अध्याय 87, Verse 1
ब्रह्मोवाच ।
अहल्यासंगमं चेह तीर्थं त्रैलोक्यपावनम् ।
शृणु सम्यङ् मुनिश्रेष्ठ तत्र वृत्तमिदं यथा ॥ ८७.१॥
Containing 69 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
अहल्यासंगमं चेह तीर्थं त्रैलोक्यपावनम् ।
शृणु सम्यङ् मुनिश्रेष्ठ तत्र वृत्तमिदं यथा ॥ ८७.१॥
कौतुकेनातिमहता मया पूर्वं मुनीश्वर ।
सृष्टा कन्या बहुविधा रूपवत्यो गुणान्विताः ॥ ८७.२॥
तासामेकां श्रेष्ठतमां निर्ममे शुभलक्षणाम् ।
तां बालां चारुसर्वाङ्गीं दृष्ट्वा रूपगुणान्विताम् ॥ ८७.३॥
को वास्याः पोषणे शक्त इति मे बुद्धिराविशत् ।
न दैत्यानां सुराणां च न मुनीनां तथैव च ॥ ८७.४॥
नास्त्यस्याः पोषणे शक्तिरिति मे बुद्धिरन्वभूत् ।
गुणज्येष्ठाय विप्राय तपोयुक्ताय धीमते ॥ ८७.५॥
सर्वलक्षणयुक्ताय वेदवेदाङ्गवेदिने ।
गौतमाय महाप्राज्ञामददां पोषणाय ताम् ॥ ८७.६॥
पालयस्व मुनिश्रेष्ठ यावद् आप्स्यति यौवनम् ।
यौवनस्थां पुनः साध्वीमानयेथा ममान्तिकम् ॥ ८७.७॥
एवमुक्त्वा गौतमाय प्रादां कन्यां सुमध्यमाम् ।
तामादाय मुनिश्रेष्ठ तपसा हतकल्मषः ॥ ८७.८॥
तां पोषयित्वा विधिवद् अलंकृत्य ममान्तिकम् ।
निर्विकारो मुनिश्रेष्ठो ह्यहल्यामानयत् तदा ॥ ८७.९॥
तां दृष्ट्वा विबुधाः सर्वे शक्राग्निवरुणादयः ।
मम देया सुरेशान इत्यूचुस्ते पृथक् पृथक् ॥ ८७.१०॥
तथैव मुनयः साध्या दानवा यक्षराक्षसाः ।
तान् सर्वान् आगतान् दृष्ट्वा कन्यार्थमथ संगतान् ॥ ८७.११॥
इन्द्रस्य तु विशेषेण महांश्चाभूत् तदा ग्रहः ।
गौतमस्य तु माहात्म्यं गाम्भीर्यं धैर्यमेव च ॥ ८७.१२॥
स्मृत्वा सुविस्मितो भूत्वा ममैवमभवत् सुधीः ।
देयेयं गौतमायैव नान्ययोग्या शुभानना ॥ ८७.१३॥
तस्मै एव तु तां दास्ये तथाप्येवमचिन्तयम् ।
सर्वेषां च मतिर्धैर्यं मथितं बालयानया ॥ ८७.१४॥
अहल्येति सुरैः प्रोक्तं मया च ऋषिभिस्तदा ।
देवान् ऋषींस्तदा वीक्ष्य मया तत्रोक्तमुच्चकैः ॥ ८७.१५॥
तस्मै सा दीयते सुभ्रूर्यः पृथिव्याः प्रदक्षिणाम् ।
कृत्वोपतिष्ठते पूर्वं न चान्यस्मै पुनः पुनः ॥ ८७.१६॥
ततः सर्वे सुरगणाः श्रुत्वा वाक्यं मयेरितम् ।
अहल्यार्थं सुरा जग्मुः पृथिव्याश्च प्रदक्षिणे ॥ ८७.१७॥
गतेषु सुरसंघेषु गौतमोऽपि मुनीश्वर ।
प्रयत्नमकरोत् किंचिद् अहल्यार्थमिमं तथा ॥ ८७.१८॥
एतस्मिन्न् अन्तरे ब्रह्मन् सुरभिः सर्वकामधुक् ।
अर्धप्रसूता ह्यभवत् तां ददर्श स गौतमः ॥ ८७.१९॥
तस्याः प्रदक्षिणं चक्रे इयमुर्वीति संस्मरन् ।
लिङ्गस्य च सुरेशस्य प्रदक्षिणमथाकरोत् ॥ ८७.२०॥
तयोः प्रदक्षिणं कृत्वा गौतमो मुनिसत्तमः ।
सर्वेषां चैव देवानामेकं चापि प्रदक्षिणम् ॥ ८७.२१॥
नैवाभवद् भुवो गन्तुः संजातं द्वितयं मम ।
एवं निश्चित्य स मुनिर्ममान्तिकमथाभ्यगात् ॥ ८७.२२॥
नमस्कृत्वाब्रवीद् वाक्यं गौतमो मां महामतिः ।
कमलासन विश्वात्मन् नमस्तेऽस्तु पुनः पुनः ॥ ८७.२३॥
प्रदक्षिणीकृता ब्रह्मन् मयेयं वसुधाखिला ।
यद् अत्र युक्तं देवेश जानीते तद् भवान् स्वयम् ॥ ८७.२४॥
मया तु ध्यानयोगेन ज्ञात्वा गौतममब्रवम् ।
तवैव दीयते सुभ्रूः प्रदक्षिणमिदं कृतम् ॥ ८७.२५॥
धर्मं जानीहि विप्रर्षे दुर्ज्ञेयं निगमैरपि ।
अर्धप्रसूता सुरभिः सप्तद्वीपवती मही ॥ ८७.२६॥
कृता प्रदक्षिणा तस्याः पृथिव्याः सा कृता भवेत् ।
लिङ्गं प्रदक्षिणीकृत्य तद् एव फलमाप्नुयात् ॥ ८७.२७॥
तस्मात् सर्वप्रयत्नेन मुने गौतम सुव्रत ।
तुष्टोऽहं तव धैर्येण ज्ञानेन तपसा तथा ॥ ८७.२८॥
दत्तेयम् ऋषिशार्दूल कन्या लोकवरा मया ।
इत्युक्त्वाहं गौतमाय अहल्यामददां मुने ॥ ८७.२९॥
जाते विवाहे ते देवाः कृत्वेलायाः प्रदक्षिणम् ।
शनैः शनैरथागत्य ददृशुः सर्व एव ते ॥ ८७.३०॥