अध्याय 83, Verse 1
ब्रह्मोवाच ।
दशाश्वमेधिकं तीर्थं तच्छृणुष्व महामुने ।
यस्य श्रवणमात्रेण हयमेधफलं लभेत् ॥ ८३.१॥
Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
दशाश्वमेधिकं तीर्थं तच्छृणुष्व महामुने ।
यस्य श्रवणमात्रेण हयमेधफलं लभेत् ॥ ८३.१॥
विश्वकर्मसुतः श्रीमान् विश्वरूपो महाबलः ।
तस्यापि प्रथमः पुत्रस्तत्पुत्रो भौवनो विभुः ॥ ८३.२॥
पुरोधाः कश्यपस्तस्य सर्वज्ञानविशारदः ।
तमपृच्छन् महाबाहुर्भौवनः सार्वभौवनः ॥ ८३.३॥
यक्ष्येऽहं हयमेधैश्च युगपद् दशभिर्मुने ।
इत्यपृच्छद् गुरुं विप्रं क्व यक्ष्यामि सुरान् इति ॥ ८३.४॥
सोऽवदद् देवयजनं तत्र तत्र नृपोत्तम ।
यत्र यत्र द्विजश्रेष्ठाः प्रावर्तन्त महाक्रतून् ॥ ८३.५॥
तत्राभवन्न् ऋषिगणा आर्त्विज्ये मखमण्डले ।
युगपद् दशमेधानि प्रवृत्तानि पुरोधसा ॥ ८३.६॥
पूर्णतां नाययुस्तानि दृष्ट्वा चिन्तापरो नृपः ।
विहाय देवयजनं पुनरन्यत्र तान् क्रतून् ॥ ८३.७॥
उपाक्रामत् तथा तत्र विघ्नदोषास्तमाययुः ।
दृष्ट्वापूर्णांस्ततो यज्ञान् राजा गुरुमभाषत ॥ ८३.८॥
राजोवाच ।
देशदोषात् कालदोषान् मम दोषात् तवापि वा ।
पूर्णतां नाप्नुवन्ति स्म दशमेधानि वाजिनः ॥ ८३.९॥
ब्रह्मोवाच ।
ततश्च दुःखितो राजा कश्यपेन पुरोधसा ।
गीष्पतेर्भ्रातरं ज्येष्ठं गत्वा संवर्तमूचतुः ॥ ८३.१०॥
कश्यपभौवनावूचतुः ।
भगवन् युगपत् कार्याण्यश्वमेधानि मानद ।
दश सम्पूर्णतां यान्ति तं देशं तं गुरुं वद ॥ ८३.११॥
ब्रह्मोवाच ।
ततो ध्यात्वा ऋषिश्रेष्ठः संवर्तो भौवनं तदा ।
अब्रवीद् गच्छ ब्रह्माणं गुरुं देशं वदिष्यति ॥ ८३.१२॥
भौवनोऽपि महाप्राज्ञः कश्यपेन महात्मना ।
आगत्य मामब्रवीच्च गुरुं देशादिकं च यत् ॥ ८३.१३॥
ततोऽहमब्रवं पुत्र भौवनं कश्यपं तथा ।
गौतमीं गच्छ राजेन्द्र स देशः क्रतुपुण्यवान् ॥ ८३.१४॥
अयमेव गुरुः श्रेष्ठः कश्यपो वेदपारगः ।
गुरोरस्य प्रसादेन गौतम्याश्च प्रसादतः ॥ ८३.१५॥
एकेन हयमेधेन तत्र स्नानेन वा पुनः ।
सेत्स्यन्ति तत्र यज्ञाश्च दशमेधानि वाजिनः ॥ ८३.१६॥
तच्छ्रुत्वा भौवनो राजा गौतमीतीरमभ्यगात् ।
कश्यपेन सहायेन हयमेधाय दीक्षितः ॥ ८३.१७॥
ततः प्रवृत्ते यज्ञेशे हयमेधे महाक्रतौ ।
सम्पूर्णे तु तदा राजा पृथिवीं दातुमुद्यतः ॥ ८३.१८॥
ततोऽन्तरिक्षे वाग् उच्चैरुवाच नृपसत्तमम् ।
पूजयित्वा स्थितं विप्रान् ऋत्विजोऽथ सदस्पतीन् ॥ ८३.१९॥
आकाशवाग् उवाच ।
पुरोधसे कश्यपाय सशैलवनकाननाम् ।
पृथिवीं दातुकामेन दत्तं सर्वं त्वया नृप ॥ ८३.२०॥
भूमिदानस्पृहां त्यक्त्वा अन्नं देहि महाफलम् ।
नान्नदानसमं पुण्यं त्रिषु लोकेषु विद्यते ॥ ८३.२१॥
विशेषतस्तु गङ्गायाः श्रद्धया पुलिने मुने ।
त्वया तु हयमेधोऽयं कृतः सबहुदक्षिणः ।
कृतकृत्योऽसि भद्रं ते नात्र कार्या विचारणा ॥ ८३.२२॥
ब्रह्मोवाच ।
तथापि दातुकामं तं मही प्रोवाच भौवनम् ॥ ८३.२३॥
पृथिव्युवाच ।
विश्वकर्मज सार्वभौम मा मां देहि पुनः पुनः ।
निमज्जेऽहं सलिलस्य मध्ये तस्मान् न दीयताम् ॥ ८३.२४॥
ब्रह्मोवाच ।
ततश्च भौवनो भीतः किं देयमिति चाब्रवीत् ।
पुनश्चोवाच सा पृथ्वी भौवनं ब्राह्मणैर्वृतम् ॥ ८३.२५॥
भूम्युवाच ।
तिला गावो धनं धान्यं यत् किंचिद् गौतमीतटे ।
सर्वं तद् अक्षयं दानं किं मां भौवन दास्यसि ॥ ८३.२६॥
गङ्गातीरं समाश्रित्य ग्रासमेकं ददाति यः ।
तेनाहं सकला दत्ता किं मां भौवन दास्यसि ॥ ८३.२७॥
ब्रह्मोवाच ।
तद् भुवो वचनं श्रुत्वा भौवनः सार्वभौवनः ।
तथेति मत्वा विप्रेभ्यो ह्यन्नं प्रादात् सुविस्तरम् ॥ ८३.२८॥
ततः प्रभृति तत् तीर्थं दशाश्वमेधिकं विदुः ।
दशानामश्वमेधानां फलं स्नानाद् अवाप्यते ॥ ८३.२९॥