अध्याय 68, Verse 1
मुनय ऊचुः ।
श्रोतुमिच्छामहे देव विष्णुलोकमनामयम् ।
लोकानन्दकरं कान्तं सर्वाश्चर्यसमन्वितम् ॥ ६८.१॥
Containing 77 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
श्रोतुमिच्छामहे देव विष्णुलोकमनामयम् ।
लोकानन्दकरं कान्तं सर्वाश्चर्यसमन्वितम् ॥ ६८.१॥
प्रमाणं तस्य लोकस्य भोगं कान्तिं बलं प्रभो ।
कर्मणा केन गच्छन्ति तत्र धर्मपरायणाः ॥ ६८.२॥
दर्शनात् स्पर्शनाद् वापि तीर्थस्नानादिनापि वा ।
विस्तराद् ब्रूहि तत्त्वेन परं कौतूहलं हि नः ॥ ६८.३॥
ब्रह्मोवाच ।
शृणुध्वं मुनयः सर्वे यत् परं परमं पदम् ।
भक्तानामीहितं धन्यं पुण्यं संसारनाशनम् ॥ ६८.४॥
प्रवरं सर्वलोकानां विष्ण्वाख्यं वदतो मम ।
सर्वाश्चर्यमयं पुण्यं स्थानं त्रैलोक्यपूजितम् ॥ ६८.५॥
अशोकैः पारिजातैश्च मन्दारैश्चम्पकद्रुमैः ।
मालतीमल्लिकाकुन्दैर्बकुलैर्नागकेसरैः ॥ ६८.६॥
पुंनागैरतिमुक्तैश्च प्रियङ्गुतगरार्जुनैः ।
पाटलाचूतखदिरैः कर्णिकारवनोज्ज्वलैः ॥ ६८.७॥
नारङ्गैः पनसैर्लोध्रैर्निम्बदाडिमसर्जकैः ।
द्राक्षालकुचखर्जूरैर्मधुकेन्द्रफलैर्द्रुमैः ॥ ६८.८॥
कपित्थैर्नारिकेरैश्च तालैः श्रीफलसम्भवैः ।
कल्पवृक्षैरसंख्यैश्च वन्यैरन्यैः सुशोभनैः ॥ ६८.९॥
सरलैश्चन्दनैर्नीपैर्देवदारुशुभाञ्जनैः ।
जातीलवङ्गकङ्कोलैः कर्पूरामोदवासिभिः ॥ ६८.१०॥
ताम्बूलपत्त्रनिचयैस्तथा पूगीफलद्रुमैः ।
अन्यैश्च विविधैर्वृक्षैः सर्वर्तुफलशोभितैः ॥ ६८.११॥
पुष्पैर्नानाविधैश्चैव लतागुच्छसमुद्भवैः ।
नानाजलाशयैः पुण्यैर्नानापक्षिरुतैर्वरैः ॥ ६८.१२॥
दीर्घिकाशतसंघातैस्तोयपूर्णैर्मनोहरैः ।
कुमुदैः शतपत्त्रैश्च पुष्पैः कोकनदैर्वरैः ॥ ६८.१३॥
रक्तनीलोत्पलैः कान्तैः कह्लारैश्च सुगन्धिभिः ।
अन्यैश्च जलजैः पुष्पैर्नानावर्णैः सुशोभनैः ॥ ६८.१४॥
हंसकारण्डवाकीर्णैश्चक्रवाकोपशोभितैः ।
कोयष्टिकैश्च दात्यूहैः कारण्डवरवाकुलैः ॥ ६८.१५॥
चातकैः प्रियपुत्रैश्च जीवंजीवकजातिभिः ।
अन्यैर्दिव्यैर्जलचरैर्विहारमधुरस्वनैः ॥ ६८.१६॥
एवं नानाविधैर्दिव्यैर्नानाश्चर्यसमन्वितैः ।
वृक्षैर्जलाशयैः पुण्यैर्भूषितं सुमनोहरैः ॥ ६८.१७॥
तत्र दिव्यैर्विमानैश्च नानारत्नविभूषितैः ।
कामगैः काञ्चनैः शुभ्रैर्दिव्यगन्धर्वनादितैः ॥ ६८.१८॥
तरुणादित्यसंकाशैरप्सरोभिरलंकृतैः ।
हेमशय्यासनयुतैर्नानाभोगसमन्वितैः ॥ ६८.१९॥
खेचरैः सपताकैश्च मुक्ताहारावलम्बिभिः ।
नानावर्णैरसंख्यातैर्जातरूपपरिच्छदैः ॥ ६८.२०॥
नानाकुसुमगन्धाढ्यैश्चन्दनागुरुभूषितैः ।
सुखप्रचारबहुलैर्नानावादित्रनिःस्वनैः ॥ ६८.२१॥
मनोमारुततुल्यैश्च किङ्किणीस्तबकाकुलैः ।
विहरन्ति पुरे तस्मिन् वैष्णवे लोकपूजिते ॥ ६८.२२॥
नानाङ्गनाभिः सततं गन्धर्वाप्सरसादिभिः ।
चन्द्राननाभिः कान्ताभिर्योषिद्भिः सुमनोहरैः ॥ ६८.२३॥
पीनोन्नतकुचाग्राभिः सुमध्याभिः समन्ततः ।
श्यामावदातवर्णाभिर्मत्तमातङ्गगामिभिः ॥ ६८.२४॥
परिवार्य नरश्रेष्ठं वीजयन्ति स्म ताः स्त्रियः ।
चामरै रुक्मदण्डैश्च नानारत्नविभूषितैः ॥ ६८.२५॥
गीतनृत्यैस्तथा वाद्यैर्मोदमानैर्मदालसैः ।
यक्षविद्याधरैः सिद्धैर्गन्धर्वैरप्सरोगणैः ॥ ६८.२६॥
सुरसंघैश्च ऋषिभिः शुशुभे भुवनोत्तमम् ।
तत्र प्राप्य महाभोगान् प्राप्नुवन्ति मनीषिणः ॥ ६८.२७॥
वटराजसमीपे तु दक्षिणस्योदधेस्तटे ।
दृष्टो यैर्भगवान् कृष्णः पुष्कराक्षो जगत्पतिः ॥ ६८.२८॥
क्रीडन्त्यप्सरसैः सार्धं यावद् द्यौश्चन्द्रतारकम् ।
प्रतप्तहेमसंकाशा जरामरणवर्जिताः ॥ ६८.२९॥
सर्वदुःखविहीनाश्च तृष्णाग्लानिविवर्जिताः ।
चतुर्भुजा महावीर्या वनमालाविभूषिताः ॥ ६८.३०॥