अध्याय 7, Verse 1
लोमहर्षण उवाच ।
मनोर्वैवस्वतस्यासन् पुत्रा वै नव तत्समाः ।
इक्ष्वाकुश्चैव नाभागो धृष्टः शर्यातिरेव च ॥ ७.१॥
Containing 109 sacred Sanskrit shlokas with multi-author commentaries and translations.
लोमहर्षण उवाच ।
मनोर्वैवस्वतस्यासन् पुत्रा वै नव तत्समाः ।
इक्ष्वाकुश्चैव नाभागो धृष्टः शर्यातिरेव च ॥ ७.१॥
नरिष्यन्तश्च षष्ठो वै प्रांशू रिष्टश्च सप्तमः ।
करूषश्च पृषध्रश्च नवैते मुनिसत्तमाः ॥ ७.२॥
अकरोत् पुत्रकामस्तु मनुरिष्टिं प्रजापतिः ।
मित्रावरुणयोर्विप्राः पूर्वमेव महामतिः ॥ ७.३॥
अनुत्पन्नेषु बहुषु पुत्रेष्वेतेषु भो द्विजाः ।
तस्यां च वर्तमानायामिष्ट्यां च द्विजसत्तमाः ॥ ७.४॥
मित्रावरुणयोरंशे मनुराहुतिमावहत् ।
तत्र दिव्याम्बरधरा दिव्याभरणभूषिता ॥ ७.५॥
दिव्यसंहनना चैव इला जज्ञ इति श्रुतिः ।
तामिलेत्येव होवाच मनुर्दण्डधरस्तदा ॥ ७.६॥
अनुगच्छस्व मां भद्रे तमिला प्रत्युवाच ह ।
धर्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापतिम् ॥ ७.७॥
इलोवाच ।
मित्रावरुणयोरंशे जातास्मि वदतां वर ।
तयोः सकाशं यास्यामि न मां धर्महतां कुरु ॥ ७.८॥
सैवमुक्त्वा मनुं देवं मित्रावरुणयोरिला ।
गत्वान्तिकं वरारोहा प्राञ्जलिर्वाक्यमब्रवीत् ॥ ७.९॥
इलोवाच ।
अंशेऽस्मि युवयोर्जाता देवौ किं करवाणि वाम् ।
मनुना चाहमुक्ता वै अनुगच्छस्व मामिति ॥ ७.१०॥
तौ तथावादिनीं साध्वीमिलां धर्मपरायणाम् ।
मित्रश्च वरुणश्चोभावूचतुस्तां द्विजोत्तमाः ॥ ७.११॥
मित्रावरुणावूचतुः ।
अनेन तव धर्मेण प्रश्रयेण दमेन च ।
सत्येन चैव सुश्रोणि प्रीतौ स्वो वरवर्णिनि ॥ ७.१२॥
आवयोस्त्वं महाभागे ख्यातिं कन्येति यास्यसि ॥ ७.१३॥
मनोर्वंशकरः पुत्रस्त्वमेव च भविष्यसि ।
सुद्युम्न इति विख्यातस्त्रिषु लोकेषु शोभने ॥ ७.१४॥
जगत्प्रियो धर्मशीलो मनोर्वंशविवर्धनः ।
निवृत्ता सा तु तच्छ्रुत्वा गच्छन्ती पितुरन्तिकात् ॥ ७.१५॥
बुधेनान्तरमासाद्य मैथुनायोपमन्त्रिता ।
सोमपुत्राद् बुधाद् विप्रास्तस्यां जज्ञे पुरूरवाः ॥ ७.१६॥
जनयित्वा ततः सा तमिला सुद्युम्नतां गता ।
सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः ॥ ७.१७॥
उत्कलश्च गयश्चैव विनताश्वश्च भो द्विजाः ।
उत्कलस्योत्कला विप्रा विनताश्वस्य पश्चिमाः ॥ ७.१८॥
दिक् पूर्वा मुनिशार्दूला गयस्य तु गया स्मृता ।
प्रविष्टे तु मनौ विप्रा दिवाकरमरिंदमम् ॥ ७.१९॥
दशधा तत् पुनः क्षत्रमकरोत् पृथिवीमिमाम् ।
इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान् ॥ ७.२०॥
कन्याभावात् तु सुद्युम्नो नैतद् राज्यमवाप्तवान् ।
वसिष्ठवचनात् त्वासीत् प्रतिष्ठाने महात्मनः ॥ ७.२१॥
प्रतिष्ठा धर्मराजस्य सुद्युम्नस्य द्विजोत्तमाः ।
तत् पुरूरवसे प्रादाद् राज्यं प्राप्य महायशाः ॥ ७.२२॥
मानवेयो मुनिश्रेष्ठाः स्त्रीपुंसोर्लक्षणैर्युतः ।
धृतवांस्तामिलेत्येवं सुद्युम्नेति च विश्रुतः ॥ ७.२३॥
नारिष्यन्ताः शकाः पुत्रा नाभागस्य तु भो द्विजाः ।
अम्बरीषोऽभवत् पुत्रः पार्थिवर्षभसत्तमः ॥ ७.२४॥
धृष्टस्य धार्ष्टकं क्षत्रं रणदृप्तं बभूव ह ।
करूषस्य च कारूषाः क्षत्रिया युद्धदुर्मदाः ॥ ७.२५॥
नाभागधृष्टपुत्राश्च क्षत्रिया वैश्यतां गताः ।
प्रांशोरेकोऽभवत् पुत्रः प्रजापतिरिति स्मृतः ॥ ७.२६॥
नरिष्यन्तस्य दायादो राजा दण्डधरो यमः ।
शर्यातेर्मिथुनं त्वासीद् आनर्तो नाम विश्रुतः ॥ ७.२७॥
पुत्रः कन्या सुकन्या च या पत्नी च्यवनस्य ह ।
आनर्तस्य तु दायादो रैवो नाम महाद्युतिः ॥ ७.२८॥
आनर्तविषयश्चैव पुरी चास्य कुशस्थली ।
रैवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः ॥ ७.२९॥
ज्येष्ठः पुत्रः स तस्यासीद् राज्यं प्राप्य कुशस्थलीम् ।
स कन्यासहितः श्रुत्वा गान्धर्वं ब्रह्मणोऽन्तिके ॥ ७.३०॥