Brahma Purana

अध्याय 81

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Brahma Purana

अध्याय 81, Verse 1

ब्रह्मोवाच ।

कार्त्तिकेयं परं तीर्थं कौमारमिति विश्रुतम् ।

यन्नामश्रवणाद् एव कुलवान् रूपवान् भवेत् ॥ ८१.१॥

Brahma Purana

अध्याय 81, Verse 2

निहते तारके दैत्ये स्वस्थे जाते त्रिविष्टपे ।

कार्त्तिकेयं सुतं ज्येष्ठं प्रीत्या प्रोवाच पार्वती ॥ ८१.२॥

Brahma Purana

अध्याय 81, Verse 3

यथासुखं भुङ्क्ष्व भोगांस्त्रैलोक्ये मनसः प्रियान् ।

ममाज्ञया प्रीतमनाः पितुश्चैव प्रसादतः ॥ ८१.३॥

Brahma Purana

अध्याय 81, Verse 4

एवमुक्तः स वै मात्रा विशाखो देवतास्त्रियः ।

यथासुखं बलाद् रेमे देवपत्न्योऽपि रेमिरे ॥ ८१.४॥

Brahma Purana

अध्याय 81, Verse 5

ततः सम्भुज्यमानासु देवपत्नीषु नारद ।

नाशक्नुवन् वारयितुं कार्त्तिकेयं दिवौकसः ॥ ८१.५॥

Brahma Purana

अध्याय 81, Verse 6

ततो निवेदयामासुः पार्वत्यै पुत्रकर्म तत् ।

असकृद् वार्यमाणोऽपि मात्रा देवैः स शक्तिधृक् ॥ ८१.६॥

Brahma Purana

अध्याय 81, Verse 7

नैवासावकरोद् वाक्यं स्त्रीष्वासक्तस्तु षण्मुखः ।

अभिशापभयाद् भीता पार्वती पर्यचिन्तयत् ॥ ८१.७॥

Brahma Purana

अध्याय 81, Verse 8

पुत्रस्नेहात् तथैवेशा देवानां कार्यसिद्धये ।

देवपत्न्यश्चिरं रक्ष्या इति मत्वा पुनः पुनः ॥ ८१.८॥

Brahma Purana

अध्याय 81, Verse 9

यस्यां तु रमते स्कन्दः पार्वती त्वपि तादृशी ।

तद्रूपमात्मनः कृत्वा वर्तयामास पार्वती ॥ ८१.९॥

Brahma Purana

अध्याय 81, Verse 10

इन्द्रस्य वरुणस्यापि भार्यामाहूय षण्मुखः ।

यावत् पश्यति तस्यां तु मातृरूपमपश्यत ॥ ८१.१०॥

Brahma Purana

अध्याय 81, Verse 11

तामपास्य नमस्याथ पुनरन्यामथाह्वयत् ।

तस्यां तु मातृरूपं स प्रेक्ष्य लज्जामुपेयिवान् ॥ ८१.११॥

Brahma Purana

अध्याय 81, Verse 12

एवं बह्वीषु तद् रूपं दृष्ट्वा मातृमयं जगत् ।

इति संचिन्त्य गाङ्गेयो वैराग्यमगमत् तदा ॥ ८१.१२॥

Brahma Purana

अध्याय 81, Verse 13

स तु मातृकृतं ज्ञात्वा प्रवृत्तस्य निवर्तनम् ।

निवार्यश्चेद् अहं भोगात् किंतु पूर्वं प्रवर्तितः ॥ ८१.१३॥

Brahma Purana

अध्याय 81, Verse 14

तस्मान् मातृकृतं सर्वं मम हास्यास्पदं त्विति ।

लज्जया परया युक्तो गौतमीमगमत् तदा ॥ ८१.१४॥

Brahma Purana

अध्याय 81, Verse 15

इयं च मातृरूपा मे श‍ृणोतु मम भाषितम् ।

इतः स्त्रीनामधेयं यन् मम मातृसमं मतम् ॥ ८१.१५॥

Brahma Purana

अध्याय 81, Verse 16

एवं ज्ञात्वा लोकनाथः पार्वत्या सह शंकरः ।

पुत्रं निवारयामास वृत्तमित्यब्रवीद् गुरुः ॥ ८१.१६॥

Brahma Purana

अध्याय 81, Verse 17

ततः सुरपतिः प्रीतः किं ददामीति चिन्तयन् ।

कृताञ्जलिपुटः स्कन्दः पितरं पुनरब्रवीत् ॥ ८१.१७॥

Brahma Purana

अध्याय 81, Verse 18

स्कन्द उवाच ।

सेनापतिः सुरपतिस्तव पुत्रोऽहमित्यपि ।

अलमेतेन देवेश किं वरैः सुरपूजित ॥ ८१.१८॥

Brahma Purana

अध्याय 81, Verse 19

अथवा दातुकामोऽसि लोकानां हितकाम्यया ।

याचेऽहं नात्मना देव तद् अनुज्ञातुमर्हसि ॥ ८१.१९॥

Brahma Purana

अध्याय 81, Verse 20

महापातकिनः केचिद् गुरुदाराभिगामिनः ।

अत्राप्लवनमात्रेण धौतपापा भवन्तु ते ॥ ८१.२०॥

Brahma Purana

अध्याय 81, Verse 21

आप्नुवन्तूत्तमां जातिं तिर्यञ्चोऽपि सुरेश्वर ।

कुरूपो रूपसम्पत्तिमत्र स्नानाद् अवाप्नुयात् ॥ ८१.२१॥

Brahma Purana

अध्याय 81, Verse 22

ब्रह्मोवाच ।

एवमस्त्विति तं शम्भुः प्रत्यनन्दत् सुतेरितम् ।

ततः प्रभृति तत् तीर्थं कार्त्तिकेयमिति श्रुतम् ।

तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ ८१.२२॥