अध्याय 9, Verse 1
लोमहर्षण उवाच ।
पिता सोमस्य भो विप्रा जज्ञेऽत्रिर्भगवान् ऋषिः ।
ब्रह्मणो मानसात् पूर्वं प्रजासर्गं विधित्सतः ॥ ९.१॥
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
लोमहर्षण उवाच ।
पिता सोमस्य भो विप्रा जज्ञेऽत्रिर्भगवान् ऋषिः ।
ब्रह्मणो मानसात् पूर्वं प्रजासर्गं विधित्सतः ॥ ९.१॥
अनुत्तरं नाम तपो येन तप्तं हि तत् पुरा ।
त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम् ॥ ९.२॥
ऊर्ध्वमाचक्रमे तस्य रेतः सोमत्वमीयिवत् ।
नेत्राभ्यां वारि सुस्राव दशधा द्योतयन् दिशः ॥ ९.३॥
तं गर्भं विधिनादिष्टा दश देव्यो दधुस्ततः ।
समेत्य धारयामासुर्न च ताः समशक्नुवन् ॥ ९.४॥
यदा न धारणे शक्तास्तस्य गर्भस्य ता दिशः ।
ततस्ताभिः स त्यक्तस्तु निपपात वसुंधराम् ॥ ९.५॥
पतितं सोममालोक्य ब्रह्मा लोकपितामहः ।
रथमारोपयामास लोकानां हितकाम्यया ॥ ९.६॥
तस्मिन् निपतिते देवाः पुत्रेऽत्रेः परमात्मनि ।
तुष्टुवुर्ब्रह्मणः पुत्रास्तथान्ये मुनिसत्तमाः ॥ ९.७॥
तस्य संस्तूयमानस्य तेजः सोमस्य भास्वतः ।
आप्यायनाय लोकानां भावयामास सर्वतः ॥ ९.८॥
स तेन रथमुख्येन सागरान्तां वसुंधराम् ।
त्रिःसप्तकृत्वोऽतियशाश्चकाराभिप्रदक्षिणाम् ॥ ९.९॥
तस्य यच्चरितं तेजः पृथिवीमन्वपद्यत ।
ओषध्यस्ताः समुद्भूता याभिः संधार्यते जगत् ॥ ९.१०॥
स लब्धतेजा भगवान् संस्तवैश्च स्वकर्मभिः ।
तपस्तेपे महाभागः पद्मानां दर्शनाय सः ॥ ९.११॥
ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः ।
बीजौषधीनां विप्राणामपां च मुनिसत्तमाः ॥ ९.१२॥
स तत् प्राप्य महाराज्यं सोमः सौम्यवतां वरः ।
समाजह्रे राजसूयं सहस्रशतदक्षिणम् ॥ ९.१३॥
दक्षिणामददात् सोमस्त्रींल्लोकान् इति नः श्रुतम् ।
तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च भो द्विजाः ॥ ९.१४॥
हिरण्यगर्भो ब्रह्मात्रिर्भृगुश्च ऋत्विजोऽभवत् ।
सदस्योऽभूद् धरिस्तत्र मुनिभिर्बहुभिर्वृतः ॥ ९.१५॥
तं सिनीश्च कुहूश्चैव द्युतिः पुष्टिः प्रभा वसुः ।
कीर्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ॥ ९.१६॥
प्राप्यावभृथमप्यग्र्यं सर्वदेवर्षिपूजितः ।
विरराजाधिराजेन्द्रो दशधा भासयन् दिशः ॥ ९.१७॥
तस्य तत् प्राप्य दुष्प्राप्यमैश्वर्यम् ऋषिसत्कृतम् ।
विबभ्राम मतिस्ताता+ ।
विनयाद् अनयाहृता ॥ ९.१८॥
बृहस्पतेः स वै भार्यामैश्वर्यमदमोहितः ।
जहार तरसा सोमो विमत्याङ्गिरसः सुतम् ॥ ९.१९॥
स याच्यमानो देवैश्च तथा देवर्षिभिर्मुहुः ।
नैव व्यसर्जयत् तारां तस्मै अङ्गिरसे तदा ॥ ९.२०॥
उशना तस्य जग्राह पार्ष्णिमङ्गिरसस्तदा ।
रुद्रश्च पार्ष्णिं जग्राह गृहीत्वाजगवं धनुः ॥ ९.२१॥
तेन ब्रह्मशिरो नाम परमास्त्रं महात्मना ।
उद्दिश्य देवान् उत्सृष्टं येनैषां नाशितं यशः ॥ ९.२२॥
तत्र तद् युद्धमभवत् प्रख्यातं तारकामयम् ।
देवानां दानवानां च लोकक्षयकरं महत् ॥ ९.२३॥
तत्र शिष्टास्तु ये देवास्तुषिताश्चैव ये द्विजाः ।
ब्रह्माणं शरणं जग्मुरादिदेवं सनातनम् ॥ ९.२४॥
तदा निवार्योशनसं तं वै रुद्रं च शंकरम् ।
ददावङ्गिरसे तारां स्वयमेव पितामहः ॥ ९.२५॥
तामन्तःप्रसवां दृष्ट्वा क्रुद्धः प्राह बृहस्पतिः ।
मदीयायां न ते योनौ गर्भो धार्यः कथंचन ॥ ९.२६॥
इषीकास्तम्बमासाद्य गर्भं सा चोत्ससर्ज ह ।
जातमात्रः स भगवान् देवानामाक्षिपद् वपुः ॥ ९.२७॥
ततः संशयमापन्नास्तारामूचुः सुरोत्तमाः ।
सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः ॥ ९.२८॥
पृच्छ्यमाना यदा देवैर्नाह सा विबुधान् किल ।
तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः ॥ ९.२९॥
तं निवार्य ततो ब्रह्मा तारां पप्रच्छ संशयम् ।
यद् अत्र तथ्यं तद् ब्रूहि तारे कस्य सुतस्त्वयम् ॥ ९.३०॥