अध्याय 77, Verse 1
ब्रह्मोवाच ।
त्र्यम्बकश्च इति प्राह गौतमं मुनिभिर्वृतम् ॥ ७७.१॥
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
त्र्यम्बकश्च इति प्राह गौतमं मुनिभिर्वृतम् ॥ ७७.१॥
शिव उवाच ।
द्विहस्तमात्रे तीर्थानि सम्भविष्यन्ति गौतम ।
सर्वत्राहं संनिहितः सर्वकामप्रदस्तथा ॥ ७७.२॥
ब्रह्मोवाच ।
गङ्गाद्वारे प्रयागे च तथा सागरसंगमे ।
एतेषु पुण्यदा पुंसां मुक्तिदा सा भगीरथी ॥ ७७.३॥
नर्मदा तु सरिच्छ्रेष्ठा पर्वतेऽमरकण्टके ।
यमुना संगता तत्र प्रभासे तु सरस्वती ॥ ७७.४॥
कृष्णा भीमरथी चैव तुङ्गभद्रा तु नारद ।
तिसृणां संगमो यत्र तत् तीर्थं मुक्तिदं नृणाम् ॥ ७७.५॥
पयोउष्णी संगता यत्र तत्रत्या तच्च मुक्तिदम् ।
इयं तु गौतमी वत्स यत्र क्वापि ममाज्ञया ॥ ७७.६॥
सर्वेषां सर्वदा नृणां स्नानान् मुक्तिं प्रदास्यति ।
किंचित्काले पुण्यतमं किंचित्तीर्थं सुरागमे ॥ ७७.७॥
सर्वेषां सर्वदा तीर्थं गौतमी नात्र संशयः ।
तिस्रः कोट्योऽर्धकोटी च योजनानां शतद्वये ॥ ७७.८॥
तीर्थानि मुनिशार्दूल सम्भविष्यन्ति गौतम ।
इयं माहेश्वरी गङ्गा गौतमी वैष्णवीति च ॥ ७७.९॥
ब्राह्मी गोदावरी नन्दा सुनन्दा कामदायिनी ।
ब्रह्मतेजःसमानीता सर्वपापप्रणाशनी ॥ ७७.१०॥
स्मरणाद् एव पापौघ+ अन्त्री मम सदा प्रिया ।
पञ्चानामपि भूतानामापः श्रेष्ठत्वमागताः ॥ ७७.११॥
तत्रापि तीर्थभूतास्तु तस्माद् आपः पराः स्मृताः ।
तासां भागीरथी श्रेष्ठा ताभ्योऽपि गौतमी तथा ॥ ७७.१२॥
आनीता सजटा गङ्गा अस्या नान्यच्छुभावहम् ।
स्वर्गे भुवि तले वापि तीर्थं सर्वार्थदं मुने ॥ ७७.१३॥
ब्रह्मोवाच ।
इत्येतत् कथितं पुत्र गौतमाय महात्मने ।
साक्षाद् धरेण तुष्टेन मया तव निवेदितम् ॥ ७७.१४॥
एवं सा गौतमी गङ्गा सर्वेभ्योऽप्यधिका मता ।
तत्स्वरूपं च कथितं कुतोऽन्या श्रवणस्पृहा ॥ ७७.१५॥