अध्याय 73, Verse 1
नारद उवाच ।
कमण्डलुस्थिता देवी तव पुण्यविवर्धिनी ।
यथा मर्त्यं गता नाथ तन् मे विस्तरतो वद ॥ ७३.१॥
Containing 69 sacred Sanskrit shlokas with multi-author commentaries and translations.
नारद उवाच ।
कमण्डलुस्थिता देवी तव पुण्यविवर्धिनी ।
यथा मर्त्यं गता नाथ तन् मे विस्तरतो वद ॥ ७३.१॥
ब्रह्मोवाच ।
बलिर्नाम महादैत्यो देवारिरपराजितः ।
धर्मेण यशसा चैव प्रजासंरक्षणेन च ॥ ७३.२॥
गुरुभक्त्या च सत्येन वीर्येण च बलेन च ।
त्यागेन क्षमया चैव त्रैलोक्ये नोपमीयते ॥ ७३.३॥
तस्यर्द्धिमुन्नतां दृष्ट्वा देवाश्चिन्तापरायणाः ।
मिथः समूचुरमरा जेष्यामो वै कथं बलिम् ॥ ७३.४॥
तस्मिञ् शासति राज्यं तु त्रैलोक्यं हतकण्टकम् ।
नारयो व्याधयो वापि नाधयो वा कथंचन ॥ ७३.५॥
अनावृष्टिरधर्मो वा नास्तिशब्दो न दुर्जनः ।
स्वप्नेऽपि नैव दृश्येत बलौ राज्यं प्रशासति ॥ ७३.६॥
तस्योन्नतिशरैर्भग्नाः कीर्तिखड्गद्विधाकृताः ।
तस्याज्ञाशक्तिभिन्नाङ्गा देवाः शर्म न लेभिरे ॥ ७३.७॥
ततः सम्मन्त्रयामासुः कृत्वा मात्सर्यमग्रतः ।
तद्यशोग्निप्रदीप्ताङ्गा विष्णुं जग्मुः सुविह्वलाः ॥ ७३.८॥
देवा ऊचुः ।
आर्ताः स्म गतसत्त्वाः स्म शङ्खचक्रगदाधर ।
अस्मदर्थे भवान् नित्यमायुधानि बिभर्ति च ॥ ७३.९॥
त्वयि नाथे जगन्नाथ अस्माकं दुःखमीदृशम् ।
त्वां तु प्रणमती वाणी कथं दैत्यं नमस्यति ॥ ७३.१०॥
मनसा कर्मणा वाचा त्वामेव शरणं गताः ।
त्वदङ्घ्रिशरणाः सन्तः कथं दैत्यं नमेमहि ॥ ७३.११॥
यजामस्त्वां महायज्ञैर्वदामो वाग्भिरच्युत ।
त्वदेकशरणाः सन्तः कथं दैत्यं नमेमहि ॥ ७३.१२॥
त्वद्वीर्यमाश्रिता नित्यं देवाः सेन्द्रपुरोगमाः ।
त्वया दत्तं पदं प्राप्य कथं दैत्यं नमेमहि ॥ ७३.१३॥
स्रष्टा त्वं ब्रह्ममूर्त्या तु विष्णुर्भूत्वा तु रक्षसि ।
संहर्ता रुद्रशक्त्या त्वं कथं दैत्यं नमेमहि ॥ ७३.१४॥
ऐश्वर्यं कारणं लोके विनैश्वर्यं तु किं फलम् ।
हतैश्वर्याः सुरेशान कथं दैत्यं नमेमहि ॥ ७३.१५॥
अनादिस्त्वं जगद्धातरनन्तस्त्वं जगद्गुरुः ।
अन्तवन्तममुं शत्रुं कथं दैत्यं नमेमहि ॥ ७३.१६॥
तवैश्वर्येण पुष्टाङ्गा जित्वा त्रैलोक्यमोजसा ।
स्थिराः स्यामः सुरेशान कथं दैत्यं नमेमहि ॥ ७३.१७॥
ब्रह्मोवाच ।
इत्येतद् एव वचनं श्रुत्वा दैतेयसूदनः ।
उवाच सर्वान् अमरान् देवानां कार्यसिद्धये ॥ ७३.१८॥
श्रीभगवान् उवाच ।
मद्भक्तोऽसौ बलिर्दैत्यो यथा भवन्तो मत्पोष्यास्तथा पोष्यो बलिर्मम ॥ ७३.१९॥
विना तु संगरं देवा हत्वा राज्यं त्रिविष्टपे ।
बलिं निबध्य मन्त्रोक्त्या राज्यं वः प्रददाम्यहम् ॥ ७३.२०॥
ब्रह्मोवाच ।
तथेत्युक्त्वा सुरगणाः संजग्मुर्दिवमेव हि ।
भगवान् अपि देवेशो ह्यदित्या गर्भमाविशत् ॥ ७३.२१॥
तस्मिन्न् उत्पद्यमाने तु उत्सवाश्च बभूविरे ।
जातोऽसौ वामनो ब्रह्मन् यज्ञेशो यज्ञपूरुषः ॥ ७३.२२॥
एतस्मिन्न् अन्तरे ब्रह्मन् हयमेधाय दीक्षितः ।
बलिर्बलवतां श्रेष्ठ ऋषिमुख्यैः समाहितः ॥ ७३.२३॥
पुरोधसा च शुक्रेण वेदवेदाङ्गवेदिना ।
मखे तस्मिन् वर्तमाने यजमाने बलौ तथा ॥ ७३.२४॥
आर्त्विज्य ऋषिमुख्ये तु शुक्रे तत्र पुरोधसि ।
हविर्भागार्थमासन्न+ ।
देवगन्धर्वपन्नगे ॥ ७३.२५॥
दीयतां भुज्यतां पूजा क्रियतां च पृथक् पृथक् ।
परिपूर्णं पुनः पूर्णमेवं वाक्ये प्रवर्तति ॥ ७३.२६॥
शनैस्तद्देशमभ्यागाद् वामनः सामगायनः ।
यज्ञवाटमनुप्राप्तो वामनश्चित्रकुण्डलः ॥ ७३.२७॥
प्रशंसमानस्तं यज्ञं वामनं प्रेक्ष्य भार्गवः ।
ब्रह्मरूपधरं देवं वामनं दैत्यसूदनम् ॥ ७३.२८॥
दातारं यज्ञतपसां फलं हन्तारं रक्षसाम् ।
ज्ञात्वा त्वरन्न् अथोवाच राजानं भूरितेजसम् ॥ ७३.२९॥
जेतारं क्षत्रधर्मेण दातारं भक्तितो धनम् ।
बलिं बलवतां श्रेष्ठं सभार्यं दीक्षितं मखे ॥ ७३.३०॥