अध्याय 72, Verse 1
ब्रह्मोवाच ।
हिमवत्पर्वते श्रेष्ठे नानारत्नविचित्रिते ।
नानावृक्षलताकीर्णे नानाद्विजनिषेविते ॥ ७२.१॥
Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
हिमवत्पर्वते श्रेष्ठे नानारत्नविचित्रिते ।
नानावृक्षलताकीर्णे नानाद्विजनिषेविते ॥ ७२.१॥
नदीनदसरःकूप+ ।
तडागादिभिरावृते ।
देवगन्धर्वयक्षादि+ ।
सिद्धचारणसेविते ॥ ७२.२॥
शुभमारुतसम्पन्ने हर्षोत्कर्षैककारणे ।
मेरुमन्दरकैलास+ ंऐनाकादिनगैर्वृते ॥ ७२.३॥
वसिष्ठागस्त्यपौलस्त्य+ ।
लोमशादिभिरावृते ।
महोत्सवे वर्तमाने विवाहः समजायत ॥ ७२.४॥
तत्र वेदी रत्नमयी शोभिता स्वर्णभूषिता ।
वज्रमाणिक्यवैदूर्य+ ।
तन्मयस्तम्भशोभिता ॥ ७२.५॥
जयालक्ष्मीशुभाक्षान्ति+ ।
कीर्तिपुष्ट्यादिसंवृता ।
मेरुमन्दरकैलास+ ।
रैवतैः परिशोभितैः ॥ ७२.६॥
पूजितो लोकनाथेन विष्णुना प्रभविष्णुना ।
मैनाकः पर्वतश्रेष्ठो रेजेऽतीव हिरण्मयः ॥ ७२.७॥
ऋषयो लोकपालाश्च आदित्याः समरुद्गणाः ।
विवाहे वेदिकां चक्रुर्देवदेवस्य शूलिनः ॥ ७२.८॥
विश्वकर्मा स्वयं त्वष्टा वेदीं चक्रे सतोरणाम् ।
सुरभी नन्दिनी नन्दा सुनन्दा कामदोहिनी ॥ ७२.९॥
आभिस्तु शोभितेशान्या विवाहः समजायत ।
समुद्राः सरितो नागा ओषध्यो लोकमातरः ॥ ७२.१०॥
सवनस्पतिबीजाश्च सर्वे तत्र समाययुः ।
भुवः कर्म इला चक्रे ओषध्यस्त्वन्नकर्म च ॥ ७२.११॥
वरुणः पानकर्माणि दानकर्म धनाधिपः ।
अग्निश्चकार तत्रान्नं यच्चेष्टं लोकनाथयोः ॥ ७२.१२॥
तत्र तत्र पृथक् पूजां चक्रे विष्णुः सनातनः ।
वेदाश्च सरहस्या वै गायन्ति च हसन्ति ॥ ७२.१३॥
नृत्यन्त्यप्सरसः सर्वा जगुर्गन्धर्वकिंनराः ।
लाजाधृक् चापि मैनाको बभूव मुनिसत्तम ॥ ७२.१४॥
पुण्याहवाचनं वृत्तमन्तर्वेश्मनि नारद ।
वेदिकायामुपाविष्टौ दम्पती सुरसत्तमौ ॥ ७२.१५॥
प्रतिष्ठाप्याग्निं विधिवद् अश्मानं चापि पुत्रक ।
हुत्वा लाजांश्च विधिवत् प्रदक्षिणमथाकरोत् ॥ ७२.१६॥
अश्मनः स्पर्शहेतोश्च देव्यङ्गुष्ठं करेऽस्पृशत् ।
विष्णुना प्रेरितः शम्भुर्दक्षिणस्य पदस्य च ॥ ७२.१७॥
तामदर्शमहं तत्र होमं कुर्वन् हरान्तिके ।
दृष्टेऽङ्गुष्ठे दुष्टबुद्ध्या वीर्यं सुस्राव मे तदा ॥ ७२.१८॥
लज्जया कलुषीभूतः स्कन्नं वीर्यमचूर्णयम् ।
मद्वीर्याच्चूर्णितात् सूक्ष्माद् वालखिल्यास्तु जज्ञिरे ॥ ७२.१९॥
ततो महान् अभूत् तत्र हाहाकारः सुरोदितः ।
लज्जया परिभूतोऽहं निर्गतस्तु तदासनात् ॥ ७२.२०॥
पश्यत्सु देवसंघेषु तूष्णीम्भूतेषु नारद ।
गच्छन्तं मां महादेवो दृष्ट्वा नन्दिनमब्रवीत् ॥ ७२.२१॥
शिव उवाच ।
ब्रह्माणमाह्वयस्वेह गतपापं करोम्यहम् ।
कृतापराधेऽपि जने सन्तः सकृपमानसाः ।
मोहयन्त्यपि विद्वांसं विषयाणामियं स्थितिः ॥ ७२.२२॥
ब्रह्मोवाच ।
एवमुक्त्वा स भगवान् उमया सहितः शिवः ।
ममानुकम्पया चैव लोकानां हितकाम्यया ॥ ७२.२३॥
एतच्चकार लोकेशः शृणु नारद यत्नतः ।
पापिनां पापमोक्षाय भूमिरापो भविष्यति ॥ ७२.२४॥
तयोश्च सारसर्वस्वमाहरिष्यामि पावनम् ।
एवं निश्चित्य भगवांस्तयोः सारं समाहरत् ॥ ७२.२५॥
भूमिं कमण्डलुं कृत्वा तत्रापः संनिवेश्य च ।
पावमान्यादिभिः सूक्तैरभिमन्त्र्य च यत्नतः ॥ ७२.२६॥
त्रिजगत्पावनीं शक्तिं तत्र सस्मार पापहा ।
मामुवाच स लोकेशो गृहाणेमं कमण्डलुम् ॥ ७२.२७॥
आपो वै मातरो देव्यो भूमिर्माता तथापरा ।
स्थित्युत्पत्तिविनाशानां हेतुत्वमुभयोः स्थितम् ॥ ७२.२८॥
अत्र प्रतिष्ठितो धर्मो ह्यत्र यज्ञः सनातनः ।
अत्र भुक्तिश्च मुक्तिश्च स्थावरं जङ्गमं तथा ॥ ७२.२९॥
स्मरणान् मानसं पापं वचनाद् वाचिकं तथा ।
स्नानपानाभिषेकाच्च प्रणश्यत्यपि कायिकम् ॥ ७२.३०॥