अध्याय 86, Verse 1
ब्रह्मोवाच ।
अस्ति ब्रह्मन् महातीर्थं चक्रतीर्थमिति श्रुतम् ।
तत्र स्नानान् नरो भक्त्या हरेर्लोकमवाप्नुयात् ॥ ८६.१॥
Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
अस्ति ब्रह्मन् महातीर्थं चक्रतीर्थमिति श्रुतम् ।
तत्र स्नानान् नरो भक्त्या हरेर्लोकमवाप्नुयात् ॥ ८६.१॥
एकादश्यां तु शुक्लायामुपोष्य पृथिवीपते ।
गणिकासंगमे स्नात्वा प्राप्नुयाद् अक्षयं पदम् ॥ ८६.२॥
पुरा तत्र यथा वृत्तं तन् मे निगदतः शृणु ।
आसीद् विश्वधरो नाम वैश्यो बहुधनान्वितः ॥ ८६.३॥
उत्तरे वयसि श्रेष्ठस्तस्य पुत्रोऽभवद् ऋषे ।
गुणवान् रूपसम्पन्नो विलासी शुभदर्शनः ॥ ८६.४॥
प्राणेभ्योऽपि प्रियः पुत्रः काले पञ्चत्वमागतः ।
तथा दृष्ट्वा तु तं पुत्रं दम्पती दुःखपीडितौ ॥ ८६.५॥
कुर्वाते स्म तदा तेन सहैव मरणे मतिम् ।
हा पुत्र हन्त कालेन पापेन सुदुरात्मना ॥ ८६.६॥
यौवने वर्तमानोऽपि नीतोऽसि गुणसागर ।
आवयोश्च तथैव त्वं प्राणेभ्योऽपि सुदुर्लभः ॥ ८६.७॥
इत्थं तु रुदितं श्रुत्वा दम्पत्योः करुणं यमः ।
त्यक्त्वा निजपुरं तूर्णं कृपयाविष्टमानसः ॥ ८६.८॥
गोदावर्याः शुभे तीरे स्थितो ध्यायञ् जनार्दनम् ।
अपि स्वल्पेन कालेन प्रजा वृद्धाः समन्ततः ॥ ८६.९॥
इयत इति मे पृथ्वी कथ्यतां केन पूरिता ।
न कश्चिन् म्रियते जन्तुर्भाराक्रान्ता वसुंधरा ॥ ८६.१०॥
ततो देवी गता तूर्णं वसुधा मुनिसत्तम ।
यत्रास्ति सुरसंयुक्तः शक्रः परपुरंजयः ।
दृष्ट्वा वसुंधरामिन्द्रः प्रणिपत्येदमब्रवीत् ॥ ८६.११॥
इन्द्र उवाच ।
किमागमनकार्यं त इति मे पृथ्वि कथ्यताम् ॥ ८६.१२॥
धरोवाच ।
भारेण गुरुणा शक्र पीडिताहं विना वधम् ।
कारणं प्रष्टुमायाता किमिदं कथ्यतां मम ॥ ८६.१३॥
ब्रह्मोवाच ।
इति श्रुत्वा महीवाक्यमिन्द्रो वचनमब्रवीत् ॥ ८६.१४॥
इन्द्र उवाच ।
कारणं यदि नाम स्यात् तदानीं ज्ञायते मया ।
सुराणां हि पतिर्यस्माद् अहं सर्वासु मेदिनि ॥ ८६.१५॥
ब्रह्मोवाच ।
अथ पृथ्वी तदा वाक्यं श्रुत्वा चाह शचीपतिम् ।
यम आदिश्यतां तर्हि यथा संहरते प्रजाः ॥ ८६.१६॥
इति श्रुत्वा वचो मह्या आदिष्टाः सिद्धकिंनराः ।
यमस्यानयने शीघ्रं महेन्द्रेण महामुने ॥ ८६.१७॥
ततस्ते सत्वरं याताः सर्वे वैवस्वतं पुरम् ।
नैवापश्यन् यमं तत्र ते सिद्धाः सह किंनरैः ।
तथागत्य पुनर्वेगाद् वार्त्ता शक्रे निवेदिता ॥ ८६.१८॥
सिद्धकिंनरा ऊचुः ।
यमो यमपुरे नाथ अस्माभिर्नावलोकितः ।
महतापि सुयत्नेन वीक्ष्यमाणः समन्ततः ॥ ८६.१९॥
ब्रह्मोवाच ।
इति श्रुत्वा वचस्तेषां पृष्टः शक्रेण वै तदा ।
सविता स पिता तस्य यमः कुत्रास्त इत्यथ ॥ ८६.२०॥
सूर्य उवाच ।
शक्र गोदावरीतीरे कृतान्तो वर्ततेऽधुना ।
चरंस्तत्र तपस्तीव्रं न जाने किं नु कारणम् ॥ ८६.२१॥
ब्रह्मोवाच ।
इति श्रुत्वा वचो भानोः शक्रः
शक्र उवाच ।
अहो कष्टं महाकष्टं नष्टा मे सुरनाथता ।
गोदावर्यां तपः कुर्याद् यमो वै दुष्टचेष्टितः ।
जिघृक्षुर्मत्पदं नूनं देवा इति मतिर्मम ॥ ८६.२३॥
ब्रह्मोवाच ।
इत्युक्त्वा सहसेन्द्रेण आहूतश्चाप्सरोगणः ॥ ८६.२४॥
इन्द्र उवाच ।
का भवतीषु कालस्य स्थितस्य तपसि द्विषः ।
तपःप्रणाशने शक्ता इति मे शीघ्रमुच्यताम् ॥ ८६.२५॥
ब्रह्मोवाच ।
इति शक्रवचः श्रुत्वा नोचे कापि महामुने ।
अथ शक्रः प्रकोपेण प्रत्युवाचाप्सरोगणम् ॥ ८६.२६॥
इन्द्र उवाच ।
उत्तरं नाब्रवीत् किंचिद् यामस्तर्हि वयं स्वयम् ।
सज्जा भवन्तु विबुधाः सैन्यैरायान्तु मा चिरम् ।
घातयामो वयं शत्रुं तपसा स्वर्गकामुकम् ॥ ८६.२७॥
ब्रह्मोवाच ।
इत्युक्ते सति देवानां सेना प्रादुर्बभूव ह ।
इतीन्द्रहृदयं ज्ञात्वा हरिणा लोकधारिणा ॥ ८६.२८॥
प्रेषितं चक्रिणा चक्रं रक्षणाय यमस्य हि ।
चक्रं यत्राभवत् तत्र चक्रतीर्थमनुत्तमम् ॥ ८६.२९॥
अथेन्द्रं मेनका प्राह शङ्कितेति वचस्तदा ॥ ८६.३०॥