अध्याय 8, Verse 1
लोमहर्षण उवाच ।
सत्यव्रतस्तु भक्त्या च कृपया च प्रतिज्ञया ।
विश्वामित्रकलत्रं तु बभार विनये स्थितः ॥ ८.१॥
Containing 95 sacred Sanskrit shlokas with multi-author commentaries and translations.
लोमहर्षण उवाच ।
सत्यव्रतस्तु भक्त्या च कृपया च प्रतिज्ञया ।
विश्वामित्रकलत्रं तु बभार विनये स्थितः ॥ ८.१॥
हत्वा मृगान् वराहांश्च महिषांश्च वनेचरान् ।
विश्वामित्राश्रमाभ्याशे मांसं वृक्षे बबन्ध च ॥ ८.२॥
उपांशुव्रतमास्थाय दीक्षां द्वादशवार्षिकीम् ।
पितुर्नियोगाद् अवसत् तस्मिन् वनगते नृपे ॥ ८.३॥
अयोध्यां चैव राज्यं च तथैवान्तःपुरं मुनिः ।
याज्योपाध्यायसंयोगाद् वसिष्ठः पर्यरक्षत ॥ ८.४॥
सत्यव्रतस्तु बाल्याच्च भाविनोऽर्थस्य वै बलात् ।
वसिष्ठेऽभ्यधिकं मन्युं धारयामास नित्यशः ॥ ८.५॥
पित्रा हि तं तदा राष्ट्रात् त्यज्यमानं प्रियं सुतम् ।
निवारयामास मुनिर्बहुना कारणेन न ॥ ८.६॥
पाणिग्रहणमन्त्राणां निष्ठा स्यात् सप्तमे पदे ।
न च सत्यव्रतस्तस्माद् धतवान् सप्तमे पदे ॥ ८.७॥
जानन् धर्मं वसिष्ठस्तु न मां त्रातीति भो द्विजाः ।
सत्यव्रतस्तदा रोषं वसिष्ठे मनसाकरोत् ॥ ८.८॥
गुणबुद्ध्या तु भगवान् वसिष्ठः कृतवांस्तथा ।
न च सत्यव्रतस्तस्य तमुपांशुमबुध्यत ॥ ८.९॥
तस्मिन्न् अपरितोषश्च पितुरासीन् महात्मनः ।
तेन द्वादश वर्षाणि नावर्षत् पाकशासनः ॥ ८.१०॥
तेन त्विदानीं विहितां दीक्षां तां दुर्वहां भुवि ।
कुलस्य निष्कृतिर्विप्राः कृता सा वै भवेद् इति ॥ ८.११॥
न तं वसिष्ठो भगवान् पित्रा त्यक्तं न्यवारयत् ।
अभिषेक्ष्याम्यहं पुत्रमस्येत्येवम्मतिर्मुनिः ॥ ८.१२॥
स तु द्वादश वर्षाणि तां दीक्षामवहद् बली ।
अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः ॥ ८.१३॥
सर्वकामदुघां दोग्ध्रीं स ददर्श नृपात्मजः ।
तां वै क्रोधाच्च मोहाच्च श्रमाच्चैव क्षुधान्वितः ॥ ८.१४॥
देशधर्मगतो राजा जघान मुनिसत्तमाः ।
तन्मांसं स स्वयं चैव विश्वामित्रस्य चात्मजान् ॥ ८.१५॥
भोजयामास तच्छ्रुत्वा वसिष्ठोऽप्यस्य चुक्रुधे ॥ ८.१६॥
वसिष्ठ उवाच ।
पातयेयमहं क्रूर तव शङ्कुमसंशयम् ।
यदि ते द्वाविमौ शङ्कू न स्यातां वै कृतौ पुनः ॥ ८.१७॥
पितुश्चापरितोषेण गुरुदोग्ध्रीवधेन च ।
अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ॥ ८.१८॥
एवं त्रीण्यस्य शङ्कूनि तानि दृष्ट्वा महातपाः ।
त्रिशङ्कुरिति होवाच त्रिशङ्कुस्तेन स स्मृतः ॥ ८.१९॥
विश्वामित्रस्य दाराणामनेन भरणं कृतम् ।
तेन तस्मै वरं प्रादान् मुनिः प्रीतस्त्रिशङ्कवे ॥ ८.२०॥
छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः ।
सशरीरो व्रजे स्वर्गमित्येवं याचितो वरः ॥ ८.२१॥
अनावृष्टिभये तस्मिन् गते द्वादशवार्षिके ।
पित्र्ये राज्येऽभिषिच्याथ याजयामास पार्थिवम् ॥ ८.२२॥
मिषतां देवतानां च वसिष्ठस्य च कौशिकः ।
दिवमारोपयामास सशरीरं महातपाः ॥ ८.२३॥
तस्य सत्यरथा नाम पत्नी कैकेयवंशजा ।
कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ॥ ८.२४॥
स वै राजा हरिश्चन्द्रस्त्रैशङ्कव इति स्मृतः ।
आहर्ता राजसूयस्य सम्राड् इति ह विश्रुतः ॥ ८.२५॥
हरिश्चन्द्रस्य पुत्रोऽभूद् रोहितो नाम पार्थिवः ।
हरितो रोहितस्याथ चञ्चुर्हारित उच्यते ॥ ८.२६॥
विजयश्च मुनिश्रेष्ठाश्चञ्चुपुत्रो बभूव ह ।
जेता स सर्वपृथिवीं विजयस्तेन स स्मृतः ॥ ८.२७॥
रुरुकस्तनयस्तस्य राजा धर्मार्थकोविदः ।
रुरुकस्य वृकः पुत्रो वृकाद् बाहुस्तु जज्ञिवान् ॥ ८.२८॥
हैहयास्तालजङ्घाश्च निरस्यन्ति स्म तं नृपम् ।
तत्पत्नी गर्भमादाय और्वस्याश्रममाविशत् ॥ ८.२९॥
नासत्यो धार्मिकश्चैव स ह धर्मयुगेऽभवत् ।
सगरस्तु सुतो बाहोर्यज्ञे सह गरेण वै ॥ ८.३०॥