अध्याय 78, Verse 1
नारद उवाच ।
द्विविधा सैव गदिता एकापि सुरसत्तम ।
एको भेदस्तु कथितो ब्राह्मणेनाहृतो यतः ॥ ७८.१॥
Containing 77 sacred Sanskrit shlokas with multi-author commentaries and translations.
नारद उवाच ।
द्विविधा सैव गदिता एकापि सुरसत्तम ।
एको भेदस्तु कथितो ब्राह्मणेनाहृतो यतः ॥ ७८.१॥
क्षत्रियेणापरोऽप्यंशो जटास्वेव व्यवस्थितः ।
भवस्य देवदेवस्य आहृतस्तद् वदस्व मे ॥ ७८.२॥
ब्रह्मोवाच ।
वैवस्वतान्वये जात इक्ष्वाकुकुलसम्भवः ।
पुरा वै सगरो नाम राजासीद् अतिधार्मिकः ॥ ७८.३॥
यज्वा दानपरो नित्यं धर्माचारविचारवान् ।
तस्य भार्याद्वयं चासीत् पतिभक्तिपरायणम् ॥ ७८.४॥
तस्य वै संततिर्नाभूद् इति चिन्तापरोऽभवत् ।
वसिष्ठं गृहमाहूय सम्पूज्य विधिवत् ततः ॥ ७८.५॥
उवाच वचनं राजा संततेः कारणं प्रति ।
इति तद्वचनं श्रुत्वा ध्यात्वा राजानमब्रवीत् ॥ ७८.६॥
वसिष्ठ उवाच ।
सपत्नीकः सदा राजन्न् ऋषिपूजापरो भव ॥ ७८.७॥
ब्रह्मोवाच ।
इत्युक्त्वा स मुनिर्विप्र यथास्थानं जगाम ह ।
एकदा तस्य राजर्षेर्गृहमागात् तपोनिधिः ॥ ७८.८॥
तस्यर्षेः पूजनं चक्रे स संतुष्टोऽब्रवीद् वचम् ।
वरं ब्रूहि महाभागेत्युक्ते पुत्रान् स चावृणोत् ॥ ७८.९॥
स मुनिः प्राह राजानमेकस्यां वंशधारकः ।
पुत्रो भूयात् तथान्यस्यां षष्टिसाहस्रकं सुताः ॥ ७८.१०॥
वरं दत्त्वा मुनौ याते पुत्रा जाताः सहस्रशः ।
स यज्ञान् सुबहूंश्चक्रे हयमेधान् सुदक्षिणान् ॥ ७८.११॥
एकस्मिन् हयमेधे वै दीक्षितो विधिवन् नृपः ।
पुत्रान् न्ययोजयद् राजा ससैन्यान् हयरक्षणे ॥ ७८.१२॥
क्वचिद् अन्तरमासाद्य हयं जह्रे शतक्रतुः ।
मार्गमाणाश्च ते पुत्रा नैवापश्यन् हयं तदा ॥ ७८.१३॥
सहस्राणां तथा षष्टिर्नानायुद्धविशारदाः ।
तेषु पश्यत्सु रक्षांसि पुत्रेषु सगरस्य हि ॥ ७८.१४॥
प्रोक्षितं तद् धयं नीत्वा ते रसातलमागमन् ।
राक्षसान् मायया युक्तान् नैवापश्यन्त सागराः ॥ ७८.१५॥
न दृष्ट्वा ते हयं पुत्राः सगरस्य बलीयसः ।
इतश्चेतश्चरन्तस्ते नैवापश्यन् हयं तदा ॥ ७८.१६॥
देवलोकं तदा जग्मुः पर्वतांश्च सरांसि च ।
वनानि च विचिन्वन्तो नैवापश्यन् हयं तदा ॥ ७८.१७॥
कृतस्वस्त्ययनो राजा ऋत्विग्भिः कृतमङ्गलः ।
अदृष्ट्वा तु पशुं रम्यं राजा चिन्तामुपेयिवान् ॥ ७८.१८॥
अटन्तः सागराः सर्वे देवलोकमुपागमन् ।
हयं तमनुचिन्वन्तस्तत्रापि न हयोऽभवत् ॥ ७८.१९॥
ततो महीं समाजग्मुः पर्वतांश्च वनानि च ।
तत्रापि च हयं नैव दृष्टवन्तो नृपात्मजाः ॥ ७८.२०॥
एतस्मिन्न् अन्तरे तत्र दैवी वाग् अभवत् तदा ।
रसातले हयो बद्ध आस्ते नान्यत्र सागराः ॥ ७८.२१॥
इति श्रुत्वा ततो वाक्यं गन्तुकामा रसातलम् ।
अखनन् पृथिवीं सर्वां परितः सागरास्ततः ॥ ७८.२२॥
ते क्षुधार्ता मृदं शुष्कां भक्षयन्तस्त्वहर्निशम् ।
न्यखनंश्चापि जग्मुश्च सत्वरास्ते रसातलम् ॥ ७८.२३॥
तान् आगतान् भूपसुतान् सागरान् बलिनः कृतीन् ।
श्रुत्वा रक्षांसि संत्रस्ता व्यगमन् कपिलान्तिकम् ॥ ७८.२४॥
कपिलोऽपि महाप्राज्ञस्तत्र शेते रसातले ।
पुरा च साधितं तेन देवानां कार्यमुत्तमम् ॥ ७८.२५॥
विनिद्रेण ततः श्रान्तः सिद्धे कार्ये सुरान् प्रति ।
अब्रवीत् कपिलः श्रीमान् निद्रास्थानं प्रयच्छथ ॥ ७८.२६॥
रसातलं ददुस्तस्मै पुनराह सुरान् मुनिः ।
यो मामुत्थापयेन् मन्दो भस्मी भूयाच्च सत्वरम् ॥ ७८.२७॥
ततः शये तलगतो नो चेन् न स्वप्न एव हि ।
तथेत्युक्तः सुरगणैस्तत्र शेते रसातले ॥ ७८.२८॥
तस्य प्रभावं ते ज्ञात्वा राक्षसा मायया युताः ।
सागराणां च सर्वेषां वधोपायं प्रचक्रिरे ॥ ७८.२९॥
विना युद्धेन ते भीता राक्षसाः सत्वरास्तदा ।
आगत्य यत्र स मुनिः कपिलः कोपनो महान् ॥ ७८.३०॥