अध्याय 67, Verse 1
मुनय ऊचुः ।
एकैकस्यास्तु यात्रायाः फलं ब्रूहि पृथक् पृथक् ।
यत् प्राप्नोति नरः कृत्वा नारी वा तत्र संयता ॥ ६७.१॥
Containing 81 sacred Sanskrit shlokas with multi-author commentaries and translations.
मुनय ऊचुः ।
एकैकस्यास्तु यात्रायाः फलं ब्रूहि पृथक् पृथक् ।
यत् प्राप्नोति नरः कृत्वा नारी वा तत्र संयता ॥ ६७.१॥
ब्रह्मोवाच ।
प्रतियात्राफलं विप्राः शृणुध्वं गदतो मम ।
यत् प्राप्नोति नरः कृत्वा तस्मिन् क्षेत्रे सुसंयतः ॥ ६७.२॥
गुडिवायां तथोत्थाने फाल्गुन्यां विषुवे तथा ।
यात्रां कृत्वा विधानेन दृष्ट्वा कृष्णं प्रणम्य च ॥ ६७.३॥
संकर्षणं सुभद्रां च लभेत् सर्वत्र वै फलम् ।
नरो गच्छेद् विष्णुलोके यावद् इन्द्राश्चतुर्दश ॥ ६७.४॥
यावद् यात्रां ज्येष्ठमासे करोति विधिवन् नरः ।
तावत् कल्पं विष्णुलोके सुखं भुङ्क्ते न संशयः ॥ ६७.५॥
तस्मिन् क्षेत्रवरे पुण्ये रम्ये श्रीपुरुषोत्तमे ।
भुक्तिमुक्तिप्रदे नृणां सर्वसत्त्वसुखावहे ॥ ६७.६॥
ज्येष्ठे यात्रां नरः कृत्वा नारी वा संयतेन्द्रियः ।
यथोक्तेन विधानेन दश द्वे च समाहितः ॥ ६७.७॥
प्रतिष्ठां कुरुते यस्तु शाठ्यदम्भविवर्जितः ।
स भुक्त्वा विविधान् भोगान् मोक्षं चान्ते लभेद् ध्रुवम् ॥ ६७.८॥
मुनय ऊचुः ।
श्रोतुमिच्छामहे देव प्रतिष्ठां वदतस्तव ।
विधानं चार्चनं दानं फलं तत्र जगत्पतेः ॥ ६७.९॥
ब्रह्मोवाच ।
शृणुध्वं मुनिशार्दूलाः प्रतिष्ठां विधिचोदिताम् ।
यां कृत्वा तु नरो भक्त्या नारी वा लभते फलम् ॥ ६७.१०॥
यात्रा द्वादश सम्पूर्णा यदा स्यात् तु द्विजोत्तमाः ।
तदा कुर्वीत विधिवत् प्रतिष्ठां पापनाशिनीम् ॥ ६७.११॥
ज्येष्ठे मासि सिते पक्षे त्वेकादश्यां समाहितः ।
गत्वा जलाशयं पुण्यमाचम्य प्रयतः शुचिः ॥ ६७.१२॥
आवाह्य सर्वतीर्थानि ध्यात्वा नारायणं तथा ।
ततः स्नानं प्रकुर्वीत विधिवत् सुसमाहितः ॥ ६७.१३॥
यस्य यो विधिरुद्दिष्ट ऋषिभिः स्नानकर्मणि ।
तेनैव तु विधानेन स्नानं तस्य विधीयते ॥ ६७.१४॥
स्नात्वा सम्यग् विधानेन ततो देवान् ऋषीन् पितृन् ।
संतर्पयेत् तथान्यांश्च नामगोत्रविधानवित् ॥ ६७.१५॥
उत्तीर्य वाससी धौते निर्मले परिधाय वै ।
उपस्पृश्य विधानेन भास्कराभिमुखस्ततः ॥ ६७.१६॥
गायत्रीं पावनीं देवीं मनसा वेदमातरम् ।
सर्वपापहरां पुण्यां जपेद् अष्टोत्तरं शतम् ॥ ६७.१७॥
पुण्यांश्च सौरमन्त्रांश्च श्रद्धया सुसमाहितः ।
त्रिः प्रदक्षिणमावृत्य भास्करं प्रणमेत् ततः ॥ ६७.१८॥
वेदोक्तं त्रिषु वर्णेषु स्नानं जाप्यमुदाहृतम् ।
स्त्रीशूद्रयोः स्नानजाप्यं वेदोक्तविधिवर्जितम् ॥ ६७.१९॥
ततो गच्छेद् गृहं मौनी पूजयेत् पुरुषोत्तमम् ।
प्रक्षाल्य हस्तौ पादौ च उपस्पृश्य यथाविधि ॥ ६७.२०॥
घृतेन स्नापयेद् देवं क्षीरेण तदनन्तरम् ।
मधुगन्धोदकेनैव तीर्थचन्दनवारिणा ॥ ६७.२१॥
ततो वस्त्रयुगं श्रेष्ठं भक्त्या तं परिधापयेत् ।
चन्दनागरुकर्पूरैः कुङ्कुमेन विलेपयेत् ॥ ६७.२२॥
पूजयेत् परया भक्त्या पद्मैश्च पुरुषोत्तमम् ।
अन्यैश्च वैष्णवैः पुष्पैरर्चयेन् मल्लिकादिभिः ॥ ६७.२३॥
सम्पूज्यैवं जगन्नाथं भुक्तिमुक्तिप्रदं हरिम् ।
धूपं चागुरुसंयुक्तं दहेद् देवस्य चाग्रतः ॥ ६७.२४॥
गुग्गुलं च मुनिश्रेष्ठा दहेद् गन्धसमन्वितम् ।
दीपं प्रज्वालयेद् भक्त्या यथाशक्त्या घृतेन वै ॥ ६७.२५॥
अन्यांश्च दीपकान् दद्याद् द्वादशैव समाहितः ।
घृतेन च मुनिश्रेष्ठास्तिलतैलेन वा पुनः ॥ ६७.२६॥
नैवेद्ये पायसापूप+ ।
शष्कुलीवटकं तथा ।
मोदकं फाणितं वाल्पं फलानि च निवेदयेत् ॥ ६७.२७॥
एवं पञ्चोपचारेण सम्पूज्य पुरुषोत्तमम् ।
नमः पुरुषोत्तमायेति जपेद् अष्टोत्तरं शतम् ॥ ६७.२८॥
ततः प्रसादयेद् देवं भक्त्या तं पुरुषोत्तमम् ।
नमस्ते सर्वलोकेश भक्तानामभयप्रद ॥ ६७.२९॥
संसारसागरे मग्नं त्राहि मां पुरुषोत्तम ।
यास्ते मया कृता यात्रा द्वादशैव जगत्पते ॥ ६७.३०॥