं श्रुत्वा तन् महद् अद्भुतम् ॥ ९४.२२॥
लोकपालैरनुवृतो ममान्तिकमुपागमत् ।
अहं विष्णुश्च भगवान् इन्द्रोऽग्निर्वरुणस्तथा ॥ ९४.२३॥
चन्द्रादित्यावश्विनौ च लोकपाला मरुद्गणाः ।
एते चान्ये च बहवो वयं याता यमान्तिकम् ॥ ९४.२४॥
मृत आस्ते दक्षिणेशो गङ्गातीरे बलान्वितः ।
समुद्राश्च नदा नागा नानाभूतान्यनेकशः ॥ ९४.२५॥
तत्राजग्मुः सुरेशानं द्रष्टुं वैवस्वतं यमम् ।
तं दृष्ट्वा हतसैन्यं च यमं देवा भयार्दिताः ।
कृताञ्जलिपुटाः शम्भुमूचुः सर्वे पुनः पुनः ॥ ९४.२६॥
देवा ऊचुः ।
भक्तिप्रियत्वं ते नित्यं दुष्टहन्तृत्वमेव च ।
आदिकर्तर्नमस्तुभ्यं नीलकण्ठ नमोऽस्तु ते ।
ब्रह्मप्रिय नमस्तेऽस्तु देवप्रिय नमोऽस्तु ते ॥ ९४.२७॥
श्वेतं द्विजं भक्तमनायुषं ते ।
नेतुं यमादिः सकलोऽसमर्थः ।
संतोषमाप्ताः परमं समीक्ष्य ।
भक्तप्रियत्वं त्वयि नाथ सत्यम् ॥ ९४.२८॥
ये त्वां प्रपन्नाः शरणं कृपालुम् ।
नालं कृतान्तोऽप्यनुवीक्षितुं तान् ।
एवं विदित्वा शिव एव सर्वे ।
त्वामेव भक्त्या परया भजन्ते ॥ ९४.२९॥
त्वमेव जगतां नाथ किं न स्मरसि शंकर ।
त्वां विना कः समर्थोऽत्र व्यवस्थां कर्तुमीश्वरः ॥ ९४.३०॥