अध्याय 80, Verse 1
ब्रह्मोवाच ।
कुशावर्तस्य माहात्म्यमहं वक्तुं न ते क्षमः ।
तस्य स्मरणमात्रेण कृतकृत्यो भवेन् नरः ॥ ८०.१॥
Containing 92 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
कुशावर्तस्य माहात्म्यमहं वक्तुं न ते क्षमः ।
तस्य स्मरणमात्रेण कृतकृत्यो भवेन् नरः ॥ ८०.१॥
कुशावर्तमिति ख्यातं नराणां सर्वकामदम् ।
कुशेनावर्तितं यत्र गौतमेन महात्मना ॥ ८०.२॥
कुशेनावर्तयित्वा तु आनयामास तां मुनिः ।
तत्र स्नानं च दानं च पितृणां तृप्तिदायकम् ॥ ८०.३॥
नीलगङ्गा सरिच्छ्रेष्ठा निःसृता नीलपर्वतात् ।
तत्र स्नानादि यत् किंचित् करोति प्रयतो नरः ॥ ८०.४॥
सर्वं तद् अक्षयं विद्यात् पितृणां तृप्तिदायकम् ।
विश्रुतं त्रिषु लोकेषु कपोतं तीर्थमुत्तमम् ॥ ८०.५॥
तस्य रूपं च वक्ष्यामि मुने शृणु महाफलम् ।
तत्र ब्रह्मगिरौ कश्चिद् व्याधः परमदारुणः ॥ ८०.६॥
हिनस्ति ब्राह्मणान् साधून् यतीन् गोपक्षिणो मृगान् ।
एवम्भूतः स पापात्मा क्रोधनोऽनृतभाषणः ॥ ८०.७॥
भीषणाकृतिरत्युग्रो नीलाक्षो ह्रस्वबाहुकः ।
दन्तुरो नष्टनासाक्षो ह्रस्वपात् पृथुकुक्षिकः ॥ ८०.८॥
ह्रस्वोदरो ह्रस्वभुजो विकृतो गर्दभस्वनः ।
पाशहस्तः पापचित्तः पापिष्ठः सधनुः सदा ॥ ८०.९॥
तस्य भार्या तथाभूता अपत्यान्यपि नारद ।
तया तु प्रेर्यमाणोऽसौ विवेश गहनं वनम् ॥ ८०.१०॥
स जघान मृगान् पापः पक्षिणो बहुरूपिणः ।
पञ्जरे प्राक्षिपत् कांश्चिज्जीवमानांस्तथेतरान् ॥ ८०.११॥
क्षुधया परितप्ताङ्गो विह्वलस्तृषया तथा ।
भ्रान्तदेशो बहुतरं न्यवर्तत गृहं प्रति ॥ ८०.१२॥
ततोऽपराह्णे सम्प्राप्ते निवृत्ते मधुमाधवे ।
क्षणात् तडिद् गर्जितं च साभ्रं चैवाभवत् तदा ॥ ८०.१३॥
ववौ वायुः साश्मवर्षो वारिधारातिभीषणः ।
स गच्छंल्लुब्धकः श्रान्तः पन्थानं नावबुध्यत ॥ ८०.१४॥
जलं स्थलं गर्तमथो पन्थानमथवा दिशः ।
न बुबोध तदा पापः श्रान्तः शरणमप्यथ ॥ ८०.१५॥
क्व गच्छामि क्व तिष्ठेयं किं करोमीत्यचिन्तयत् ।
सर्वेषां प्राणिनां प्राणान् आहर्ताहं यथान्तकः ॥ ८०.१६॥
ममाप्यन्तकरं भूतं सम्प्राप्तं चाश्मवर्षणम् ।
त्रातारं नैव पश्यामि शिलां वा वृक्षमन्तिके ॥ ८०.१७॥
एवं बहुविधं व्याधो विचिन्त्यापश्यद् अन्तिके ।
वने वनस्पतिमिव नक्षत्राणां यथात्रिजम् ॥ ८०.१८॥
मृगाणां च यथा सिंहमाश्रमाणां गृहाधिपम् ।
इन्द्रियाणां मन इव त्रातारं प्राणिनां नगम् ॥ ८०.१९॥
श्रेष्ठं विटपिनं शुभ्रं शाखापल्लवमण्डितम् ।
तमाश्रित्योपविष्टोऽभूत् क्लिन्नवासा स लुब्धकः ॥ ८०.२०॥
स्मरन् भार्यामपत्यानि जीवेयुरथवा न वा ।
एतस्मिन्न् अन्तरे तत्र चास्तं प्राप्तो दिवाकरः ॥ ८०.२१॥
तमेव नगमाश्रित्य कपोतो भार्यया सह ।
पुत्रपौत्रैः परिवृतो ह्यास्ते तत्र नगोत्तमे ॥ ८०.२२॥
सुखेन निर्भयो भूत्वा सुतृप्तः प्रीत एव च ।
बहवो वत्सरा याता वसतस्तस्य पक्षिणः ॥ ८०.२३॥
पतिव्रता तस्य भार्या सुप्रीता तेन चैव हि ।
कोटरे तन्नगे श्रेष्ठे जलवाय्वग्निवर्जिते ॥ ८०.२४॥
भार्यापुत्रैः परिवृतः सर्वदास्ते कपोतकः ।
तस्मिन् दिने दैववशात् कपोतश्च कपोतकी ॥ ८०.२५॥
भक्ष्यार्थं तु उभौ यातौ कपोतो नगमभ्यगात् ।
सापि दैववशात् पुत्र पञ्जरस्थैव वर्तते ॥ ८०.२६॥
गृहीता लुब्धकेनाथ जीवमानेव वर्तते ।
कपोतकोऽप्यपत्यानि मातृहीनान्युदीक्ष्य च ॥ ८०.२७॥
वर्षं च भीषणं प्राप्तमस्तं यातो दिवाकरः ।
स्वकोटरं तया हीनमालोक्य विललाप सः ॥ ८०.२८॥
तां बद्धां पञ्जरस्थां वा न बुबोध कपोतराट् ।
अन्वारेभे कपोतो वै प्रियाया गुणकीर्तनम् ॥ ८०.२९॥
नाद्याप्यायाति कल्याणी मम हर्षविवर्धिनी ।
मम धर्मस्य जननी मम देहस्य चेश्वरी ॥ ८०.३०॥