अध्याय 85, Verse 1
ब्रह्मोवाच ।
क्षुधातीर्थमिति ख्यातं शृणु नारद तन्मनाः ।
कथ्यमानं महापुण्यं सर्वकामप्रदं नृणाम् ॥ ८५.१॥
Containing 24 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
क्षुधातीर्थमिति ख्यातं शृणु नारद तन्मनाः ।
कथ्यमानं महापुण्यं सर्वकामप्रदं नृणाम् ॥ ८५.१॥
ऋषिरासीत् पुरा कण्वस्तपस्वी वेदवित्तमः ।
परिभ्रमन्न् आश्रमाणि क्षुधया परिपीडितः ॥ ८५.२॥
गौतमस्याश्रमं पुण्यं समृद्धं चान्नवारिणा ।
आत्मानं च क्षुधायुक्तं समृद्धं चापि गौतमम् ॥ ८५.३॥
वीक्ष्य कण्वोऽथ वैषम्यं वैराग्यमगमत् तदा ।
गौतमोऽपि द्विजश्रेष्ठो ह्यहं तपसि निष्ठितः ॥ ८५.४॥
समेन याच्ञायुक्ता स्यात् तस्माद् गौतमवेश्मनि ।
न भोक्ष्येऽहं क्षुधार्तोऽपि पीडितेऽपि कलेवरे ॥ ८५.५॥
गच्छेयं गौतमीं गङ्गामर्जयेयं च सम्पदम् ।
इति निश्चित्य मेधावी गत्वा गङ्गां च पावनीम् ॥ ८५.६॥
स्नात्वा शुचिर्यतमना उपविश्य कुशासने ।
तुष्टाव गौतमीं गङ्गां क्षुधां च परमापदम् ॥ ८५.७॥
कण्व उवाच ।
नमोऽस्तु गङ्गे परमार्तिहारिणि ।
नमः क्षुधे सर्वजनार्तिकारिणि ।
नमो महेशानजटोद्भवे शुभे ।
नमो महामृत्युमुखाद् विनिसृते ॥ ८५.८॥
पुण्यात्मनां शान्तरूपे क्रोधरूपे दुरात्मनाम् ।
सरिद्रूपेण सर्वेषां तापपापापहारिणि ॥ ८५.९॥
क्षुधारूपेण सर्वेषां तापपापप्रदे नमः ।
नमः श्रेयस्करि देवि नमः पापप्रतर्दिनि ।
नमः शान्तिकरि देवि नमो दारिद्र्यनाशिनि ॥ ८५.१०॥
ब्रह्मोवाच ।
इत्येवं स्तुवतस्तस्य पुरस्ताद् अभवद् द्वयम् ।
एकं गाङ्गं मनोहारि ह्यपरं भीषणाकृति ।
पुनः कृताञ्जलिर्भूत्वा नमस्कृत्वा द्विजोत्तमः ॥ ८५.११॥
कण्व उवाच ।
सर्वमङ्गलमाङ्गल्ये ब्राह्मि माहेश्वरि शुभे ।
वैष्णवि त्र्यम्बके देवि गोदावरि नमोऽस्तु ते ॥ ८५.१२॥
त्र्यम्बकस्य जटोद्भूते गौतमस्याघनाशिनि ।
सप्तधा सागरं यान्ति गोदावरि नमोऽस्तु ते ॥ ८५.१३॥
सर्वपापकृतां पापे धर्मकामार्थनाशिनि ।
दुःखलोभमयि देवि क्षुधे तुभ्यं नमो नमः ॥ ८५.१४॥
ब्रह्मोवाच ।
तत् कण्ववचनं श्रुत्वा सुप्रीते आहतुर्द्विजम् ॥ ८५.१५॥
गङ्गाक्षुधे ऊचतुः ।
अभीष्टं वद कल्याण वरान् वरय
ब्रह्मोवाच ।
प्रोवाच प्रणतो गङ्गां कण्वः क्षुधां
कण्व उवाच ।
देहि देवि मनोज्ञानि कामानि विभवं मम ।
आयुर्वित्तं च भुक्तिं च मुक्तिं गङ्गे प्रयच्छ मे ॥ ८५.१८॥
ब्रह्मोवाच ।
इत्युक्त्वा गौतमीं गङ्गां क्षुधां चाह
कण्व उवाच ।
मयि मद्वंशजे चापि क्षुधे तृष्णे दरिद्रिणि ।
याहि पापतरे रूक्षे न भूयास्त्वं कदाचन ॥ ८५.२०॥
अनेन स्तवेन ये वै त्वां स्तुवन्ति क्षुधातुराः ।
तेषां दारिद्र्यदुःखानि न भवेयुर्वरोऽपरः ॥ ८५.२१॥
अस्मिंस्तीर्थे महापुण्ये स्नानदानजपादिकम् ।
ये कुर्वन्ति नरा भक्त्या लक्ष्मीभाजो भवन्तु ते ॥ ८५.२२॥
यस्त्विदं पठते स्तोत्रं तीर्थे वा यदि वा गृहे ।
तस्य दारिद्र्यदुःखेभ्यो न भयं स्याद् वरोऽपरः ॥ ८५.२३॥
ब्रह्मोवाच ।
एवमस्त्विति चोक्त्वा ते कण्वं याते स्वमालयम् ।
ततः प्रभृति तत् तीर्थं काण्वं गाङ्गं क्षुधाभिधम् ।
सर्वपापहरं वत्स पितृणां प्रीतिवर्धनम् ॥ ८५.२५॥