अध्याय 91, Verse 1
ब्रह्मोवाच ।
ततो गोवर्धनं तीर्थं सर्वपापप्रणाशनम् ।
पितृणां पुण्यजननं स्मरणाद् अपि पापनुत् ॥ ९१.१॥
Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
ततो गोवर्धनं तीर्थं सर्वपापप्रणाशनम् ।
पितृणां पुण्यजननं स्मरणाद् अपि पापनुत् ॥ ९१.१॥
तस्य प्रभाव एष स्यान् मया दृष्टस्तु नारद ।
ब्राह्मणः कर्षकः कश्चिज्जाबालिरिति विश्रुतः ॥ ९१.२॥
न विमुञ्चत्यनड्वाहौ मध्यं यातेऽपि भास्करे ।
प्रतोदेन प्रतुदति पृष्ठतोऽपि च पार्श्वयोः ॥ ९१.३॥
तौ गावावश्रुपूर्णाक्षौ दृष्ट्वा गौः कामदोहिनी ।
सुरभिर्जगतां माता नन्दिने सर्वमब्रवीत् ॥ ९१.४॥
स चापि व्यथितो भूत्वा शम्भवे तन् न्यवेदयत् ।
शम्भुश्च वृषभं प्राह सर्वं सिध्यतु ते वचः ॥ ९१.५॥
शिवाज्ञासहितो नन्दी गोजातं सर्वमाहरत् ।
नष्टेषु गोषु सर्वेषु स्वर्गे मर्त्ये ततस्त्वरा ॥ ९१.६॥
मामवोचन् सुरगणा विना गोभिर्न जीव्यते ।
तान् अवोचं सुरान् सर्वाञ् शंकरं यात याचत ॥ ९१.७॥
तथैवेशं तु ते सर्वे स्तुत्वा कार्यं न्यवेदयन् ।
ईशोऽपि विबुधान् आह जानाति वृषभो मम ॥ ९१.८॥
ते वृषं प्रोचुरमरा देहि गा उपकारिणः ।
वृषोऽपि विबुधान् आह गोसवः क्रियतां क्रतुः ॥ ९१.९॥
ततः प्राप्स्यथ गाः सर्वा या दिव्या याश्च मानुषाः ।
ततः प्रवर्तते यज्ञो गोसवो देवनिर्मितः ॥ ९१.१०॥
गौतम्याश्च शुभे पार्श्वे गावो ववृधिरे ततः ।
गोवर्धनं तु तत् तीर्थं देवानां प्रीतिवर्धनम् ॥ ९१.११॥
तत्र स्नानं मुनिश्रेष्ठ गोसहस्रफलप्रदम् ।
किंचिद् दानादिना यत् स्यात् फलं तत् तु न विद्महे ॥ ९१.१२॥