अध्याय 79, Verse 1
नारद उवाच ।
न मनस्तृप्तिमाधत्ते कथाः शृण्वत् त्वयेरिताः ।
पृथक् तीर्थफलं श्रोतुं प्रवृत्तं मम मानसम् ॥ ७९.१॥
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
नारद उवाच ।
न मनस्तृप्तिमाधत्ते कथाः शृण्वत् त्वयेरिताः ।
पृथक् तीर्थफलं श्रोतुं प्रवृत्तं मम मानसम् ॥ ७९.१॥
क्रमशो ब्राह्मणानीतां गङ्गां मे प्रथमं वद ।
पृथक् तीर्थफलं पुण्यं सेतिहासं यथाक्रमम् ॥ ७९.२॥
ब्रह्मोवाच ।
तीर्थानां च पृथग् भावं फलं माहात्म्यमेव च ।
सर्वं वक्तुं न शक्नोमि न च त्वं श्रवणे क्षमः ॥ ७९.३॥
तथापि किंचिद् वक्ष्यामि शृणु नारद यत्नतः ।
यान्युक्तानि च तीर्थानि श्रुतिवाक्यानि यानि च ॥ ७९.४॥
तानि वक्ष्यामि संक्षेपान् नमस्कृत्वा त्रिलोचनम् ।
यत्रासौ भगवान् आसीत् प्रत्यक्षस्त्र्यम्बको मुने ॥ ७९.५॥
त्र्यम्बकं नाम तत् तीर्थं भुक्तिमुक्तिप्रदायकम् ।
वाराहमपरं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ ७९.६॥
तस्य रूपं प्रवक्ष्यामि नाम विष्णोर्यथाभवत् ।
पुरा देवान् पराभूय यज्ञमादाय राक्षसः ॥ ७९.७॥
रसातलमनुप्राप्तः सिन्धुसेन इति श्रुतः ।
यज्ञे तलमनुप्राप्ते निर्यज्ञा ह्यभवन् मही ॥ ७९.८॥
नायं लोकोऽस्ति न परो यज्ञे नष्ट इतीत्वराः ।
सुरास्तमेव विविशू रसातलमनुद्विषम् ॥ ७९.९॥
नाशक्नुवंस्तु तं जेतुं देवा इन्द्रपुरोगमाः ।
विष्णुं पुराणपुरुषं गत्वा तस्मै न्यवेदयन् ॥ ७९.१०॥
राक्षसस्य तु तत् कर्म यज्ञभ्रंशमशेषतः ।
ततः प्रोवाच भगवान् वाराहं वपुरास्थितः ॥ ७९.११॥
शङ्खचक्रगदापाणिर्गत्वा चैव रसातलम् ।
आनयिष्ये मखं पुण्यं हत्वा राक्षसपुंगवान् ॥ ७९.१२॥
स्वः प्रयान्तु सुराः सर्वे व्येतु वो मानसो ज्वरः ।
येन गङ्गा तलं प्राप्ता पथा तेनैव चक्रधृक् ॥ ७९.१३॥
जगाम तरसा पुत्र भुवं भित्त्वा रसातलम् ।
स वराहवपुः श्रीमान् रसातलनिवासिनः ॥ ७९.१४॥
राक्षसान् दानवान् हत्वा मुखे धृत्वा महाध्वरम् ।
वाराहरूपी भगवान् मखमादाय यज्ञभुक् ॥ ७९.१५॥
येन प्राप तलं विष्णुः पथा तेनैव शत्रुजित् ।
मुखे न्यस्य महायज्ञं निश्चक्राम रसातलात् ॥ ७९.१६॥
तत्र ब्रह्मगिरौ देवाः प्रतीक्षां चक्रिरे हरेः ।
पथस्तस्माद् विनिःसृत्य गङ्गास्रवणमभ्यगात् ॥ ७९.१७॥
प्राक्षालयच्च स्वाङ्गानि असृग्लिप्तानि नारद ।
गङ्गाम्भसा तत्र कुण्डं वाराहमभवत् ततः ॥ ७९.१८॥
मुखे न्यस्तं महायज्ञं देवानां पुरतो हरिः ।
दत्तवांस्त्रिदशश्रेष्ठो मुखाद् यज्ञोऽभ्यजायत ॥ ७९.१९॥
ततः प्रभृति यज्ञाङ्गं प्रधानं स्रुव उच्यते ।
वाराहरूपमभवद् एवं वै कारणान्तरात् ॥ ७९.२०॥
तस्मात् पुण्यतमं तीर्थं वाराहं सर्वकामदम् ।
तत्र स्नानं च दानं च सर्वक्रतुफलप्रदम् ॥ ७९.२१॥
तत्र स्थितोऽपि यः कश्चित् पितृन् स्मरति पुण्यकृत् ।
विमुक्ताः सर्वपापेभ्यः पितरः स्वर्गमाप्नुयुः ॥ ७९.२२॥