अध्याय 70, Verse 1
ब्रह्मोवाच ।
सर्वेषां चैव तीर्थानां क्षेत्राणां च द्विजोत्तमाः ।
जपहोमव्रतानां च तपोदानफलानि च ॥ ७०.१॥
Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.
ब्रह्मोवाच ।
सर्वेषां चैव तीर्थानां क्षेत्राणां च द्विजोत्तमाः ।
जपहोमव्रतानां च तपोदानफलानि च ॥ ७०.१॥
न तत् पश्यामि भो विप्रा यत् तेन सदृशं भुवि ।
किं चात्र बहुनोक्तेन भाषितेन पुनः पुनः ॥ ७०.२॥
सत्यं सत्यं पुनः सत्यं क्षेत्रं तत् परमं महत् ।
पुरुषाख्यं सकृद् दृष्ट्वा सागराम्भःसमाप्लुतम् ॥ ७०.३॥
ब्रह्मविद्यां सकृज्ज्ञात्वा गर्भवासो न विद्यते ।
हरेः संनिहिते स्थान उत्तमे पुरुषोत्तमे ॥ ७०.४॥
संवत्सरमुपासीत मासमात्रमथापि वा ।
तेन जप्तं हुतं तेन तेन तप्तं तपो महत् ॥ ७०.५॥
स याति परमं स्थानं यत्र योगेश्वरो हरिः ।
भुक्त्वा भोगान् विचित्रांश्च देवयोषित्समन्वितः ॥ ७०.६॥
कल्पान्ते पुनरागत्य मर्त्यलोके नरोत्तमः ।
जायते योगिनां विप्रा ज्ञानज्ञेयोद्यतो गृहे ॥ ७०.७॥
सम्प्राप्य वैष्णवं योगं हरेः स्वच्छन्दतां व्रजेत् ।
कल्पवृक्षस्य रामस्य कृष्णस्य भद्रया सह ॥ ७०.८॥
मार्कण्डेयेन्द्रद्युम्नस्य माहात्म्यं माधवस्य च ।
स्वर्गद्वारस्य माहात्म्यं सागरस्य विधिः क्रमात् ॥ ७०.९॥
मार्जनस्य यथाकाले भागीरथ्याः समागमम् ।
सर्वमेतन् मया ख्यातं यत् परं श्रोतुमिच्छथ ॥ ७०.१०॥
इन्द्रद्युम्नस्य माहात्म्यमेतच्च कथितं मया ।
सर्वाश्चर्यं समाख्यातं रहस्यं पुरुषोत्तमम् ।
पुराणं परमं गुह्यं धन्यं संसारमोचनम् ॥ ७०.११॥
मुनय ऊचुः ।
नहि नस्तृप्तिरस्तीह शृण्वतां तीर्थविस्तरम् ।
पुनरेव परं गुह्यं वक्तुमर्हस्यशेषतः ।
परं तीर्थस्य माहात्म्यं सर्वतीर्थोत्तमोत्तमम् ॥ ७०.१२॥
ब्रह्मोवाच ।
इममेव पुरा प्रश्नं पृष्टोऽस्मि द्विजसत्तमाः ।
नारदेन प्रयत्नेन तदा तं प्रोक्तवान् अहम् ॥ ७०.१३॥
नारद उवाच ।
तपसो यज्ञदानानां तीर्थानां पावनं स्मृतम् ।
सर्वं श्रुतं मया त्वत्तो जगद्योने जगत्पते ॥ ७०.१४॥
कियन्ति सन्ति तीर्थानि स्वर्गमर्त्यरसातले ।
सर्वेषामेव तीर्थानां सर्वदा किं विशिष्यते ॥ ७०.१५॥
ब्रह्मोवाच ।
चतुर्विधानि तीर्थानि स्वर्गे मर्त्ये रसातले ।
दैवानि मुनिशार्दूल आसुराण्यार्षाणि च ॥ ७०.१६॥
मानुषाणि त्रिलोकेषु विख्यातानि सुरादिभिः ।
मानुषेभ्यश्च तीर्थेभ्य आर्षं तीर्थमनुत्तमम् ॥ ७०.१७॥
आर्षेभ्यश्चैव तीर्थेभ्य आसुरं बहुपुण्यदम् ।
आसुरेभ्यस्तथा पुण्यं दैवं तत् सार्वकामिकम् ॥ ७०.१८॥
ब्रह्मविष्णुशिवैश्चैव निर्मितं दैवमुच्यते ।
त्रिभ्यो यद् एकं जायेत तस्मान् नातः परं विदुः ॥ ७०.१९॥
त्रयाणामपि लोकानां तीर्थं मेध्यमुदाहृतम् ।
तत्रापि जाम्बवं द्वीपं तीर्थं बहुगुणोदयम् ॥ ७०.२०॥
जाम्बवे भारतं वर्षं तीर्थं त्रैलोक्यविश्रुतम् ।
कर्मभूमिर्यतः पुत्र तस्मात् तीर्थं तद् उच्यते ॥ ७०.२१॥
तत्रैव यानि तीर्थानि यान्युक्तानि मया तव ।
हिमवद्विन्ध्ययोर्मध्ये षण्नद्यो देवसम्भवाः ॥ ७०.२२॥
तथैव देवजा ब्रह्मन् दक्षिणार्णवविन्ध्ययोः ।
एता द्वादश नद्यस्तु प्राधान्येन प्रकीर्तिताः ॥ ७०.२३॥
अभिसम्पूजितं यस्माद् भारतं बहुपुण्यदम् ।
कर्मभूमिरतो देवैर्वर्षं तस्मात् प्रकीर्तितम् ॥ ७०.२४॥
आर्षाणि चैव तीर्थानि देवजानि क्वचित् क्वचित् ।
आसुरैरावृतान्यासंस्तद् एवासुरमुच्यते ॥ ७०.२५॥
दैवेष्वेव प्रदेशेषु तपस्तप्त्वा महर्षयः ।
दैवप्रभावात् तपस आर्षाण्यपि च तान्यपि ॥ ७०.२६॥
आत्मनः श्रेयसे मुक्त्यै पूजायै भूतयेऽथवा ।
आत्मनः फलभूत्यर्थं यशसोऽवाप्तये पुनः ॥ ७०.२७॥
मानुषैः कारितान्याहुर्मानुषाणीति नारद ।
एवं चतुर्विधो भेदस्तीर्थानां मुनिसत्तम ॥ ७०.२८॥
भेदं न कश्चिज्जानाति श्रोतुं युक्तोऽसि नारद ।
बहवः पण्डितम्मन्याः शृण्वन्ति कथयन्ति च ।
सुकृती कोऽपि जानाति वक्तुं श्रोतुं निजैर्गुणैः ॥ ७०.२९॥
नारद उवाच ।
तेषां स्वरूपं भेदं च श्रोतुमिच्छामि तत्त्वतः ।
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ७०.३०॥