अध्याय 92, Verse 1
ब्रह्मोवाच ।
पापप्रणाशनं नाम तीर्थं पापभयापहम् ।
नामधेयं प्रवक्ष्यामि शृणु नारद यत्नतः ॥ ९२.१॥
Containing 49 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
पापप्रणाशनं नाम तीर्थं पापभयापहम् ।
नामधेयं प्रवक्ष्यामि शृणु नारद यत्नतः ॥ ९२.१॥
धृतव्रत इति ख्यातो ब्राह्मणो लोकविश्रुतः ।
तस्य भार्या मही नाम तरुणी लोकसुन्दरी ॥ ९२.२॥
तस्य पुत्रः सूर्यनिभः सनाज्जात इति श्रुतः ।
धृतव्रतं तथाकर्षन् मृत्युः कालेरितो मुने ॥ ९२.३॥
ततः सा बालविधवा बालपुत्रा सुरूपिणी ।
त्रातारं नैव पश्यन्ती गालवाश्रममभ्यगात् ॥ ९२.४॥
तस्मै पुत्रं निवेद्याथ स्वैरिणी पापमोहिता ।
सा बभ्राम बहून् देशान् पुंस्कामा कामचारिणी ॥ ९२.५॥
तत्पुत्रो गालवगृहे वेदवेदाङ्गपारगः ।
जातोऽपि मातृदोषेण वेश्येरितमतिस्त्वभूत् ॥ ९२.६॥
जनस्थानमिति ख्यातं नानाजातिसमावृतम् ।
तत्रासौ पण्यवेषेण अध्यास्ते च मही तथा ॥ ९२.७॥
तत्सुतोऽपि बहून् देशान् परिबभ्राम कामुकः ।
सोऽपि कालवशात् तत्र जनस्थानेऽवसत् तदा ॥ ९२.८॥
स्त्रियमाकाङ्क्षते वेश्यां धृतव्रतसुतो द्विजः ।
मही चापि धनं दातृन् पुरुषान् समपेक्षते ॥ ९२.९॥
मेने न पुत्रमात्मीयं स चापि न तु मातरम् ।
तयोः समागमश्चासीद् विधिना मातृपुत्रयोः ॥ ९२.१०॥
एवं बहुतिथे काले पुत्रे मातरि गच्छति ।
तयोः परस्परं ज्ञानं नैवासीन् मातृपुत्रयोः ॥ ९२.११॥
एवं प्रवर्तमानस्य पितृधर्मेण सन्मतिः ।
आसीत् तस्याप्यसद्वृत्तेः शृणु नारद चित्रवत् ॥ ९२.१२॥
स्वैरस्थित्या वर्तमानो नेदं स परिहातवान् ।
ब्राह्मीं संध्यामनुष्ठाय तद् ऊर्ध्वं तु धनार्जनम् ॥ ९२.१३॥
विद्याबलेन वित्तानि बहून्यार्ज्य ददात्यसौ ।
तथा स प्रातरुत्थाय गङ्गां गत्वा यथाविधि ॥ ९२.१४॥
शौचादि स्नानसंध्यादि सर्वं कार्यं यथाक्रमम् ।
कृत्वा तु ब्राह्मणान् नत्वा ततोऽभ्येति स्वकर्मसु ॥ ९२.१५॥
प्रातःकाले गौतमीं तु यदा याति विरूपवान् ।
कुष्ठसर्वाङ्गशिथिलः पूयशोणितनिःस्रवः ॥ ९२.१६॥
स्नात्वा तु गौतमीं गङ्गां यदा याति सुरूपधृक् ।
शान्तः सूर्याग्निसदृशो मूर्तिमान् इव भास्करः ॥ ९२.१७॥
एतद् रूपद्वयं स्वस्य नैव पश्यति स द्विजः ।
गालवो यत्र भगवांस्तपोज्ञानपरायणः ॥ ९२.१८॥
आश्रित्य गौतमीं देवीं आस्ते च मुनिभिर्वृतः ।
ब्राह्मणोऽपि च तत्रैव नित्यं तीर्थं समेत्य च ॥ ९२.१९॥
गालवं च नमस्याथ ततो याति स्वमन्दिरम् ।
गङ्गायाः सेवनात् पूर्वं सनाज्जातस्य यद् वपुः ॥ ९२.२०॥
स्नानसंध्योत्तरे काले पुनर्यद् अपि तद् द्विजे ।
उभयं तस्य तद् रूपं गालवो नित्यमेव च ॥ ९२.२१॥
दृष्ट्वा सविस्मयो मेने किंचिद् अस्त्यत्र कारणम् ।
एवं सविस्मयो भूत्वा गालवः प्राह तं द्विजम् ॥ ९२.२२॥
गच्छन्तं तु नमस्याथ सनाज्जातं गुरुर्गृहम् ।
आहूय यत्नतो धीमान् कृपया विस्मयेन च ॥ ९२.२३॥
गालव उवाच ।
को भवान् क्व च गन्तासि किं करोषि क्व भोक्ष्यसि ।
किंनामा त्वं क्व शय्या ते का ते भार्या वदस्व मे ॥ ९२.२४॥
ब्रह्मोवाच ।
गालवस्य वचः श्रुत्वा ब्राह्मणोऽप्याह तं
ब्राह्मण उवाच ।
श्वः कथ्यते मया सर्वं ज्ञात्वा
ब्रह्मोवाच ।
एवमुक्त्वा गालवं तं सनाज्जातो गृहं ययौ ।
भुक्त्वा रात्रौ तया सम्यक् शय्यामासाद्य बन्धकीम् ।
उवाच चकितः स्मृत्वा गालवस्य तु यद् वचः ॥ ९२.२७॥
ब्राह्मण उवाच ।
त्वं तु सर्वगुणोपेता बन्धक्यपि पतिव्रता ।
आवयोः सदृशी प्रीतिर्यावज्जीवं प्रवर्तताम् ॥ ९२.२८॥
तथापि किंचित् पृच्छामि किंनाम्नी त्वं क्व वा कुलम् ।
किं नु स्थानं क्व वा बन्धुर्मम सर्वं निवेद्यताम् ॥ ९२.२९॥
बन्धक्युवाच ।
धृतव्रत इति ख्यातो ब्राह्मणो दीक्षितः शुचिः ।
तस्य भार्या मही चाहं मत्पुत्रो गालवाश्रमे ॥ ९२.३०॥