अध्याय 84, Verse 1
ब्रह्मोवाच ।
पैशाचं तीर्थमपरं पूजितं ब्रह्मवादिभिः ।
तस्य स्वरूपं वक्ष्यामि गौतम्या दक्षिणे तटे ॥ ८४.१॥
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
पैशाचं तीर्थमपरं पूजितं ब्रह्मवादिभिः ।
तस्य स्वरूपं वक्ष्यामि गौतम्या दक्षिणे तटे ॥ ८४.१॥
गिरिर्ब्रह्मगिरेः पार्श्वे अञ्जनो नाम नारद ।
तस्मिञ् शैले मुनिवर शापभ्रष्टा वराप्सरा ॥ ८४.२॥
अञ्जना नाम तत्रासीद् उत्तमाङ्गेन वानरी ।
केसरी नाम तद्भर्ता अद्रिकेति तथापरा ॥ ८४.३॥
सापि केसरिणो भार्या शापभ्रष्टा वराप्सरा ।
उत्तमाङ्गेन मार्जारी साप्यास्तेऽञ्जनपर्वते ॥ ८४.४॥
दक्षिणार्णवमभ्यागात् केसरी लोकविश्रुतः ।
एतस्मिन्न् अन्तरेऽगस्त्योऽञ्जनं पर्वतमभ्यगात् ॥ ८४.५॥
अञ्जना चाद्रिका चैव अगस्त्यम् ऋषिसत्तमम् ।
पूजयामासतुरुभे यथान्यायं यथासुखम् ॥ ८४.६॥
ततः प्रसन्नो भगवान् आहोभे व्रियतां वरः ।
ते आहतुरुभेऽगस्त्यं पुत्रौ देहि मुनीश्वर ॥ ८४.७॥
सर्वेभ्यो बलिनौ श्रेष्ठौ सर्वलोकोपकारकौ ।
तथेत्युक्त्वा मुनिश्रेष्ठो जगामाशां स दक्षिणाम् ॥ ८४.८॥
ततः कदाचित् ते काले अञ्जना चाद्रिका तथा ।
गीतं नृत्यं च हास्यं च कुर्वत्यौ गिरिमूर्धनि ॥ ८४.९॥
वायुश्च निरृतिश्चापि ते दृष्ट्वा सस्मितौ सुरौ ।
कामाक्रान्तधियौ चोभौ तदा सत्वरमीयतुः ॥ ८४.१०॥
भार्ये भवेतामुभयोरावां देवौ वरप्रदौ ।
ते अप्यूचतुरस्त्वेतद् रेमाते गिरिमूर्धनि ॥ ८४.११॥
अञ्जनायां तथा वायोर्हनुमान् समजायत ।
अद्रिकायां च निरृतेरद्रिर्नाम पिशाचराट् ॥ ८४.१२॥
पुनस्ते आहतुरुभे पुत्रौ जातौ मुनेर्वरात् ।
आवयोर्विकृतं रूपमुत्तमाङ्गेन दूषितम् ॥ ८४.१३॥
शापाच्छचीपतेस्तत्र युवामाज्ञातुमर्हथः ।
ततः प्रोवाच भगवान् वायुश्च निरृतिस्तथा ॥ ८४.१४॥
गौतम्यां स्नानदानाभ्यां शापमोक्षो भविष्यति ।
इत्युक्त्वा तावुभौ प्रीतौ तत्रैवान्तरधीयताम् ॥ ८४.१५॥
ततोऽञ्जनां समादाय अद्रिः पैशाचमूर्तिमान् ।
भ्रातुर्हनुमतः प्रीत्यै स्नापयामास मातरम् ॥ ८४.१६॥
तथैव हनुमान् गङ्गामादायाद्रिमतित्वरन् ।
मार्जाररूपिणीं नीत्वा गौतम्यास्तीरमाप्तवान् ॥ ८४.१७॥
ततः प्रभृति तत् तीर्थं पैशाचं चाञ्जनं तथा ।
ब्रह्मणो गिरिमासाद्य सर्वकामप्रदं शुभम् ॥ ८४.१८॥
योजनानां त्रिपञ्चाशन् मार्जारं पूर्वतो भवेत् ।
मार्जारसंज्ञितात् तस्माद् धनूमन्तं वृषाकपिम् ॥ ८४.१९॥
फेनासंगममाख्यातं सर्वकामप्रदं शुभम् ।
तस्य स्वरूपं व्युष्टिश्च तत्रैव प्रोच्यते शुभा ॥ ८४.२०॥