अध्याय 82, Verse 1
ब्रह्मोवाच ।
यत् ख्यातं कृत्तिकातीर्थं कार्त्तिकेयाद् अनन्तरम् ।
तस्य श्रवणमात्रेण सोमपानफलं लभेत् ॥ ८२.१॥
Containing 16 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
यत् ख्यातं कृत्तिकातीर्थं कार्त्तिकेयाद् अनन्तरम् ।
तस्य श्रवणमात्रेण सोमपानफलं लभेत् ॥ ८२.१॥
पुरा तारकनाशाय भवरेतोऽपिबत् कविः ।
रेतोगर्भं कविं दृष्ट्वा ऋषिपत्न्योऽस्पृहन् मुने ॥ ८२.२॥
सप्तर्षीणाम् ऋतुस्नातां वर्जयित्वा त्वरुन्धतीम् ।
तासु गर्भः समभवत् षट्सु स्त्रीषु तदाग्नितः ॥ ८२.३॥
तप्यमानास्तु शोभिष्ठा ऋतुस्नातास्तु ता मुने ।
किं कुर्मः क्व नु गच्छामः किं कृत्वा सुकृतं भवेत् ॥ ८२.४॥
इत्युक्त्वा ता मिथो गङ्गां व्यग्रा गत्वा व्यपीडयन् ।
ताभ्यस्ते निःसृता गर्भाः फेनरूपास्तदाम्भसि ॥ ८२.५॥
अम्भसा त्वेकतां प्राप्ता वायुना सर्व एव हि ।
एकरूपस्तदा ताभ्यः षण्मुखः समजायत ॥ ८२.६॥
स्रावयित्वा तु तान् गर्भान् ऋषिपत्न्यो गृहान् ययुः ।
तासां विकृतरूपाणि दृष्ट्वा ते ऋषयोऽब्रुवन् ॥ ८२.७॥
गम्यतां गम्यतां शीघ्रं स्वैरी वृत्तिर्न युज्यते ।
स्त्रीणामिति ततो वत्स निरस्ताः पतिभिस्तु ताः ॥ ८२.८॥
ततो दुःखं समाविष्टास्त्यक्ताः स्वपतिभिश्च षट् ।
ता दृष्ट्वा नारदः प्राह कार्त्तिकेयो हरोद्भवः ॥ ८२.९॥
गाङ्गेयोऽग्निभवश्चेति विख्यातस्तारकान्तकः ।
तं यान्तु न चिराद् एव प्रीतो भोगं प्रदास्यति ॥ ८२.१०॥
देवर्षेर्वचनाद् एव समभ्येत्य च षण्मुखम् ।
कृत्तिकाः स्वयमेवैतद् यथावृत्तं न्यवेदयत् ॥ ८२.११॥
ताभ्यो वाक्यं कृत्तिकाभ्यः कार्त्तिकेयोऽनुमन्य च ।
गौतमीं यान्तु सर्वाश्च स्नात्वापूज्य महेश्वरम् ॥ ८२.१२॥
एष्यामि चाहं तत्रैव यास्यामि सुरमन्दिरम् ।
तथेत्युक्त्वा कृत्तिकाश्च स्नात्वा गङ्गां च गौतमीम् ॥ ८२.१३॥
देवेश्वरं च सम्पूज्य कार्त्तिकेयानुशासनात् ।
देवेश्वरप्रसादेन प्रययुः सुरमन्दिरम् ॥ ८२.१४॥
ततः प्रभृति तत् तीर्थं कृत्तिकातीर्थमुच्यते ।
कार्त्तिक्यां कृत्तिकायोगे तत्र यः स्नानमाचरेत् ॥ ८२.१५॥
सर्वक्रतुफलं प्राप्य राजा भवति धार्मिकः ।
तत्तीर्थस्मरणं वापि यः करोति शृणोति च ।
सर्वपापविनिर्मुक्तो दीर्घमायुरवाप्नुयात् ॥ ८२.१६॥