अध्याय 88, Verse 1
ब्रह्मोवाच ।
तस्माद् अप्यपरं तीर्थं जनस्थानमिति श्रुतम् ।
चतुर्योजनविस्तीर्णं स्मरणान् मुक्तिदं नृणाम् ॥ ८८.१॥
Containing 26 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
तस्माद् अप्यपरं तीर्थं जनस्थानमिति श्रुतम् ।
चतुर्योजनविस्तीर्णं स्मरणान् मुक्तिदं नृणाम् ॥ ८८.१॥
वैवस्वतान्वये जातो राजाभूज्जनकः पुरा ।
सोऽपाम्पतेस्तु तनुजामुपयेमे गुणार्णवाम् ॥ ८८.२॥
धर्मार्थकाममोक्षाणां जनकां जनको नृपः ।
अनुरूपगुणत्वाच्च तस्य भार्या गुणार्णवा ॥ ८८.३॥
याज्ञवल्क्यश्च विप्रेन्द्रस्तस्य राज्ञः पुरोहितः ।
तमपृच्छन् नृपश्रेष्ठो याज्ञवल्क्यं पुरोहितम् ॥ ८८.४॥
जनक उवाच ।
भुक्तिमुक्ती उभे श्रेष्ठे निर्णीते मुनिसत्तमैः ।
दासीदासेभतुरग+ ।
रथाद्यैर्भुक्तिरुत्तमा ॥ ८८.५॥
किंत्वन्तविरसा भुक्तिर्मुक्तिरेका निरत्यया ।
भुक्तेर्मुक्तिः श्रेष्ठतमा भुक्त्या मुक्तिं कथं व्रजेत् ॥ ८८.६॥
सर्वसङ्गपरित्यागान् मुक्तिप्राप्तिः सुदुःखतः ।
तद् ब्रूहि द्विजशार्दूल सुखान् मुक्तिः कथं भवेत् ॥ ८८.७॥
याज्ञवल्क्य उवाच ।
अपाम्पतिस्तव गुरुः श्वशुरः प्रियकृत् तथा ।
तं गत्वा पृच्छ नृपते उपदेक्ष्यति ते हितम् ॥ ८८.८॥
याज्ञवल्क्यश्च जनको राजानं वरुणं तदा ।
गत्वा चोचतुरव्यग्रौ मुक्तिमार्गं यथाक्रमम् ॥ ८८.९॥
वरुण उवाच ।
द्विधा तु संस्थिता मुक्तिः कर्मद्वारेऽप्यकर्मणि ।
वेदे च निश्चितो मार्गः कर्म ज्यायो ह्यकर्मणः ॥ ८८.१०॥
सर्वं च कर्मणा बद्धं पुरुषार्थचतुष्टयम् ।
अकर्मणैवाप्यत इति मुक्तिमार्गो मृषोच्यते ॥ ८८.११॥
कर्मणा सर्वधान्यानि सेत्स्यन्ति नृपसत्तम ।
तस्मात् सर्वात्मना कर्म कर्तव्यं वैदिकं नृभिः ॥ ८८.१२॥
तेन भुक्तिं च मुक्तिं च प्राप्नुवन्तीह मानवाः ।
अकर्मणः कर्म पुण्यं कर्म चाप्याश्रमेषु च ॥ ८८.१३॥
जात्याश्रितं च राजेन्द्र तत्रापि शृणु धर्मवित् ।
आश्रमाणि च चत्वारि कर्मद्वाराणि मानद ॥ ८८.१४॥
चतुर्णामाश्रमाणां च गार्हस्थ्यं पुण्यदं स्मृतम् ।
तस्माद् भुक्तिश्च मुक्तिश्च भवतीति मतिर्मम ॥ ८८.१५॥
ब्रह्मोवाच ।
एतच्छ्रुत्वा तु जनको याज्ञवल्क्यश्च बुद्धिमान् ।
वरुणं पूजयित्वा तु पुनर्वचनमूचतुः ॥ ८८.१६॥
को देशः किं च तीर्थं स्याद् भुक्तिमुक्तिप्रदायकम् ।
तद् वदस्व सुरश्रेष्ठ सर्वज्ञोऽसि नमोऽस्तु ते ॥ ८८.१७॥
वरुण उवाच ।
पृथिव्यां भारतं वर्षं दण्डकं तत्र पुण्यदम् ।
तस्मिन् क्षेत्रे कृतं कर्म भुक्तिमुक्तिप्रदं नृणाम् ॥ ८८.१८॥
तीर्थानां गौतमी गङ्गा श्रेष्ठा मुक्तिप्रदा नृणाम् ।
तत्र यज्ञेन दानेन भोगान् मुक्तिमवाप्स्यति ॥ ८८.१९॥
ब्रह्मोवाच ।
याज्ञवल्क्यश्च जनको वाचं श्रुत्वा ह्यपाम्पतेः ।
वरुणेन ह्यनुज्ञातौ स्वपुरीं जग्मतुस्तदा ॥ ८८.२०॥
अश्वमेधादिकं कर्म चकार जनको नृपः ।
याजयामास विप्रेन्द्रो याज्ञवल्क्यश्च तं नृपम् ॥ ८८.२१॥
गङ्गातीरं समाश्रित्य यज्ञान् मुक्तिमवाप राट् ।
तथा जनकराजानो बहवस्तत्र कर्मणा ॥ ८८.२२॥
मुक्तिं प्रापुर्महाभागा गौतम्याश्च प्रसादतः ।
ततः प्रभृति तत् तीर्थं जनस्थानेति विश्रुतम् ॥ ८८.२३॥
जनकानां यज्ञसदो जनस्थानं प्रकीर्तितम् ।
चतुर्योजनविस्तीर्णं स्मरणात् सर्वपापनुत् ॥ ८८.२४॥
तत्र स्नानेन दानेन पितृणां तर्पणेन तु ।
तीर्थस्य स्मरणाद् वापि गमनाद् भक्तिसेवनात् ॥ ८८.२५॥
सर्वान् कामान् अवाप्नोति मुक्तिं च समवाप्नुयात् ॥ ८८.२६॥