अध्याय 74, Verse 1
नारद उवाच ।
कमण्डलुस्थिता देवी महेश्वरजटागता ।
श्रुता देव यथा मर्त्यमागता तद् ब्रवीतु मे ॥ ७४.१॥
Containing 87 sacred Sanskrit shlokas with multi-author commentaries and translations.
नारद उवाच ।
कमण्डलुस्थिता देवी महेश्वरजटागता ।
श्रुता देव यथा मर्त्यमागता तद् ब्रवीतु मे ॥ ७४.१॥
ब्रह्मोवाच ।
महेश्वरजटास्था या आपो देव्यो महामते ।
तासां च द्विविधो भेद आहर्तुर्द्वयकारणात् ॥ ७४.२॥
एकांशो ब्राह्मणेनात्र व्रतदानसमाधिना ।
गोतमेन शिवं पूज्य आहृतो लोकविश्रुतः ॥ ७४.३॥
अपरस्तु महाप्राज्ञ क्षत्रियेण बलीयसा ।
आराध्य शंकरं देवं तपोभिर्नियमैस्तथा ॥ ७४.४॥
भगीरथेन भूपेन आहृतोऽंशो अपरस्तथा ।
एवं द्वैरूप्यमभवद् गङ्गाया मुनिसत्तम ॥ ७४.५॥
नारद उवाच ।
महेश्वरजटास्था या हेतुना केन गौतमः ।
आहर्ता क्षत्रियेणापि आहृता केन तद् वद ॥ ७४.६॥
ब्रह्मोवाच ।
यथानीता पुरा वत्स ब्राह्मणेनेतरेण वा ।
तत् सर्वं विस्तरेणाहं वदिष्ये प्रीतये तव ॥ ७४.७॥
यस्मिन् काले सुरेशस्य उमा पत्न्यभवत् प्रिया ।
तस्मिन्न् एवाभवद् गङ्गा प्रिया शम्भोर्महामते ॥ ७४.८॥
मम दोषापनोदाय चिन्तयानः शिवस्तदा ।
उमया सहितः श्रीमान् देवीं प्रेक्ष्य विशेषतः ॥ ७४.९॥
रसवृत्तौ स्थितो यस्मान् निर्ममे रसमुत्तमम् ।
रसिकत्वात् प्रियत्वाच्च स्त्रैणत्वात् पावनत्वतः ॥ ७४.१०॥
सर्वाभ्यो ह्यधिकप्रीतिर्गङ्गाभूद् द्विजसत्तम ।
सैवोद्भूता जटामार्गात् कस्मिंश्चित् कारणान्तरे ।
स तु संगोपयामास गङ्गां शम्भुर्जटागताम् ॥ ७४.१२॥
शिरसा च धृतां ज्ञात्वा न शशाक उमा तदा ।
सोढुं ब्रह्मञ् जटाजूटे स्थितां दृष्ट्वा पुनः पुनः ॥ ७४.१३॥
अमर्षेण भवं गोरी प्रेरयस्वेत्यभाषत ।
नैवासौ प्रैरयच्छम्भू रसिको रसमुत्तमम् ॥ ७४.१४॥
जटास्वेव तदा देवीं गोपायन्तं विमृश्य सा ।
विनायकं जयां स्कन्दं रहो वचनमब्रवीत् ॥ ७४.१५॥
नैवायं त्रिदशेशानो गङ्गां त्यजति कामुकः ।
सापि प्रिया शिवस्याद्य कथं त्यजति तां प्रियाम् ॥ ७४.१६॥
एवं विमृश्य बहुशो गौरी चाह विनायकम् ॥ ७४.१७॥
पार्वत्युवाच ।
न देवैर्नासुरैर्यक्षैर्न सिद्धैर्भवतापि च ।
न राजभिरथान्यैर्वा न गङ्गां त्यजति प्रभुः ॥ ७४.१८॥
पुनस्तप्स्यामि वा गत्वा हिमवन्तं नगोत्तमम् ।
अथवा ब्राह्मणैः पुण्यैस्तपोभिर्हतकल्मषैः ॥ ७४.१९॥
तैर्वा जटास्थिता गङ्गा प्रार्थिता भुवमाप्नुयात् ॥ ७४.२०॥
ब्रह्मोवाच ।
एतच्छ्रुत्वा मातृवाक्यं मातरं प्राह विघ्नराट् ।
भ्रात्रा स्कन्देन जयया सम्मन्त्र्येह च युज्यते ॥ ७४.२१॥
तत् कुर्मो मस्तकाद् गङ्गां यथा त्यजति मे पिता ।
एतस्मिन्न् अन्तरे ब्रह्मन्न् अनावृष्टिरजायत ॥ ७४.२२॥
द्विर्द्वादश समा मर्त्ये सर्वप्राणिभयावहा ।
ततो विनष्टमभवज्जगत् स्थावरजङ्गमम् ॥ ७४.२३॥
विना तु गौतमं पुण्यमाश्रमं सर्वकामदम् ।
स्रष्टुकामः पुरा पुत्र स्थावरं जङ्गमं तथा ॥ ७४.२४॥
कृतो यज्ञो मया पूर्वं स देवयजनो गिरिः ।
मन्नामा तत्र विख्यातस्ततो ब्रह्मगिरिः सदा ॥ ७४.२५॥
तमाश्रित्य नगश्रेष्ठं सर्वदास्ते स गौतमः ।
तस्याश्रमे महापुण्ये श्रेष्ठे ब्रह्मगिरौ शुभे ॥ ७४.२६॥
आधयो व्याधयो वापि दुर्भिक्षं वाप्यवर्षणम् ।
भयशोकौ च दारिद्र्यं न श्रूयन्ते कदाचन ॥ ७४.२७॥
तदाश्रमं विनान्यत्र हव्यं वा कव्यमेव च ।
नास्ति पुत्र तथा दाता होता यष्टा तथैव च ॥ ७४.२८॥
यदैव गौतमो विप्रो ददाति च जुहोति च ।
तदैवाप्ययनं स्वर्गे सुराणामपि नान्यतः ॥ ७४.२९॥
देवलोकेऽपि मर्त्ये वा श्रूयते गौतमो मुनिः ।
होता दाता च भोक्ता च स एवेति जना विदुः ॥ ७४.३०॥
तच्छ्रुत्वा मुनयः सर्वे नानाश्रमनिवासिनः ।
गौतमाश्रममापृच्छन्न् आगच्छन्तस्तपोधनाः ॥ ७४.३१॥