अध्याय 90, Verse 1
ब्रह्मोवाच ।
गारुडं नाम यत् तीर्थं सर्वविघ्नप्रशान्तिदम् ।
तस्य प्रभावं वक्ष्यामि शृणु नारद यत्नतः ॥ ९०.१॥
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
गारुडं नाम यत् तीर्थं सर्वविघ्नप्रशान्तिदम् ।
तस्य प्रभावं वक्ष्यामि शृणु नारद यत्नतः ॥ ९०.१॥
मणिनाग इति त्वासीच्छेषपुत्रो महाबलः ।
गरुडस्य भयाद् भक्त्या तोषयामास शंकरम् ॥ ९०.२॥
ततः प्रसन्नो भगवान् परमेष्ठी महेश्वरः ।
तमुवाच महानागं वरं वरय पन्नग ॥ ९०.३॥
नागः प्राह प्रभो मह्यं देहि मे गरुडाभयम् ।
तथेत्याह च तं शम्भुर्गरुडाद् अभयं भवेत् ॥ ९०.४॥
निर्गतो निर्भयो नागो गरुडाद् अरुणानुजात् ।
क्षीरोदशायी यत्रास्ते क्षीरार्णवसमीपतः ॥ ९०.५॥
इतश्चेतश्च चरति नागोऽसौ सुखशीतले ।
गरुडोऽपि च यत्रास्ते तं देशमपि यात्यसौ ॥ ९०.६॥
गरुडः पन्नगं दृष्ट्वा चरन्तं निर्भयेन तु ।
तं गृहीत्वा महानागं प्राक्षिपत् स्वस्य वेश्मनि ॥ ९०.७॥
तं बद्ध्वा गारुडैः पाशैर्गरुडो नागसत्तमम् ।
एतस्मिन्न् अन्तरे नन्दी प्रोवाचेशं जगत्प्रभुम् ॥ ९०.८॥
नन्दिकेश्वर उवाच ।
नूनं नागो न चायाति भक्षितो बद्ध एव वा ।
गरुडेन सुरेशान जीवन् नागो न संव्रजेत् ॥ ९०.९॥
ब्रह्मोवाच ।
नन्दिनो वचनं श्रुत्वा ज्ञात्वा
शिव उवाच ।
गरुडस्य गृहे नागो बद्धस्तिष्ठति सत्वरम् ।
गत्वा तं जगतामीशं विष्णुं स्तुहि जनार्दनम् ॥ ९०.११॥
बद्धं नागं काश्यपेन मद्वाक्याद् आनय स्वयम् ।
तत् प्रभोर्वचनं श्रुत्वा नन्दी गत्वा श्रियः पतिम् ॥ ९०.१२॥
व्यज्ञापयत् स्वयं वाक्यं विष्णुं लोकपरायणम् ।
नारायणः प्रीतमना गरुडं वाक्यमब्रवीत् ॥ ९०.१३॥
विष्णुरुवाच ।
विनतात्मज मे वाक्यान् नन्दिने देहि पन्नगम् ।
कम्पमानस्तद् आकर्ण्य नेत्युवाच विहंगमः ।
विष्णुमप्यब्रवीत् कोपात् सुपर्णो नन्दिनोऽन्तिके ॥ ९०.१४॥
गरुड उवाच ।
यद् यत् प्रियतमं किंचिद् भृत्येभ्यः दास्यन्त्यन्ये भवान् नैव मयानीतं हरिष्यति ॥ ९०.१५॥
पश्य देवं त्रिनयनं नागं मोक्ष्यति नन्दिना ।
मयोपपादितं नागं त्वं तु दास्यसि नन्दिने ॥ ९०.१६॥
त्वां वहामि सदा स्वामिन् मम देयं सदा त्वया ।
मयोपपादितं नागं वक्तुं देहीति नोचितम् ॥ ९०.१७॥
सतां प्रभूणां नेयं स्याद् वृत्तिः सद्वृत्तिकारिणाम् ।
सन्तो दास्यन्ति भृत्येभ्यो मदुपात्तहरो भवान् ॥ ९०.१८॥
दैत्याञ् जयसि संग्रामे मद्बलेनैव केशव ।
अहं महाबलीत्येवं मुधैव श्लाघते भवान् ॥ ९०.१९॥
ब्रह्मोवाच ।
गरुडस्येति तद् वाक्यं श्रुत्वा चक्रगदाधरः ।
विहस्य नन्दिनः पार्श्वे पश्यद्भिर्लोकपालकैः ॥ ९०.२०॥
इदमाह महाबुद्धिर्मां समुह्य कृशो भवान् ।
त्वद्बलाद् असुरान् सर्वाञ् जेष्येऽहं खगसत्तम ॥ ९०.२१॥
इत्युक्त्वा श्रीपतिर्ब्रह्मञ् शान्तकोपोऽब्रवीद् इदम् ।
वहाङ्गुलिं करस्याशु कनिष्ठां नन्दिनोऽन्तिके ॥ ९०.२२॥
गरुडस्य ततो मूर्ध्नि न्यस्येदं पुनरब्रवीत् ।
सत्यं मां वहसे नित्यं पश्य धर्मं विहंगम ॥ ९०.२३॥
न्यस्तायां च ततोऽङ्गुल्यां शिरः कुक्षौ समाविशत् ।
कुक्षिश्च चरणस्यान्तः प्राविशच्चूर्णितोऽभवत् ।
ततः कृताञ्जलिर्दीनो व्यथितो लज्जयान्वितः ॥ ९०.२४॥
गरुड उवाच ।
त्राहि त्राहि जगन्नाथ भृत्यं मामपराधिनम् ।
त्वं प्रभुः सर्वलोकानां धर्ता धार्यस्त्वमेव च ॥ ९०.२५॥
अपराधसहस्राणि क्षमन्ते प्रभविष्णवः ।
कृतापराधेऽपि जने महती यस्य वै कृपा ॥ ९०.२६॥
वदन्ति मुनयः सर्वे त्वामेव करुणाकरम् ।
रक्षस्वार्तं जगन्मातर्मामम्बुजनिवासिनि ।
कमले बालकं दीनमार्तं तनयवत्सले ॥ ९०.२७॥
ब्रह्मोवाच ।
ततः कृपान्विता देवी श्रीरप्याह जनार्दनम् ॥ ९०.२८॥
कमलोवाच ।
रक्ष नाथ स्वकं भृत्यं गरुडं विपदं गतम् ।
जनार्दन उवाचेदं नन्दिनं शम्भुवाहनम् ॥ ९०.२९॥
विष्णुरुवाच ।
नय नागं सगरुडं शम्भोरन्तिकमेव च ।
तत्प्रसादाच्च गरुडो महेश्वरनिरीक्षितः ।
आत्मीयं च पुना रूपं गरुडः समवाप्स्यति ॥ ९०.३०॥