अध्याय 76, Verse 1
नारद उवाच ।
महेश्वरजटाजुटाद् गङ्गामादाय गौतमः ।
आगत्य ब्रह्मणः पुण्ये ततः किमकरोद् गिरौ ॥ ७६.१॥
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
नारद उवाच ।
महेश्वरजटाजुटाद् गङ्गामादाय गौतमः ।
आगत्य ब्रह्मणः पुण्ये ततः किमकरोद् गिरौ ॥ ७६.१॥
ब्रह्मोवाच ।
आदाय गौतमो गङ्गां शुचिः प्रयतमानसः ।
पूजितो देवगन्धर्वैस्तथा गिरिनिवासिभिः ॥ ७६.२॥
गिरेर्मूर्ध्नि जटां स्थाप्य स्मरन् देवं त्रिलोचनम् ।
उवाच प्राञ्जलिर्भूत्वा गङ्गां स द्विजसत्तमः ॥ ७६.३॥
गौतम उवाच ।
त्रिलोचनजटोद्भूते सर्वकामप्रदायिनि ।
क्षमस्व मातः शान्तासि सुखं याहि हितं कुरु ॥ ७६.४॥
ब्रह्मोवाच ।
एवमुक्ता गौतमेन गङ्गा प्रोवाच गौतमम् ।
दिव्यरूपधरा देवी दिव्यस्रगनुलेपना ॥ ७६.५॥
गङ्गोवाच ।
गच्छेयं देवसदनमथवापि कमण्डलुम् ।
रसातलं वा गच्छेयं जातस्त्वं सत्यवाग् असि ॥ ७६.६॥
गौतम उवाच ।
त्रयाणामुपकारार्थं लोकानां याचिता मया ।
शम्भुना च तथा दत्ता देवि तन् नान्यथा भवेत् ॥ ७६.७॥
ब्रह्मोवाच ।
तद् गौतमवचः श्रुत्वा गङ्गा मेने द्विजेरितम् ।
त्रेधात्मानं विभज्याथ स्वर्गमर्त्यरसातले ॥ ७६.८॥
स्वर्गे चतुर्धा व्यगमत् सप्तधा मर्त्यमण्डले ।
रसातले चतुर्धैव सैवं पञ्चदशाकृतिः ॥ ७६.९॥
सर्वत्र सर्वभूतैव सर्वपापविनाशिनी ।
सर्वकामप्रदा नित्यं सैव वेदे प्रगीयते ॥ ७६.१०॥
मर्त्या मर्त्यगतामेव पश्यन्ति न तलं गताम् ।
नैव स्वर्गगतां मर्त्याः पश्यन्त्यज्ञानबुद्धयः ॥ ७६.११॥
यावत् सागरगा देवी तावद् देवमयी स्मृता ।
उत्सृष्टा गौतमेनैव प्रायात् पूर्वार्णवं प्रति ॥ ७६.१२॥
ततो देवर्षिभिर्जुष्टां मातरं जगतः शुभाम् ।
गौतमो मुनिशार्दूलः प्रदक्षिणमथाकरोत् ॥ ७६.१३॥
त्रिलोचनं सुरेशानं प्रथमं पूज्य गौतमः ।
उभयोस्तीरयोः स्नानं करोमीति दधे मतिम् ॥ ७६.१४॥
स्मृतमात्रस्तदा तत्र *आविरासीत् करुणार्णवः ।
तत्र स्नानं कथं सिध्येद् इत्येवं शर्वमब्रवीत् ॥ ७६.१५॥
कृताञ्जलिपुटो भूत्वा भक्तिनम्रस्त्रिलोचनम् ॥ ७६.१६॥
गौतम उवाच ।
देवदेव महेशान तीर्थस्नानविधिं मम ।
ब्रूहि सम्यङ् महेशान लोकानां हितकाम्यया ॥ ७६.१७॥
शिव उवाच ।
महर्षे शृणु सर्वं च विधिं गोदावरीभवम् ।
पूर्वं नान्दीमुखं कृत्वा देहशुद्धिं विधाय च ॥ ७६.१८॥
ब्राह्मणान् भोजयित्वा च तेषामाज्ञां प्रगृह्य च ।
ब्रह्मचर्येण गच्छन्ति पतितालापवर्जिताः ॥ ७६.१९॥
यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ।
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ ७६.२०॥
भावदुष्टिं परित्यज्य स्वधर्मपरिनिष्ठितः ।
श्रान्तसंवाहनं कुर्वन् दद्याद् अन्नं यथोचितम् ॥ ७६.२१॥
अकिंचनेभ्यः साधुभ्यो दद्याद् वस्त्राणि कम्बलान् ।
शृण्वन् हरिकथां दिव्यां तथा गङ्गासमुद्भवाम् ।
अनेन विधिना गच्छन् सम्यक् तीर्थफलं लभेत् ॥ ७६.२२॥