अध्याय 69, Verse 1
मुनय ऊचुः ।
बह्वाश्चर्यस्त्वया प्रोक्तो विष्णुलोको जगत्पते ।
नित्यानन्दकरः श्रीमान् भुक्तिमुक्तिफलप्रदः ॥ ६९.१॥
Containing 43 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
बह्वाश्चर्यस्त्वया प्रोक्तो विष्णुलोको जगत्पते ।
नित्यानन्दकरः श्रीमान् भुक्तिमुक्तिफलप्रदः ॥ ६९.१॥
क्षेत्रं च दुर्लभं लोके कीर्तितं पुरुषोत्तमम् ।
त्यक्त्वा यत्र नरो देहं याति सालोक्यतां हरेः ॥ ६९.२॥
सम्यक् क्षेत्रस्य माहात्म्यं त्वया सम्यक् प्रकीर्तितम् ।
यत्र स्वदेहसंत्यागाद् विष्णुलोकं व्रजेन् नरः ॥ ६९.३॥
अहो मोक्षस्य मार्गोऽयं देहत्यागस्त्वयोदितः ।
नराणामुपकाराय पुरुषाख्ये न संशयः ॥ ६९.४॥
अनायासेन देवेश देहं त्यक्त्वा नरोत्तमाः ।
तस्मिन् क्षेत्रे परं विष्णोः पदं यान्ति निरामयम् ॥ ६९.५॥
श्रुत्वा क्षेत्रस्य माहात्म्यं विस्मयो नो महान् अभूत् ।
प्रयागपुष्करादीनि क्षेत्राण्यायतनानि च ॥ ६९.६॥
पृथिव्यां सर्वतीर्थानि सरितश्च सरांसि च ।
न तथा तानि सर्वाणि प्रशंससि सुरोत्तम ॥ ६९.७॥
यथा प्रशंससि क्षेत्रं पुरुषाख्यं पुनः पुनः ।
ज्ञातोऽस्माभिरभिप्रायस्तवेदानीं पितामह ॥ ६९.८॥
येन प्रशंससि क्षेत्रं मुक्तिदं पुरुषोत्तमम् ।
पुरुषाख्यसमं नूनं क्षेत्रं नास्ति महीतले ।
तेन त्वं विबुधश्रेष्ठ प्रशंससि पुनः पुनः ॥ ६९.९॥
ब्रह्मोवाच ।
सत्यं सत्यं मुनिश्रेष्ठा भवद्भिः समुदाहृतम् ।
पुरुषाख्यसमं क्षेत्रं नास्त्यत्र पृथिवीतले ॥ ६९.१०॥
सन्ति यानि तु तीर्थानि पुण्यान्यायतनानि च ।
तानि श्रीपुरुषाख्यस्य कलां नार्हन्ति षोडशीम् ॥ ६९.११॥
यथा सर्वेश्वरो विष्णुः सर्वलोकोत्तमोत्तमः ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१२॥
आदित्यानां यथा विष्णुः श्रेष्ठत्वे समुदाहृतः ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१३॥
नक्षत्राणां यथा सोमः सरसां सागरो यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१४॥
वसूनां पावको यद्वद् रुद्राणां शंकरो यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१५॥
वर्णानां ब्राह्मणो यद्वद् वैनतेयश्च पक्षिणाम् ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१६॥
शिखरिणां यथा मेरुः पर्वतानां हिमालयः ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१७॥
प्रमदानां यथा लक्ष्मीः सरितां जाह्नवी यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१८॥
ऐरावतो गजेन्द्राणां महर्षीणां भृगुर्यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.१९॥
सेनानीनां यथा स्कन्दः सिद्धानां कपिलो यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२०॥
उच्चैःश्रवा यथाश्वानां कवीनामुशना कविः ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२१॥
मुनीनां च यथा व्यासः कुबेरो यक्षरक्षसाम् ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२२॥
इन्द्रियाणां मनो यद्वद् भूतानामवनी यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२३॥
अश्वत्थः सर्ववृक्षाणां पवनः प्लवतां यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२४॥
भूषणानां तु सर्वेषां यथा चूडामणिर्द्विजाः ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२५॥
गन्धर्वाणां चित्ररथः शस्त्राणां कुलिशो यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२६॥
अकारः सर्ववर्णानां गायत्री छन्दसां यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२७॥
सर्वाङ्गेभ्यो यथा श्रेष्ठमुत्तमाङ्गं द्विजोत्तमाः ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥ ६९.२८॥
अरुन्धती यथा स्त्रीणां सतीनां श्रेष्ठतां गता ।
तथा समस्ततीर्थानां श्रेष्ठं तत् पुरुषोत्तमम् ॥ ६९.२९॥
यथा समस्तविद्यानां मोक्षविद्या परा स्मृता ।
तथा समस्ततीर्थानां श्रेष्ठं तत् पुरुषोत्तमम् ॥ ६९.३०॥