Brahma Purana

अध्याय 93

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Brahma Purana

अध्याय 93, Verse 1

ब्रह्मोवाच ।

यत्र दाशरथी रामः सीतया सहितो द्विज ।

पितृन् संतर्पयामास पितृतीर्थं ततो विदुः ॥ ९३.१॥

Brahma Purana

अध्याय 93, Verse 2

तत्र स्नानं च दानं च पितृणां तर्पणं तथा ।

सर्वमक्षयतामेति नात्र कार्या विचारणा ॥ ९३.२॥

Brahma Purana

अध्याय 93, Verse 3

यत्र दाशरथी रामो विश्वामित्रं महामुनिम् ।

पूजयामास राजेन्द्रो मुनिभिस्तत्त्वदर्शिभिः ॥ ९३.३॥

Brahma Purana

अध्याय 93, Verse 4

विश्वामित्रं तु तत् तीर्थम् ऋषिजुष्टं सुपुण्यदम् ।

तत्स्वरूपं च वक्ष्यामि पठितं वेदवादिभिः ॥ ९३.४॥

Brahma Purana

अध्याय 93, Verse 5

अनावृष्टिरभूत् पूर्वं प्रजानामतिभीषणा ।

विश्वामित्रो महाप्राज्ञः सशिष्यो गौतमीमगात् ॥ ९३.५॥

Brahma Purana

अध्याय 93, Verse 6

शिष्यान् पुत्रांश्च जायां च कृशान् दृष्ट्वा क्षुधातुरान् ।

व्यथितः कौशिकः श्रीमाञ् शिष्यान् इदमुवाच ह ॥ ९३.६॥

Brahma Purana

अध्याय 93, Verse 7

विश्वामित्र उवाच ।

यथा कथंचिद् यत् किंचिद् यत्र आनीयतां किंतु भक्ष्यं भोज्यं वा मा विलम्ब्यताम् ।

इदानीमेव गन्तव्यमानेतव्यं क्षणेन तु ॥ ९३.७॥

Brahma Purana

अध्याय 93, Verse 8

ब्रह्मोवाच ।

ऋषेस्तद् वचनाच्छिष्याः क्षुधितास्त्वरया ययुः ।

अटमाना इतश्चेतो मृतं ददृशिरे शुनम् ॥ ९३.८॥

Brahma Purana

अध्याय 93, Verse 9

तमादाय त्वरायुक्ता आचार्याय न्यवेदयन् ।

सोऽपि तं भद्रमित्युक्त्वा प्रतिजग्राह पाणिना ॥ ९३.९॥

Brahma Purana

अध्याय 93, Verse 10

विशसध्वं श्वमांसं च क्षालयध्वं च वारिणा ।

पचध्वं मन्त्रवच्चापि हुत्वाग्नौ तु यथाविधि ॥ ९३.१०॥

Brahma Purana

अध्याय 93, Verse 11

देवान् ऋषीन् पितृन् अन्यांस्तर्पयित्वातिथीन् गुरून् ।

सर्वे भोक्ष्यामहे शेषमित्युवाच स कौशिकः ॥ ९३.११॥

Brahma Purana

अध्याय 93, Verse 12

विश्वामित्रवचः श्रुत्वा शिष्याश्चक्रुस्तथैव तत् ।

पच्यमाने श्वमांसे तु देवदूतोऽग्निरभ्यगात् ।

देवानां सदने सर्वं देवेभ्यस्तन् न्यवेदयत् ॥ ९३.१२॥

Brahma Purana

अध्याय 93, Verse 13

अग्निरुवाच ।

देवैः श्वमांसं भोक्तव्यमापन्नम्

Brahma Purana

अध्याय 93, Verse 14

ब्रह्मोवाच ।

अग्नेस्तद्वचनाद् इन्द्रः श्येनो भूत्वा विहायसि ।

स्थालीमथाहरत् पूर्णां मांसेन पिहितां तदा ॥ ९३.१४॥

Brahma Purana

अध्याय 93, Verse 15

तत् कर्म दृष्ट्वा शिष्यास्ते ऋषेः श्येनं न्यवेदयन् ।

हृता स्थाली मुनिश्रेष्ठ श्येनेनाकृतबुद्धिना ॥ ९३.१५॥

Brahma Purana

अध्याय 93, Verse 16

ततश्चुकोप भगवाञ् शप्तुकामस्तदा हरिम् ।

ततो ज्ञात्वा सुरपतिः स्थालीं चक्रे मधुप्लुताम् ॥ ९३.१६॥

Brahma Purana

अध्याय 93, Verse 17

पुनर्निवेशयामास उल्कास्वेव खगो हरिः ।

मधुना तु समायुक्तां विश्वामित्रश्चुकोप ह ।

स्थालीं वीक्ष्य ततः कोपाद् इदमाह स कौशिकः ॥ ९३.१७॥

Brahma Purana

अध्याय 93, Verse 18

विश्वामित्र उवाच ।

श्वमांसमेव नो देहि त्वं हरामृतमुत्तमम् ।

नो चेत् त्वां भस्मसात् कुर्यामिन्द्रो भीतस्तदाब्रवीत् ॥ ९३.१८॥

Brahma Purana

अध्याय 93, Verse 19

इन्द्र उवाच ।

मधु हुत्वा यथान्यायं पिब पुत्रैः समन्वितः ।

किमनेन श्वमांसेन अमेध्येन महामुने ॥ ९३.१९॥

Brahma Purana

अध्याय 93, Verse 20

ब्रह्मोवाच ।

विश्वामित्रोऽपि नेत्याह भुक्तेनैकेन किं फलम् ।

प्रजाः सर्वाश्च सीदन्ति किं तेन मधुना हरे ॥ ९३.२०॥

Brahma Purana

अध्याय 93, Verse 21

सर्वेषाममृतं चेत् स्याद् भोक्ष्येऽहममृतं शुचि ।

अथवा देवपितरो भोक्ष्यन्तीदं श्वमांसकम् ॥ ९३.२१॥

Brahma Purana

अध्याय 93, Verse 22

पश्चाद् अहं तच्च मांसं भोक्ष्ये नानृतमस्ति मे ।

ततो भीतः सहस्राक्षो मेघान् आहूय तत्क्षणात् ॥ ९३.२२॥

Brahma Purana

अध्याय 93, Verse 23

ववर्ष चामृतं वारि ह्यमृतेनार्पिताः प्रजाः ।

पश्चात् तद् अमृतं पुण्यं हरिदत्तं यथाविधि ॥ ९३.२३॥

Brahma Purana

अध्याय 93, Verse 24

तर्पयित्वा सुरान् आदौ तर्पयित्वा जगत्त्रयम् ।

विप्रः सम्भुक्तवाञ् शिष्यैर्विश्वामित्रः स्वभार्यया ॥ ९३.२४॥

Brahma Purana

अध्याय 93, Verse 25

ततः प्रभृति तत् तीर्थमाख्यातं चातिपुण्यदम् ।

यत्रागतः सुरपतिर्लोकानाममृतार्पणम् ॥ ९३.२५॥

Brahma Purana

अध्याय 93, Verse 26

संजातं मांसवर्जं तु तत् तीर्थं पुण्यदं नृणाम् ।

तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ ९३.२६॥

Brahma Purana

अध्याय 93, Verse 27

ततः प्रभृति तत् तीर्थं विश्वामित्रमिति स्मृतम् ।

मधुतीर्थमथैन्द्रं च श्येनं पर्जन्यमेव च ॥ ९३.२७॥