अध्याय 89, Verse 1
ब्रह्मोवाच ।
अरुणा वरुणा चैव नद्यौ पुण्यतरे शुभे ।
तयोश्च संगमः पुण्यो गङ्गायां मुनिसत्तम ॥ ८९.१॥
Containing 47 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
अरुणा वरुणा चैव नद्यौ पुण्यतरे शुभे ।
तयोश्च संगमः पुण्यो गङ्गायां मुनिसत्तम ॥ ८९.१॥
तदुत्पत्तिं शृणुष्वेह सर्वपापविनाशिनीम् ।
कश्यपस्य सुतो ज्येष्ठ आदित्यो लोकविश्रुतः ॥ ८९.२॥
त्रैलोक्यचक्षुस्तीक्ष्णांशुः सप्ताश्वो लोकपूजितः ।
तस्य पत्नी उषा ख्याता त्वाष्ट्री त्रैलोक्यसुन्दरी ॥ ८९.३॥
भर्तुः प्रतापतीव्रत्वमसहन्ती सुमध्यमा ।
चिन्तयामास किं कृत्यं मम स्याद् इति भामिनी ॥ ८९.४॥
तस्याः पुत्रौ महाराज्ञौ मनुर्वैवस्वतो यमः ।
यमुना च नदी पुण्या शृणु विस्मयकारणम् ॥ ८९.५॥
साकरोद् आत्मनश्छायामात्मरूपेण यत्नतः ।
तामब्रवीत् ततश्चोषा त्वं च मत्सदृशी भव ॥ ८९.६॥
भर्तारं त्वमपत्यानि पालयस्व ममाज्ञया ।
यावद् आगमनं मे स्यात् पत्युस्तावत् प्रिया भव ॥ ८९.७॥
नाख्यातव्यं त्वया क्वापि अपत्यानां तथा प्रिये ।
तथेत्याह च सा छाया निर्जगाम गृहाद् उषा ॥ ८९.८॥
इत्युक्त्वा सा जगामाशु शान्तं रूपमभीप्सती ।
सा गत्वोषा गृहं त्वष्टुः पित्रे सर्वं न्यवेदयत् ।
त्वष्टापि चकितः प्राह तां सुतां सुतवत्सलः ॥ ८९.९॥
त्वष्टोवाच ।
नैतद् युक्तं भर्तृमत्या यत् स्वैरेण प्रवर्तनम् ।
अपत्यानां कथं वृत्तिर्भर्तुर्वा सवितुस्तव ।
बिभेमि भद्रे शिष्टोऽहं भर्तुर्गेहं पुनर्व्रज ॥ ८९.१०॥
ब्रह्मोवाच ।
एवमुक्ता तु पित्रा सा नेत्युक्त्वा वै पुनः पुनः ।
उत्तरं च कुरोर्देशं जगाम तपसे त्वरा ॥ ८९.११॥
तत्र तेपे तपस्तीव्रं वडवारूपधारिणी ।
दुष्प्रेक्षं तं स्वकं कान्तं ध्यायन्ती निश्चला उषा ॥ ८९.१२॥
एतस्मिन्न् अन्तरे तात छाया चोषास्वरूपिणी ।
पत्यौ सा वर्तयामास अपत्यान्यथ जज्ञिरे ॥ ८९.१३॥
सावर्णिश्च शनिश्चैव विष्टिर्या दुष्टकन्यका ।
सा छाया वर्तयामास वैषम्येणैव नित्यशः ॥ ८९.१४॥
स्वेष्वपत्येषु चोषाया यमस्तत्र चुकोप ह ।
वैषम्येणाथ वर्तन्तीं छायां तां मातरं तदा ॥ ८९.१५॥
ताडयामास पादेन दक्षिणाशापतिर्यमः ।
पुत्रदौर्जन्यसंक्षोभाच्छाया वैवस्वतं यमम् ॥ ८९.१६॥
शशाप पाप ते पादो विशीर्यतु ममाज्ञया ।
विशीर्णचरणो दुःखाद् रुदन् पितरमभ्यगात् ।
सवित्रे तं तु वृत्तान्तं न्यवेदयद् अशेषतः ॥ ८९.१७॥
यम उवाच ।
नेयं माता सुरश्रेष्ठ यया शप्तोऽहमीदृशः ।
अपत्येषु विरुद्धेषु जननी नैव कुप्यते ॥ ८९.१८॥
यद् बाल्याद् अब्रवं किंचिद् अथवा दुष्कृतं कृतम् ।
नैव कुप्यति सा माता तस्मान् नेयं ममाम्बिका ॥ ८९.१९॥
यद् अपत्यकृतं किंचित् साध्वसाधु यथा तथा ।
मात्यस्यां सर्वमप्येतत् तस्मान् मातेति गीयते ॥ ८९.२०॥
प्रधक्ष्यन्तीव मां तात नित्यं पश्यति चक्षुषा ।
वक्त्यग्निकालसदृशा वाचा नेयं मदम्बिका ॥ ८९.२१॥
ब्रह्मोवाच ।
तत् पुत्रवचनं श्रुत्वा सविताचिन्तयत् ततः ।
इयं छाया नास्य माता उषा माता तु सान्यतः ॥ ८९.२२॥
मम शान्तिमभीप्सन्ती देशेऽन्यस्मिंस्तपोरता ।
उत्तरे च कुरौ त्वाष्ट्री वडवारूपधारिणी ॥ ८९.२३॥
तत्रास्ते सा इति ज्ञात्वा जगामेशो दिवाकरः ।
यत्र सा वर्तते कान्ता अश्वरूपः स्वयं तदा ॥ ८९.२४॥
तां दृष्ट्वा वडवारूपां पर्यधावद् धयाकृतिः ।
कामातुरं हयं दृष्ट्वा श्रुत्वा वै हेषितस्वनम् ॥ ८९.२५॥
उषा पतिव्रतोपेता पतिध्यानपरायणा ।
हयधर्षणसम्भीता को न्वयं चेत्यजानती ॥ ८९.२६॥
अपलायत् पतौ प्राप्ते दक्षिणाभिमुखी त्वरा ।
को नु मे रक्षकोऽत्र स्याद् ऋषयो वाथवा सुराः ॥ ८९.२७॥
धावन्तीं तां प्रियामश्वामश्वरूपधरः स्वयम् ।
पर्यधावद् यतो याति उषा भानुस्ततस्ततः ॥ ८९.२८॥
स्मरग्रहवशे जातः को दुश्चेष्टं न चेष्टते ।
भागीरथीं नदीश्चान्या वनान्युपवनानि च ॥ ८९.२९॥
नर्मदां चाथ विन्ध्यं च दक्षिणाभिमुखावुभौ ।
अतिक्रम्य भयोद्विग्ना त्वाष्ट्र्यभ्यगाच्च गौतमीम् ॥ ८९.३०॥