अध्याय 71, Verse 1
नारद उवाच ।
त्रिदैवत्यं तु यत् तीर्थं सर्वेभ्यो ह्युक्तमुत्तमम् ।
तस्य स्वरूपभेदं च विस्तरेण ब्रवीतु मे ॥ ७१.१॥
Containing 42 sacred Sanskrit shlokas with multi-author commentaries and translations.
नारद उवाच ।
त्रिदैवत्यं तु यत् तीर्थं सर्वेभ्यो ह्युक्तमुत्तमम् ।
तस्य स्वरूपभेदं च विस्तरेण ब्रवीतु मे ॥ ७१.१॥
ब्रह्मोवाच ।
तावद् अन्यानि तीर्थानि तावत् ताः पुण्यभूमयः ।
तावद् यज्ञादयो यावत् त्रिदैवत्यं न दृश्यते ॥ ७१.२॥
गङ्गेयं सरितां श्रेष्ठा सर्वकामप्रदायिनी ।
त्रिदैवत्या मुनिश्रेष्ठ तदुत्पत्तिमतः शृणु ॥ ७१.३॥
वर्षाणामयुतात् पूर्वं देवकार्य उपस्थिते ।
तारको बलवान् आसीन् मद्वराद् अतिगर्वितः ॥ ७१.४॥
देवानां परमैश्वर्यं हृतं तेन बलीयसा ।
ततस्ते शरणं जग्मुर्देवाः सेन्द्रपुरोगमाः ॥ ७१.५॥
क्षीरोदशायिनं देवं जगतां प्रपितामहम् ।
कृताञ्जलिपुटा देवा विष्णुमूचुरनन्यगाः ॥ ७१.६॥
देवा ऊचुः ।
त्वं त्राता जगतां नाथ देवानां कीर्तिवर्धन ।
सर्वेश्वर जगद्योने त्रयीमूर्ते नमोऽस्तु ते ॥ ७१.७॥
लोकस्रष्टासुरान् हन्ता त्वमेव जगतां पतिः ।
स्थित्युत्पत्तिविनाशानां कारणं त्वं जगन्मय ॥ ७१.८॥
त्राता न कोप्यस्ति जगत्त्रयेऽपि ।
शरीरिणां सर्वविपद्गतानाम् ।
त्वया विना वारिजपत्त्रनेत्र ।
तापत्रयाणां शरणं न चान्यत् ॥ ७१.९॥
पिता च माता जगतोऽखिलस्य ।
त्वमेव सेवासुलभोऽसि विष्णो ।
प्रसीद पाहीश महाभयेभ्यो ।
आदिकर्ता वराहस्त्वं मत्स्यः कूर्मस्तथैव च ।
इत्यादिरूपभेदैर्नो रक्षसे भय आगते ॥ ७१.११॥
हृतस्वाम्यान् सुरगणान् हृतदारान् गतापदः ।
कस्मान् न रक्षसे देव अनन्यशरणान् हरे ॥ ७१.१२॥
ब्रह्मोवाच ।
ततः प्रोवाच भगवाञ् शेषशायी जगत्पतिः ।
कस्माच्च भयमापन्नं तद् ब्रुवन्तु गतज्वराः ।
ततः श्रियः पतिं प्राहुस्तं तारकवधं प्रति ॥ ७१.१३॥
देवा ऊचुः ।
तारकाद् भयमापन्नं भीषणं रोमहर्षणम् ।
न युद्धैस्तपसा शापैर्हन्तुं नैव क्षमा वयम् ॥ ७१.१४॥
अर्वाग्दशाहाद् यो बालस्तस्मान् मृत्युमवाप्स्यति ।
तस्माद् देव न चान्येभ्यस्तत्र नीतिर्विधीयताम् ॥ ७१.१५॥
ब्रह्मोवाच ।
पुनर्नारायणः प्राह नाहं बलोत्कटः सुराः ।
न मत्तो मदपत्याच्च न देवेभ्यो वधो भवेत् ॥ ७१.१६॥
ईश्वराद् यदि जायेत अपत्यं बहुशक्तिकम् ।
तस्माद् वधमवाप्नोति तारको लोकदारुणः ॥ ७१.१७॥
तद् गच्छामः सुराः सर्वे यतितुम् ऋषिभिः सह ।
भार्यार्थं प्रथमो यत्नः कर्तव्यः प्रभविष्णुभिः ॥ ७१.१८॥
तथेत्युक्त्वा सुरगणा जग्मुस्ते च नगोत्तमम् ।
हिमवन्तं रत्नमयं मेनां च हिमवत्प्रियाम् ॥ ७१.१९॥
इदमूचुः सर्व एव सभार्यं तुहिनं गिरिम् ॥ ७१.२०॥
देवा ऊचुः ।
दाक्षायणी लोकमाता या शक्तिः संस्थिता गिरौ ।
बुद्धिः प्रज्ञा धृतिर्मेधा लज्जा पुष्टिः सरस्वती ॥ ७१.२१॥
एवं त्वनेकधा लोके या स्थिता लोकपावनी ।
देवानां कार्यसिद्ध्यर्थं युवयोर्गर्भमाविशत् ॥ ७१.२२॥
समुत्पन्ना जगन्माता शम्भोः पत्नी भविष्यति ।
अस्माकं भवतां चापि पालनी च भविष्यति ॥ ७१.२३॥
ब्रह्मोवाच ।
हिमवान् अपि तद् वाक्यं सुराणामभिनन्द्य च ।
मेना चापि महोत्साहा अस्त्वित्येवं वचोऽब्रवीत् ॥ ७१.२४॥
तदोत्पन्ना जगद्धात्री गौरी हिमवतो गृहे ।
शिवध्यानरता नित्यं तन्निष्ठा तन्मनोगता ॥ ७१.२५॥
तां वै प्रोचुः सुरगणा ईशार्थे तप आविश ।
तथा हिमवतः पृष्ठे गौरी तेपे तपो महत् ॥ ७१.२६॥
पुनः सम्मन्त्रयामासुरीशो ध्यायति तां शिवाम् ।
आत्मानं वा तथान्यद् वा न जानीमः कथं भवः ॥ ७१.२७॥
मेनकायाः सुतायां तु चित्तं दध्यात् सुरेश्वरः ।
तत्र नीतिर्विधातव्या ततः श्रैष्ठ्यमवाप्स्यथ ।
ततः प्राह महाबुद्धिर्वाचस्पतिरुदारधीः ॥ ७१.२८॥
बृहस्पतिरुवाच ।
यस्त्वयं मदनो धीमान् कन्दर्पः पुष्पचापधृक् ।
स विध्यतु शिवं शान्तं बाणैः पुष्पमयैः शुभैः ॥ ७१.२९॥
तेन विद्धस्त्रिनेत्रोऽपि ईशायां बुद्धिमादधेत् ।
परिणेष्यत्यसौ नूनं तदा तां गिरिजां हरः ॥ ७१.३०॥