अध्याय 75, Verse 1
नारद उवाच ।
कैलासशिखरं गत्वा गौतमो भगवान् ऋषिः ।
किं चकार तपो वापि कां चक्रे स्तुतिमुत्तमाम् ॥ ७५.१॥
Containing 50 sacred Sanskrit shlokas with multi-author commentaries and translations.
नारद उवाच ।
कैलासशिखरं गत्वा गौतमो भगवान् ऋषिः ।
किं चकार तपो वापि कां चक्रे स्तुतिमुत्तमाम् ॥ ७५.१॥
ब्रह्मोवाच ।
गिरिं गत्वा ततो वत्स वाचं संयम्य गौतमः ।
आस्तीर्य स कुशान् प्राज्ञः कैलासे पर्वतोत्तमे ॥ ७५.२॥
उपविश्य शुचिर्भूत्वा स्तोत्रं चेदं ततो जगौ ।
अपतत् पुष्पवृष्टिश्च स्तूयमाने महेश्वरे ॥ ७५.३॥
गौतम उवाच ।
भोगार्थिनां भोगमभीप्सितं च ।
दातुं महान्त्यष्टवपूंषि धत्ते ।
सोमो जनानां गुणवन्ति नित्यम् ।
देवं महादेवमिति स्तुवन्ति ॥ ७५.४॥
कर्तुं स्वकीयैर्विषयैः सुखानि ।
भर्तुं समस्तं सचराचरं च ।
सम्पत्तये ह्यस्य विवृद्धये च ।
महीमयं रूपमितीश्वरस्य ॥ ७५.५॥
सृष्टेः स्थितेः संहरणाय भूमेर् ।
आधारमाधातुमपां स्वरूपम् ।
भेजे शिवः शान्ततनुर्जनानाम् ।
सुखाय धर्माय जगत् प्रतिष्ठितम् ॥ ७५.६॥
कालव्यवस्थाममृतस्रवं च ।
जीवस्थितिं सृष्टिमथो विनाशनम् ।
मुदं प्रजानां सुखमुन्नतिं च ।
चक्रेऽर्कचन्द्राग्निमयं शरीरम् ॥ ७५.७॥
वृद्धिं गतिं शक्तिमथाक्षराणि ।
जीवव्यवस्थां मुदमप्यनेकाम् ।
स्रष्टुं कृतं वायुरितीशरूपम् ।
त्वं वेत्सि नूनं भगवन् भवन्तम् ॥ ७५.८॥
भेदैर्विना नैव कृतिर्न धर्मो ।
नात्मीयमन्यन् न दिशोऽन्तरिक्षम् ।
द्यावापृथिव्यौ न च भुक्तिमुक्ती ।
तस्माद् इदं व्योमवपुस्तवेश ॥ ७५.९॥
धर्मं व्यवस्थापयितुं व्यवस्य ।
ऋक्सामशास्त्राणि यजुश्च शाखाः ।
लोके च गाथाः स्मृतयः पुराणम् ।
इत्यादिशब्दात्मकतामुपैति ॥ ७५.१०॥
यष्टा क्रतुर्यान्यपि साधनानि ।
ऋत्विक्प्रदेशं फलदेशकालाः ।
त्वमेव शम्भो परमार्थतत्त्वम् ।
वदन्ति यज्ञाङ्गमयं वपुस्ते ॥ ७५.११॥
कर्ता प्रदाता प्रतिभूः प्रदानम् ।
सर्वज्ञसाक्षी पुरुषः परश्च ।
प्रत्यात्मभूतः परमार्थरूपस्- ।
त्वमेव सर्वं किमु वाग्विलासैः ॥ ७५.१२॥
न वेदशास्त्रैर्गुरुभिः प्रदिष्टो ।
न नासि बुद्ध्यादिभिरप्रधृष्यः ।
अजोऽप्रमेयः शिवशब्दवाच्यस्- ।
त्वमस्ति सत्यं भगवन् नमस्ते ॥ ७५.१३॥
आत्मैकतां स्वप्रकृतिं कदाचिद् ।
ऐक्षच्छिवः सम्पद् इयं ममेति ।
पृथक् तदैवाभवद् अप्रतर्क्य+ ।
अचिन्त्यप्रभावो बहुविश्वमूर्तिः ॥ ७५.१४॥
भावेऽभिवृद्धा च भवे भवे च ।
स्वकारणं कारणमास्थिता च ।
नित्या शिवा सर्वसुलक्षणा वा ।
विलक्षणा विश्वकरस्य शक्तिः ॥ ७५.१५॥
उत्पादनं संस्थितिरन्नवृद्धि+ ।
लयाः सतां यत्र सनातनास्ते ।
एकैव मूर्तिर्न समस्ति किंचिद् ।
असाध्यमस्या दयिता हरस्य ॥ ७५.१६॥
यदर्थमन्नानि धनानि जीवा ।
यच्छन्ति कुर्वन्ति तपांसि धर्मान् ।
सापीयमम्बा जगतो जनित्री ।
प्रिया तु सोमस्य महासुकीर्तिः ॥ ७५.१७॥
यद् ईक्षितं काङ्क्षति वासवोऽपि ।
यन्नामतो मङ्गलमाप्नुयाच्च ।
या व्याप्य विश्वं विमलीकरोति ।
सोमा सदा सोमसमानरूपा ॥ ७५.१८॥
ब्रह्मादिजीवस्य चराचरस्य ।
बुद्ध्यक्षिचैतन्यमनःसुखानि ।
यस्याः प्रसादात् फलवन्ति नित्यम् ।
वागीश्वरी लोकगुरोः सुरम्या ॥ ७५.१९॥
चतुर्मुखस्यापि मनो मलीनम् ।
किमन्यजन्तोरिति चिन्त्य माता ।
गङ्गावतारं विविधैरुपायैः ।
सर्वं जगत् पावयितुं चकार ॥ ७५.२०॥
श्रुतीः समालक्ष्य हरप्रभुत्वम् ।
विश्वस्य लोकः सकलैः प्रमाणैः ।
कृत्वा च धर्मान् बुभुजे च भोगान् ।
विभूतिरेषा तु सदाशिवस्य ॥ ७५.२१॥
कार्यक्रियाकारकसाधनानाम् ।
वेदोदितानामथ लौकिकानाम् ।
यत् साध्यमुत्कृष्टतमं प्रियं च ।
प्रोक्ता च सा सिद्धिरनादिकर्तुः ॥ ७५.२२॥
ध्यात्वा वरं ब्रह्म परं प्रधानम् ।
यत् सारभूतं यद् उपासितव्यम् ।
यत् प्राप्य मुक्ता न पुनर्भवन्ति ।
सद्योगिनो मुक्तिरुमापतिः सः ॥ ७५.२३॥
यथा यथा शम्भुरमेयमाया+ ।
रूपाणि धत्ते जगतो हिताय ।
तद्योगयोग्यानि तथैव धत्से ।
पतिव्रतात्वं त्वयि मातरेवम् ॥ ७५.२४॥
ब्रह्मोवाच ।
इत्येवं स्तुवतस्तस्य पुरस्ताद् वृषभध्वजः ।
उमया सहितः श्रीमान् गणेशादिगणैर्वृतः ॥ ७५.२५॥
साक्षाद् आगत्य तं शम्भुः प्रसन्नो वाक्यमब्रवीत् ॥ ७५.२६॥
शिव उवाच ।
किं ते गौतम दास्यामि भक्तिस्तोत्रव्रतैः शुभैः ।
परितुष्टोऽस्मि याचस्व देवानामपि दुष्करम् ॥ ७५.२७॥
ब्रह्मोवाच ।
इति श्रुत्वा जगन्मूर्तेर्वाक्यं वाक्यविशारदः ।
हर्षबाष्पपरीताङ्गो गौतमः पर्यचिन्तयत् ॥ ७५.२८॥
अहो दैवमहो धर्मो ह्यहो वै विप्रपूजनम् ।
अहो लोकगतिश्चित्रा अहो धातर्नमोऽस्तु ते ॥ ७५.२९॥
गौतम उवाच ।
जटास्थितां शुभां गङ्गां देहि मे त्रिदशार्चित ।
यदि तुष्टोऽसि देवेश त्रयीधाम नमोऽस्तु ते ॥ ७५.३०॥